हेमन्तसिंह उवाच -
देवाधिदेवाय दयालयाय तमःपरायाखिलकारणाय ।
भक्तप्रियायाद्बुतलक्षणाय नारायणायेश ! नमोऽस्तु तुभ्यम् ।। १ ।।
प्रसन्नवक्त्राय सिताम्बराय सत्पुष्पहाराय मनोहराय । लम्बत्सुपुष्पोत्तमशेखराय नारा. ।। २
ब्रह्माख्यसद्धामनिकेतनाय मुक्तैः स्वभक्तैः परिषेविताय । सुश्वेततेजोनिधिमध्यगाय नारा. ।। ३
शान्ताय दान्ताय तपःप्रियाय शुद्धाय सिद्धाय गुणातिगाय । एकान्तधर्मप्रतिपादकाय नारा ।। ४
निष्कामनामव्रतपालकाय निष्कामनामव्रतचारकाय । निष्कामनामव्रतलम्भनाय नारा. ।। ५
अशेषदुःखौघविनाशकाय प्रकाशकायातिसुखप्रदाय । निःशेषपापप्रशमाभिधाय नारा. ।। ६
नरोत्तमायाखिलधारणाय प्रपन्नजीवार्तिनिवारणाय । ब्रह्मण्यदेवाय महेश्वराय नारा. ।। ७
महामुनिव्रातनिषेविताय श्रद्धादयाक्षान्तिपरायणाय । नित्याय जीवोद्धरणोद्यताय नारा. ।। ८
भगवंश्चिरकालीनो हृत्स्थो मम मनोरथः ।त्वयेहागत्य कृपया कृतः पूर्णोऽद्य सर्वथा ।। ९
इतोऽस्ति नातिदूरे वै जीर्णदुर्गपुरं मम । तत् पावय त्वमिति मे प्रार्थितं भवति प्रभो ! ।। १०
सहस्रशः पौरजनास्तव सन्दर्शनादिना ।प्राप्स्यन्ति जन्मसाफल्यमित्युक्तो हरिरब्रवीत् ।। ११
एवं चेत्तर्हि भूपाल ! यायामाद्यैव तत्पुरम् । त्वदिच्छा तेन पूर्णा स्यात्तीर्थयात्रापि नो भवेत् ।। १२
इत्युक्तः सोऽतिमुदितस्तदैव सह बन्धुभिः । योजियित्वा स्वयानानि सज्जोऽभूत्सत्वरक्रियः ।। १३
ततो हरिस्तेन नृपेण भक्तैरन्यैस्तथा तत्पुरसङ्गतैश्च ।वृतोऽश्ववारैस्तुरगाधिरूढो ययौ नराधीश ! सहर्षिरीशः ।। १४
प्रतिग्रामं भक्तजनै रक्ष्यमाणोऽपि वर्त्मनि । आवासं नाकरोत्क्वापि दृष्टया तान् सुखयन् ययौ ।। १५
तस्मिन्नेव दिने राजन् ! जीर्णदुर्गं निशामुखे । स प्राप्यावा समकरोद्धेमन्तस्यालये शुभे ।। १६
सभ्राता धाविताश्वोऽसौ शीघ्रमेत्य पुरं स्वकम् । हरेः शुश्रूषणपरो हेमन्तोऽभूत्सबान्धवः ।। १७
ब्राह्मणा रामजिच्चाम्बाशङ्करो रूपशङ्करः । परिचेरुस्तमन्येऽपि गोकुलश्चोद्धवादयः ।। १८
तैः पौरभक्तैः सहितस्तदातिथ्यं यथोचितम् । चकार नृपतिर्भक्तया मन्यमानः कृतार्थताम् ।। १९
तीर्थयात्रां चकारासावमावास्यादिने ततः । प्रशंसन् रैवतगिरिं देवभूरियं त्विति ।। २०
स्नत्वा गोमुखगङ्गायां कुण्डे दामोदराह्नये । महादानानि स ददौ यथाविधि हरिर्नृप ! ।। २१
ततो दामोदरस्येक्षां पूजनं च चकार सः । भवेश्वरस्य च ततो महादेवस्य भक्तितः ।। २२
ब्राह्मणान् भोजयामास शतशश्च सहस्रशः । तेभ्यश्च दक्षिणां प्रादात् तुतुषुस्तेन तेऽखिलाः ।। २३
नागरा ब्राह्मणास्तस्य बहवश्चक्रुराश्रयम् । तैरर्थ्यमानो न्यवसत् तत्र चैत्र्यवधि प्रभुः ।। २४
संवत्सरप्रतिपदि पौरास्तस्य समर्चनम् । चक्रुश्चन्दनपुष्पैश्च नूत्नवासोधनादिभिः ।। २५
भक्तवर्यः स भूपस्तु तज्जन्मतिथिविन्नृप ! । नवम्यां पूजनं तस्य चकारपरया मुदा ।। २६
सितैरनर्घ्यैर्वसनैर्हैमै रम्यैर्विभूषणैः । सच्चन्दनाङ्गरागेण कुंकुमाक्तैस्तथाक्षतेः ।। २७
मल्लिकादामभी रम्यैर्नानाशेखरराजिभिः । धूपैर्दीपैश्च विविधैः खाद्यैः स्वादुफलैश्च सः ।। २८
रूप्यमुद्रामृतस्थालं निधाय पुरतोऽस्य च । नीराजयामास मुदा षट्वदीं स पठन्निमाम् ।। २९
जय देव ! जय देव ! जय मङ्गलकर्ता २ नारायण ऋषिभर्ता कलिमलभयहर्ता ।। ध्रुवपदम् ।।
तेजःसञ्चयराजत्सिततरतनुकान्ते ! २ नानामुक्तसमर्चित ! २ सुखकर ! बहुशान्ते !
सुरगणवन्दितचरणः करुणानिधिरात्मा २ परमं ब्रह्म परात्पर ! २ निर्गुण ! परमात्मा ।। जय. ।। ३०
भूमौ देवसपत्नैः शातिततनुगेहं २ पातुं सात्वतधर्मे २ प्रकटितनरदेहस् ।
धर्मात्मज ! निजनन्दन ! नन्दितवृषसग २ वन्दे नैष्ठिकवर्ये २ त्वामितमुनिवर्गम् ।। जय. ।।३१
मद्याभिषपरवनितानिरतासुरवारं २ महसा स्वेन निरस्यं २ स्तम इव सविताऽरम् ।
पाषण्डाध्वसुरक्षितनिजजनभयहारी २ मनसिजदर्पविमोचन ! २ कुपथक्षयकारी ।। जय. ।।३२
वरमभयं च कराभ्यां ददतं सितवसनं २ श्यामं सितमुपवींत २ दधतं मितहसनम् ।
शारदपूर्णसुधाकरबिम्बद्युतिवदनं २ हृदि कुर्वे च भवन्तं २ शुभगुणगणसदनम् ।। जय. ।।३३
तिलकं कैसरमलिके दधतं दृशिलोभं साक्षतकुंकुमचन्द्रक २ रुचिरं बहुशोभम् ।
चन्दनकौसुमशेखरबहुविधशुभहारै २ स्त्वामहमर्चितमीडे २ निजजनपरिवारैः ।। जय. ।। ३४
प्रेमवतीतनुजे त्वयि जलरुहलदनयने २ रमतां मम धीरनिशं २ निजनिजपदनयने ।
पाहि सदा पुरुषोत्तम ! धार्मिकवर ! विष्णो ! २ त्वच्छरणागतजीवं २ कृष्ण ! हरे ! जिष्णो ! ।। ज. ३५
एवं नीराजयित्वाऽसौ हरेः कृत्वा प्रदक्षिणाम् । प्रणम्य दण्डवद्राजा तस्थौ प्राञ्जलिरग्रतः ।। ३६ ।।
स्वकण्ठाद्धरिरुत्तार्य तुष्टस्तस्मै ददौ स्रजः । महाप्रसाद इत्युक्त्वा स गृहीत्वा मुमोद ह ।। ३७ ।।
वासांसि च धनं भूषा ब्राह्मणेभ्यो ददौ तदा । उदारबुद्धिर्भगवान् पौरान् विस्मापयन् जनान् ।। ३८
प्रायशो धर्मशास्त्रस्य वार्ताः सदसि सोऽन्वहम् । चकारानन्दयन् विप्रान् कृष्णभक्त्युपबृंहिताः ।। ३९
द्वादश्यां पौर्णमास्यां च ब्राह्मणान् स सहस्रशः । तदिष्टभक्ष्यभोज्यैश्च तर्पयामास सत्पतिः ।। ४० ।।
द्वादश्यामेव च स्वामी सोऽपरो सदःस्थितः । माहात्म्यं द्वारिकायास्तु सर्वानचकथन्निजान् ।। ४१
रामप्रतापेच्छारामौ तच्छ्रूत्वा हरिमूचतुः । कुर्याव द्वारिकायात्रामाज्ञा चेत्तव साम्प्रतम् ।। ४२ ।।
इत्याश्रुत्य स तद्वाक्यं तयोः सद्धर्मनिष्ठताम् । ज्ञात्वान्वमोदत तथा पाथेयं चाश्वकारयत् ।। ४३ ।।
ततस्तौ प्रेषयामास त्रयोदश्यां कुशस्थलीम् ।दत्वा धनं च विपुलमश्वौ च शकटद्वयम् ।। ४४ ।।
प्रैषयत्सह ताभ्यां च मयरामद्विजोत्तमम् । तद्देशमार्गादिविदं पत्तीन् शस्त्रभृतश्च सः ।। ४५ ।।
तदाऽतपस्य बाहुल्यात्कौसल्यानितरांस्तु सः । ताभ्यां साकं गन्तुमुत्कान्न्यषेधद्देशकालवित् ।। ४६
प्रतिपदि ततः साकं स्वीयानुगैः कृतभोजनः सपदि निरगाद्धेमन्तादीननुव्रजतो निजान् ।
निजविरहतः खेदं यातो निवर्त्य बलद्धरिः पथि स सुखयन्स्वीयानायान्नृपोत्तमपत्तनम् ।। ४७ ।।
एतां कथां भगवतो भजनीयमूर्तेर्भक्त्या शृणोति पठति प्रयतः पुमान् यः ।
प्राप्नोति भक्तिममलां स तु वासुदेवे मुक्तो भवत्यखिलसंसृतिबन्धनेभ्यः ।। ४८ ।।
इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे जीर्णदुर्गगमनदुर्गपुरप्रत्यागमननिरूपणनामा त्रयोविंशोऽध्यायः ।। २३ ।।