सुव्रत उवाच -
देशान्तरात् समायातो हरिर्दुर्गपुरे नृप ! । नवमे मास इत्येवं श्रुत्वा देशान्तरस्थिताः ।। १ ।।
तद्दर्शनार्थमाजग्मुर्भक्तास्तत्र सहस्रशः । कृत्वा ते दर्शनं तस्य द्वादश्यां लेभिरे मुदम् ।। २
सन्मानितास्ते हरिणा तत्रोषुर्वासराष्टकम् ।हरिश्चन्दनयात्रायाश्चकार च महोत्सवम् ।। ३
उत्सवान्ते तमासीनं भक्ताः श्रीनगरौकसः । बद्धाञ्जलिपुटा राजन् ! प्रार्थयामासुरादरात् ।। ४
भगवन् ! पुरमस्माकं कृपयाऽयातुमर्हसि । विधातुं मन्दिरं तत्र सर्वेषामस्ति मानसम् ।। ५
गवेन्द्रदत्ताधिकृतिस्तत्रत्यो धरणीपतिः । अनुमोदत एतद्धि प्रीतिमांस्त्वयि सोऽस्ति च ।। ६
एतं मनोरथं तस्मादस्माकं प्रतिपूरय । करिष्यामो हि शुश्रूषां मुनिभिः सहितस्य ते ।। ७
इति तैः प्रार्थितो भक्तैर्भक्तिधर्मप्रपोषकः । नारायणस्तथेत्याह ते च हर्षं प्रपेदिरे ।। ८
आनन्दानन्दनामानं मुनिं प्राह ततो हरिः । एभिः सह श्रीनगरं गच्छ त्वं साम्प्रतं मुने ! ।। ९
तत्रत्यो नृपतिभूमिं दास्यते मन्दिराय नः । कारयेर्मन्दिरं तस्यां शिल्पशास्त्रानुसारतः ।। १०
जाते हि मन्दिरे तत्र प्रेषयेर्दूतमत्र च । तत्रैत्य स्थापयिष्यामि नरनारायणं ह्यहम् ।। ११
इत्युक्तः स तथेत्याह ते च भक्ताः प्रणम्य तम् । त्वयाऽगम्यमवश्यं हीत्युक्त्वा समुनयो ययुः ।। १२
प्राप्य श्रीनगरं तत्र स्वावासोचितवेश्मनि । स्वमण्डलेन सहित उत्ततार मुनिः स च ।। १३
पौरा यथोचितं तस्य परिचर्यामकुर्वत । तत्रत्यो नृपतिस्तस्य दर्शनार्थमुपागमत् ।। १४
स चाह तं मुने ! भूमिर्यावती या तवेप्सिता । तावतीं तां गृहाणाद्य प्रतिरोद्धा न कोऽपि ते ।। १५
ततो मुनिः स्वेप्सितायां दत्तायां तेन भूभुजा । मन्दिरं कारयामास भुवि रम्यं दृढं महत् ।। १६
चतुरैः शिल्पिभिस्तच्च कारयामास शोभनम् । तदपेक्षितवस्तूनि पौरा आजह्नुरादरात् ।। १७
देवप्रतिष्ठायोग्ये च जाते तस्मिन्मुनिः स तु । आपृच्छय गणकांश्चक्रे प्रतिष्ठाक्षणनिश्चयम् ।। १८
प्रेषयामास स ततः साधू द्वौ दुर्गपत्तनम् । हरिमानेतुमृषिराट् वृत्तं तच्च निवेदितुम् ।। १९
हरिस्तु तत्र निवसन्नार्षे रामायणं नृप ! ।भ्रातृभ्यां सह शुश्रूषुः प्रत्यैक्षत तदागमम् ।। २०
तिथौदशहराख्यायां गङ्गार्चनमहोत्सवम् । भानौ गगनमध्यस्थे कृत्वा विप्रानभोजयत् ।। २१
भ्रातृजायान्तिके यावद्बोक्तुं याति स्ववासतः ।हरिस्तावत्तु तौ तत्राऽजग्मतुर्द्वारिकापुरात् ।। २२
तीर्थे गत्वा य आगच्छेत्तत्प्रत्युग्दमने विदन् । पुण्यं महत्तावभ्येत्य परिरेभे स सादरम् ।। २३
ज्येष्ठं स्वयं नमस्कृत्य कनिष्ठेन नमस्कृतः । पृा तत्स्वागतादीनि क्षणं व्यश्रमयच्च तौ ।। २४
स्नात्वा ततः सहैवाभ्यां बुभुजे प्रीणयन् स तौ । श्रीरामचरितं श्रोतुं प्रारम्भत् परेऽहनि ।। २५
एकादश्या निर्जलाया आरभ्य प्रतिवासरम् । ताभ्यां सह स सुश्राव वाल्मीकीयं यथाविधि ।। २६
पौषस्य शुक्लैकादश्यां तत्समाप्तिमचीकरत् । वाचकं तोषयामास वासोभूषाधनादिभिः ।। २७
माघस्नानं चकराथ नद्यां भक्तजनैः प्रगे । पौष्या आरभ्य माध्यन्तं कुर्वंश्चान्द्रायणव्रतम् ।। २८
व्रतान्ते ब्राह्मणान्साधूंस्तर्पयित्वा सहस्रशः । स्वयं च पारणां कृत्वा निषसादासने सुखम् ।। २९
तावच्छ्रीनगरात्साधू तावुपेत्य प्रणम्य तम् । पुरतस्तस्थतू राजन् ! मानयामास तौ स च ।। ३०
आदौ तौ भोजयित्वा तद्वृत्तं पप्रच्छ स प्रभुः । यथावत्तौ जगदतुस्तच्छ्रुत्वा सोऽन्वमोदत ।। ३१
तपस्याद्यतृतीयायां देवसंस्थापनक्षणम् । स ज्ञात्वा तत्पुरं गन्तुमादिदेशात्मनोऽनुगान् ।। ३२
निषिषेध स योषास्तु जयाद्या आगमोद्यताः । जनसम्मर्दबाहुल्यात् पुरे तत्र व्रतस्थिताः ।। ३३
आयास्यामो वयं शीघ्रमिहेत्याश्वास्य ता हरिः । क्षणे मौहूर्तिकैर्दत्ते सप्तम्यां निर्ययौ ततः ।। ३४
उत्तमेन क्षितिभुजा सह स्वीयैश्च पार्षदैः । सहस्रशोऽश्ववारैश्च वृतः क्षत्रियपुङ्गवैः ।। ३५
आरूढो जविनं चाश्वं सोदराभ्यां सहैव सः । मुनभिश्च ययौ स्वामी ततः श्रीनगरं नृप ! ।। ३६
तत्र तत्रार्च्यमानोऽसौ पथि भक्तव्रजैः प्रभुः । पञ्चमेऽहनि तत्प्रापत्स्वानुगैः सह पत्तनम् ।। ३७
पुरोपकण्ठे स्वावासं तडागमभितोऽकरोत् । कार्कराख्यं तत्र पौरा एत्य सेवामकुर्वत ।। ३८
नथ्थुर्हेमन्तरामश्च गणपत्यादयो द्विजाः । भक्ता भगवतः सेवामकुर्वत् मुदान्विताः ।। ३९
हीरचन्द्रो बर्हिचरो लालगुप्तश्च माणिकः । दामोदरादयो वैश्या भक्ताः पर्यचरंश्च तम् ।। ४०
गङ्गा रेवा च दीपालिर्लक्ष्मीः श्यामा शिवादयः । योषितो भक्तिमत्यस्तमसेवन्त यथोचितम् ।। ४१
अन्ये सहस्रशः पौरास्तद्दर्शनसमुत्सुकाः । बहिरभ्येत्य तं दृा प्रापुः परमनिर्वृतिम् ।। ४२
आतिथ्यं विदधुस्तस्य यथार्हं सानुगस्य ते । तमुपेत्यानन्दमुनिर्नत्वा स्वं वृत्तमाह च ।। ४३
द्वादश्यां पारणां कृत्वा प्रविवेश पुरं हरिः । प्रार्थ्यमानः पौरभक्तैरश्वमारुह्य भूषितम् ।। ४४
पुरतः पार्श्वतस्तस्य पृष्ठतश्च सहस्रशः । शतशो यूथशश्चेरुस्तदा भक्तजना नृप ! ।। ४५
नेदुर्दुन्दुभयस्तत्र वाद्यानि विविधानि च । गायकाश्च जगुर्हृष्टा गुणांस्तस्यैव सुस्वरम् ।। ४६
सहस्रशो यान्त्रिकाश्च बन्धुकीधूष्कृतीर्मुहुः । कुर्वन्तः पुरतेच्चरुर्बद्धनानाविधायुधाः ।। ४७
निशम्य पौरास्तमुदारकीर्तिं पुरं प्रविष्टं सह भक्तसङ्घैः ।ससम्भ्रमं त्यक्तसमस्तकार्या द्राग्निः सरन्ति स्म बहिर्गृहेभ्यः ।। ४८
तद्दर्शनात्युत्सुकमानसास्ते विहाय मार्गं कृतपबिन्धाः ।परस्परांसार्पितबाहवस्तं प्रतीक्षमाणा अभवन्नरेश ! ।। ४९
निशम्य वादित्रनिनादमुच्चैस्तदागमाशैकनिबद्धनेत्राः ।प्रदर्शयन्तः करसंज्ञोशं दूरादपि प्राञ्जलयः प्रणेमुः ।। ५०
सितातपत्रेण च चामराभ्यां स राजचिह्नेन विराजमानः ।पुरं ददर्शाद्बुतभूरिशोभं हरिर्हरन् नागरमानसानि ।। ५१
सुगन्धितोयैश्च मदैर्गजानां संसिक्तघण्टापथचत्वरं च ।समङ्गलद्रव्यसुवर्णकुम्भरम्भादिभिः प्राङ्गणदर्शनीयम् ।। ५२
अर्कांशुचञ्चत्पृथुसौधपङ्क्तिश्रियैव नाकभ्रमकृत्सुराणाम् ।विराजितं चागुरुधूपदीपैर्ध्वजैः पताकाभिरिवाह्वयत्स्वम् ।। ५३
तं सम्प्रविष्टं सुमनोहराङ्गं पूर्णेन्दुकान्तं मितहासवक्त्रम् ।स्वर्णातपत्रेण च चामराभ्यां राजश्रियं सन्ददृशुर्जनास्ते ।। ५४
आरुह्य हर्म्याणि पुराङ्गनाश्च त्यक्तान्यकार्याः सहसातिहर्षात् ।व्यत्यस्तवस्त्राभरणा गवाक्षस्थिरेक्षणैस्तं पपुरानमन्त्यः ।। ५५
नानोपहारैर्वणिजोऽतिहर्षात्सम्माननं तस्य च तत्र तत्र ।समाचरन्नुज्झितपण्यकार्या भावेन भक्ता इव भक्तिनम्राः ।। ५६
विप्राश्च तं साक्षतचन्दनेन पुष्पैः सहारेरभिवादनैश्च ।समर्चयामासुरुदारभावा उच्चैश्च सामानि जगुः सुकण्ठाः ।। ५७
सम्मानयन् पौरजनान् यथार्हं बद्धाञ्जलीन् स्वाननदत्तनेत्रान् ।
स्वामी नवावासमुपेत्य राजंस्ततः शनैरुत्तरति स्म वाहात् ।। ५८
गृहीत्वाथानन्दमुनेः पाणिं पाणौ स सर्वतः । अपश्यन्मन्दिरं नूत्नं शिल्पिनः प्रशशंस च ।। ५९
ततो मुहूर्तं तत्रासौ न्यषीदद्बक्तमण्डले । प्राहेहेदृग्मन्दिरं तु जातं नारायणेच्छया ।। ६०
प्रतिष्ठाविधिनिष्णातान् विप्रान् पृाथ सर्वशः । आहारयामास शुभानुपहारांश्च नागरैः ।। ६१
ततः स्वस्थानमभ्येत्य निषसादोच्च आसने । तद्दर्शनार्थमाजग्मुः सायाह्ने च पुरौकसः ।। ६२
दर्शनं तस्य कर्तुं च प्रत्यहं तत्पुराधिपः । आयाच्च प्राञ्जलिस्तस्थौ पुरतस्तस्य दासवत् ।। ६३
नृपं स मानयामास यथार्हं सोऽपि तं तथा । भूमिदानगुणं तस्य प्रशशंस हरिस्तदा ।। ६४
यत्ते कार्यं भवेत्तन्मे वाच्यं दासोऽस्मि ते प्रभो ! । इत्युक्त्वा च तमानम्य नृपतिः स्वालयं ययौ ।। ६५
नामसङ्कीर्तनं कृत्वा ततः कृष्णस्य सत्पतिः । पौरान् विसृज्य स्वावासे विधिं सान्ध्यं समाचरत् ।। ६६
सभायां प्रत्यहं तस्य माहात्म्यं पूर्तकर्मणः । वदतस्तत्र षट् घस्रा व्यतीयुर्नृपसत्तम ! ।। ६७
वादित्रघोषैर्विविधैश्च गीतैः सकौतुकं स्वस्वगृहांश्च नीत्वा ।
पौराः प्रभुं तं विविधोपचारैः सम्पूजयामासुरवाप्तकामाः ।। ६८
सन्तोषयन्सर्वजनान् हरिश्च तदर्पितं पत्रमपि स्वदोष्णा ।
गृन् स वै स्वाश्रितजीववृन्दं संस्थापयामास च धर्ममार्गे ।। ६९
नानाग्रामपुरेभ्यश्च पुंसां स्त्रीणां च सर्वतः । आजग्मुस्तत्र यूथानि द्रष्टुं तमनुवासरम् ।। ७०
द्वितीयायां तु भगवान् प्रतिष्ठाविधिसिद्धये । पूर्वावासे नवावासे स्वावासमकरोत्पुरे ।। ७१
विधिज्ञा ब्राह्मणास्तत्र स्वस्ति वाचकपूर्वकम् । कृत्वा ग्रहमस्रं चक्रुः पूर्वेऽह्नयेवाधिवासनम् ।। ७२
तृतीयायां मण्डलेषु दर्शनीयेषु वैदिकाः । अङ्गप्रधानदेवानामर्चनं तमकारयन् ।। ७३
नरनारायणस्याथ प्रतिष्ठां ते यथाविधि । कारयित्वा महापूजां वेदमन्त्रैरकारयन् ।। ७४
गीतवादित्रनिर्घोषो द्विजानां ब्रह्मघोषयुक् । सकला व्यानशे काष्ठास्तालिकाघ्वनिना तदा ।। ७५
नीराजनं हरिः कृत्वा नरनारायणस्य च । मुहूर्तमीक्षमाणस्तं तस्थौ तत्पुरतः स्थिरः ।। ७६
तन्मूर्तियुगलं तर्हि भूरितेजोमयं जनाः ।। सर्वेऽपि दृा परमं विस्मयं लेभिरे नृप ! ।। ७७
तं नत्वा बहिरेत्याथ हविर्भिः सकलान् सुरान् । तर्पयित्वा द्विजवरैः पूर्णाहुतिमजूहवत् ।। ७८
कर्माचार्याय च ततो दक्षिणां तदभीप्सिताम् । ऋत्विग्भ्यश्च हरिः प्रादाद्विप्रेभ्यो भूयसीमपि ।। ७९
तत आरुह्योञ्चपीठं जनसङ्घाननेकशः । किञ्चिद्विवक्षुरकरोत् तूष्णीं तान् करसंज्ञाया ।। ८०
तदैव मौनमालम्ब्य स्वाननार्पितदृष्टिषु । स्थितेषु तेषु सर्वेषु स ऊर्ध्वैककरोऽब्रवीत् ।। ८१
श्रीनारायणमुनिरुवाच -
सर्वे शृण्वन्तु मद्वाक्यं जना ! वच्मि हितं हि वः ।अस्माकमिष्टदेवोऽस्ति श्रीकृष्णः पुरुषोत्तमः ।। ८२
तेजोमण्डलमध्यस्थो गोलोके यः स एव हि । श्रेयसे सर्वभूतानां प्रादुर्भूतोऽस्ति भूतले ।। ८३
धर्मदेवेन मूर्त्या च ध्यातोऽतिदृढभक्तितः । प्रादुर्भूतस्तयोरङ्गाद्द्विरुपो वर्णिवेषधृत् ।। ८४
वरदानेन सन्तोष्य तौ ततः श्रेयसे नृणाम् । नरनारायणाख्योऽसौ बदरीवनमागमत् ।। ८५
कर्मभूमौ भारतेऽत्र मनुष्याणां स्वसंश्रयम् । प्राप्तानां भुक्तिमुक्त्यर्थं तपः कुर्वन्विराजते ।। ८६
भूमेर्भारापनुत्यर्थं ब्रह्माद्यैः प्रार्थितः स तु । श्रीकृष्णो यादवकुले कृपयाऽविर्बभूव ह ।। ८७
नरोऽर्जुनाख्यया जातः कुरुवंशे सखा हरेः । तेनार्जुनेन युक्तोऽसौ नरनारायणः स्मृतः ।। ८८
नरनारायणः सोऽयमत्र सुस्थापितो मया । भक्त्यैतस्य नृणां श्रेयो भविष्यति न संशयः ।। ८९
नियमेन करिष्यन्ति प्रत्यहं येऽस्य दर्शनम् ।ते प्राप्स्यन्ति जना नूनं भुक्तिं मुक्तिं च वाञ्छिताम् ।। ९०
सेवनादस्य पुत्रार्थी पुत्रं प्राप्स्यति निश्चितम् । धनं धनार्थी विद्यार्थी विद्यां कामं च कामुकः ।। ९१
एतस्याराधनादिच्छा सर्वा पूर्णा भविष्यति । निष्कामाः सेवनादस्य तरिष्यन्ति भवाम्बुधिम् ।। ९२
श्रीमद्बागवतादीनां सच्छास्त्राणां तु ये बुधाः । करिष्यन्ति पुरुश्चर्यां गायत्र्या वास्य मन्दिरे ।। ९३
सर्वे मनोरथास्तेषां सफला भाविनः किल । इह लोके परस्मिन्वा तेषां न्यूनं न किञ्चन ।। ९४
उत्तराफल्गुनीऋक्षे फाल्गुने मासिदर्शनम् । देशान्तरस्थैरप्येत्य कार्यमस्याखिलार्थदम् ।। ९५
सुव्रत उवाच -
इत्याकर्ण्य हरेर्वाक्यं जनाः प्राञ्जलयो नृप ! । तथेति जगृहुः सर्वे चक्रुः कृष्णेक्षणं ततः ।। ९६
विप्रांश्च भोज्यैः स सहस्रशोऽथ तदीप्सितैस्तोषयति स्म तत्र ।
दानैरनेकैरपि दक्षिणाभिर्ब्रह्मण्यदेवो भगवानुदारः ।। ९७ ।।
अनेक देशेभ्य उपागतानां वृन्दैर्नराणामपि योषितां च ।
वादित्रगीतध्वनिनादिताशैः सुसङ्कलं तन्नगरं तदासीत् ।। ९८
स्वावासमेत्य स ततो नगरोपकण्ठे स्नत्वा स्वसोदरनिवेशन आश रात्रौ ।
चक्रे ततश्चतुरशीतिमपि द्विजानां ज्ञातींश्च भोजयितुमेव मनो महात्मा ।। ९९
ततोऽपरेद्युः सकलान् स पौरानागन्तुकांश्चाखिलविप्रसङ्घान् ।
सुभोजयामास पुराद्वहिस्तत्सरोवरं चाभित आशुकारी ।। १००
यथेष्टसर्पिर्ग्रहनोदितानां घृतप्रियाणां नृप ! गौर्जराणाम् ।
तत्रोत्सवोऽभूत्सुमहान् द्विजानां सयोषितां भूरि मुदाश्नतां वै ।। १०१
तान्भोजयित्वाथ च दक्षिणाभिः स तोषयित्वा च गृहान्विसृज्य ।
सतिन्तिडीराजिपरिश्रिते स्वे सुखं न्यषीदद्धरिरुच्चंपीठे ।। १०२
एकस्मिन्नैव दिवसे पौराश्चान्ये सहस्रशः । ह्मणा भोजितास्तेनेत्याश्चर्यमभवन्नृणाम् ।। १०३
सर्वेषामपि लोकानां तदानन्दो महानभूत् । आबालवृद्धं हि जना जगुस्तस्यैव तद्यशः ।। १०४
पूजोत्सवव्यवस्थां च सम्प्रदायानुसारतः । पञ्चम्यां कारयामास नरनारायणस्य सः ।। १०५
तस्मिन्नेव दिने भुक्त्वापरो सानुगस्ततः । नरनारायणं नत्वा निर्ययौ स सतां पतिः ।। १०६
आनन्दितान् स्वेन मुदानुयातो निवर्तयित्वा पुरवासिनोऽसौ ।
साकं स्वकीयानुचरैरुपायान्नारायणो दुर्गपुरं नरेश ! ।। १०७
सङ्गतान्बहुश आत्मसंश्रितान् पुष्पदोलमहदर्शनाय च ।
वीक्षणेन पुरि तत्र नन्दयन्नेत्य स स्ववसतिं ह्युपाविशत् ।। १०८
योषितस्तमवलोक्य सादरं वीततद्विरहवेदनास्तदा ।
एत्य तं च निकषा ववन्दिरे लेभिरे बहुमुदं जयादयः ।। १०९
इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे चतुर्थप्रकरणे श्रीनरनारायणप्रतिष्ठानिरूपणनामा पञ्चविंशोऽध्यायः ।। २५