सुव्रत उवाच -
प्रागेवागमनात्तस्य तत्राभूवन् नृपाऽगताः । भुजङ्गपुर्या गाङ्गेयमुख्या भक्तास्तदीक्षकाः ।। १
तं दृा परमानन्दं प्राप्तास्ते तत्र चावसन् । सन्मानिता उत्तमेन हरिणा च कृतादराः ।। २
दोलोत्सवोऽथ हरिणा महांस्तत्र स्म कार्यते । तदन्ते स्वस्थमासीनं नत्वा गाङ्गेय आह तम् ।। ३
भगवन् ! नगरेऽस्माकं नरनारायणालयम् । कारय त्वं वयं सेवां करिष्यामो धनादिना ।। ४
मनोरथोऽयं सर्वेषां पौराणां भवति प्रभो ! । तं पूरय समर्थोऽसि त्वदीयाः स्मो वयं यतः ।। ५
इत्थं तेनेतरैश्चापि प्रार्थ्यमानो निजाश्रितेः । स्वचिकीर्षितमेवेति तत्तथेत्यन्वमोदत ।। ६
ततश्च वैष्णवानन्दं मुनिं नारायणोऽब्रवीत् । भुजङ्गनगरं गच्छ त्वं सहैतैः समण्डलः ।। ७
तत्र देवालयं रम्यं कारयोत्तमशिल्पिभिः । जाते देवप्रतिष्ठार्थमहमेष्यामि तत्र वै ।। ८
एवमुक्तस्तथेत्याह स मुनिः प्राञ्चलिः प्रभुम् । हर्षमापुश्च ते सर्वे भुजङ्गनगरौकसः ।। ९
समण्डलेन मुनिना सह तेनाथ ते हरिम् । प्रणम्य जग्मुः स्वपुरं चिन्तयन्तस्तमेव हि ।। १०
स मुनिः कारयामास मन्दिरं तत्र शोभनम् । शिल्पशास्त्रानुसारेण वर्षेणैकेन भूपते ! ।। ११
दुर्गपत्तनसंस्थोऽथ नारायणमुनिस्तु सः । श्रोतुमारम्भयामास महाभारतमादितः ।। १२
चैत्रस्य शुक्लपञ्चम्या आरभ्यापरचैत्रिके । हरी रामनवम्यां तन्निर्विध्नेन समापयत् ।। १३
श्रुत्वा यथाविधानं तद्वाचकाय तु दक्षिणाम् । यथेष्टं प्रददौ स्वामी वासोभूषाश्च भूरिशः ।। १४
ब्राह्मणान्भोजयामास दशम्यां स सहस्रशः । ततोऽन्यस्मिंस्तु दिवसे विमलोत्सवमाचरत् ।। १५
तन्मासपौर्णमास्यां च भुजङ्गनगराद्धरिम् । दूत एत्याऽहाहिपुरे निष्पन्नं मन्दिरं प्रभो ! ।। १६
प्रतिष्ठापय तत्रैत्य नरनारायणं हरे ! । इत्यस्ति प्रार्थितं नणां भुजङ्गपुरवासिनाम् ।। १७
इति दूतगिरं श्रुत्वा हरिदैवज्ञासत्तमम् । आहूय निश्चिकायादौ प्रतिष्ठाक्षणमुत्तमम् ।। १८
वैशाखशुक्लपञ्चम्यां तन्निश्चित्य स्वयं ततः । द्वितीयायां निरगमत्तत्रानुज्ञाप्य चोत्तमम् ।। १९
मार्गे स्वभक्तग्रामेषु वसंस्तत्पुरमाययौ । चैत्रकृष्णत्रयोदश्यां हयारूढः सहानुगः ।। २०
प्रत्युग्दतः पौरजनैः प्रेमसास्रविलोचनैः । प्रविश्य तत्पुरं तत्र मन्दिरान्तिक आवसत् ।। २१
पौराः शुश्रूषणं तस्य चक्रु सर्वेऽपि सादरम् । आहारयामास देवप्रतिष्ठोपस्करान् हरिः ।। २२
यथाकालं ततश्चक्रे नरनारायणस्य सः । मन्दिरे स्थापनं तस्मिन् यथा श्रीनगरे तथा ।। २३
महद्बिरेव सम्भारैः शास्त्रोक्तविधिना नृप ! । चकार दुष्करं भूपैः स प्रतिष्ठामहोत्सवम् ।। २४
ब्राह्मणान् सकलान् पौरानन्यांश्चागन्तुकानपि । यथेष्टं भोजयामास ददौ तेभ्यश्च दक्षिणाम् ।। २५
कृष्नार्चनोत्सवादीनां व्यवस्थां च यथोचितम् । सम्प्रदायानुसारेण सप्तम्यां विदधौ हरिः ।। २६
अष्टम्यां भोजनं कृत्वा निर्ययौ नगरात्ततः । परावर्त्याश्रुनयनाननुयातः पुरौकसः ।। २७
स्वस्वग्रामं नीत आत्मीयभक्तैर्मार्गे भक्तया पूजितस्तत्र तत्र ।
धर्मं भक्तिं पोषयन्सानुगोऽसौ मासेनाऽयात् पत्तनं दुर्गसंज्ञाम् ।। २८
प्रत्युद्यातः पौरभक्तैश्च राज्ञा वाद्यध्वानोद्धोषिताशैः सहर्षम् ।
साकं विा तैः पुरं तत्र च खे स्थाने स्वामी चारुपीठे न्यषीदत् ।। २९ ।।
इति श्री सत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे चतुर्थप्रकरणे भुजङ्गपुरे श्रीनरनारायणप्रतिष्ठानिरूपणनामा षड्विंशोऽध्यायः ।। २६ ।।