चतुर्विंशोऽध्यायः

सुव्रत उवाच -


निवसंस्तत्र भगवानेकदा विजने स्थितः । व्यचिन्तयस्य मनसा स्वावतारप्रयोजनम् ।। १ ।।

कलेः प्राप्य बलं भूमावधर्मः सान्वयोऽसुरैः । वर्धितो नितरां तेन धर्मोऽतिक्षीणतां गतः ।। २ ।।

सन्तः कष्टं भृशं प्रापुदवता ऋषयस्तथा । भूमिश्च पापिनां भारं सहितुं न शशाक च ।। ३ ।।

शापव्याजेन विप्रर्षेः प्रादुर्भूय ततो भुवि । उन्मूलिता मया सर्वे स्वप्रतापेन तेऽसुराः ।। ४ ।।

धर्मो भक्त्या सह परां पुष्टिं च गमितोऽधुना । सन्तो देवाश्च मुनयः प्रापिताः परमं सुखम् ।। ५ ।।

अधर्मः सान्वयः क्वापि नेक्ष्यते भूतलेऽधुना । चातुर्वर्ण्यजनाः सर्वे स्वधर्मस्था भजन्ति माम् ।। ६ 

धृत्वावतारं यत्कार्यं तत्कृतं सकलं किल । तथापि भाविनां नणां कार्यं किञ्चिद्धितं मया ।। ७ ।।

अन्तर्हिते मयि भुवो भक्ता एते च मच्छ्रिताः । निरालम्बा भविष्यन्ति कार्यं किञ्चिञ्च तत्कृते ।। ८ 

एवं विचार्य भगवान् सर्वेषां स नृणां भुवि । व्यचिन्तयद्धितं त्रेधा दयावात्सल्यवारिधिः ।। ९ ।।

कारयित्वा मन्दिराणि तत्र स्वप्रतिमा अहम् । स्थापयेय ततस्ताश्च सेविष्यन्ते हि मानवाः ।। १० ।।

स्वधर्मे वर्तमानानां पुंसां तत्सेवनादिह । सिद्धिमेष्यति सर्वेषां पुरुषार्थचतुष्टयम् ।। ११ ।।

भक्तिमार्गस्य पुष्टयर्थे मन्त्रदीक्षाप्यपेक्ष्यते । अतो धर्मान्वये शुद्धे गुरुतां स्थापयेय च ।। १२ ।।

धर्मज्ञानविरक्तीनां भक्तेश्चावगमाय तु । ग्रन्थं कर्ता शतानन्दो मञ्चरित्रोपबृंहितम् ।। १३ ।।

सिद्धान्तं सर्वशास्त्राणां तेन ज्ञास्यन्ति मच्छ्रिताः । एवमेव ततः कृत्वा यायां धाम स्वकं भुवः ।। १४ 


सुव्रत उवाच -

स एवं गूढसङ्कल्पो निवसंस्तत्र पत्तने । लेखयामास सर्वाणि सच्छास्त्राणि सुलेखकैः ।। १५ ।।

अचीकरद्बूमिपते ! महान्तं चैत्रासितैकादशिकोत्सवं सः ।
सन्तर्पयामास मुनींश्च विप्रान्सहस्रशो द्वादशिकादिने च ।। १६ ।।


इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे चतुर्थप्रकरणे भगवद्गुढसङ्कल्पनिरूपणनामा चतुर्विंशोऽध्यायः ।। २४