सुव्रत उवाच -
तस्माद्ग्रामात्पश्चिमायां दिशि किंशुकानने । उटजाः कारिता राज्ञा मुनीनामभवञ्छुभाः ।। १ ।।
एकदा पापमोचन्यामेकादश्यां निशि प्रभुः । जगाम कतिभिश्चित्स्वैः पार्षदैः सह तत्र सः ।। २
उत्तमेन च सोमेन हेमन्तेन सबन्धुना । अन्वितश्च मुकुन्देन तथा रत्नजिदादिभिः ।। ३
ददर्श तत्र स मुनीन्कुर्वतो व्रतजागरम् । हल्लीषकेण गीतेन तालीवाद्ययेन यूथशः ।। ४
तेऽपि तं वीक्ष्य संहृष्टा नत्वा सत्वरमुत्तमम् । वटान्तिके ददुः पीठं न्यषीदत्तत्र सोऽच्युतः ।। ५
तदाज्ञाया पुनश्चक्रुस्ते च हल्लीषकं ततः । सिंहासनं तदभितो भ्रमन्तस्तन्मुखेक्षणाः ।। ६
विचित्रपद्यगीतैस्तं हासयन्तः स्मिताननम् । अचिकीर्तन् गुणांस्तस्य निशीथोऽथाभ्यपद्यत ।। ७
श्रान्तास्तदानीं मुनयो निषेदुस्ते हरेः पुरः । प्रसन्नं तन्मुखं प्रीत्या वीक्षमाणाः स्थिरासनाः ।। ८
अथ तत्रेच्छया तस्य ददृशुः सहसैव ते । सहोत्थकोटिसूर्येन्दुतुल्यं श्वेतं महन्महः ।। ९
श्वैत्यं तेन च ते सर्वे प्रापुर्भूः खं दिशोऽष्ट च । तत्रापश्यन्महःपुञ्जे स्वेशं ते दिव्यदर्शनम् ।। १०
दिव्यसिंहासनारूढं नवीनजलदासितम् । सुधांशुकोटिसंकाशं दिव्यां भरणभूषितम् ।। ११
दिव्यपीताम्बरधरं दिव्यगन्धानुलेपनम् । दिव्यैः सुरभिभिः पौष्पैः शोभितं हारशेखरैः ।। १२
सुभ्रूलतं सुनासं च पद्मपत्रायतेक्षणम् । स्रिग्धबिम्बफलाभोष्ठं सस्मिताननपङ्कजम् ।। १३
अनर्घ्यमौक्तिकसमदन्तावलिविराजितम् । धृत्वा कराभ्यां मुरलीं वादयन्तं मनोहरम् ।। १४
दधतं कौस्तुभं कण्ठे वनमालां च शोभनाम् । विशालहृदयद्योतच्छ्रीवत्सं सुकिरीटिनम् ।। १५
कर्णयुग्मोल्लसद्दिव्यमकराकृतिकुण्डलम् । अकलङ्कितचन्द्राभनखपङ्किविराजितम् ।। १६
श्रीदामविष्वक्सैनाद्यैः पार्षदप्रवरैर्निजैः । सेवितं राजचिह्नैश्च छत्रव्यजनचामरेः ।। १७
तस्यापश्यन् वामभागे लक्ष्मीं पद्मकरां च ते । कौसुम्भवाससं गौरीं सर्वाभरणभूषिताम् ।। १८
मन्दारपुष्पकबरीं दिव्यसीमन्तभूषणाम् । शरत्पूर्णेन्दुवदनां पीनोन्नतपयोधराम् ।। १९
सुनासां सुदतीं सुभ्रूलतां चारुविलोचनाम् । पादोल्लसद्धंसकयुग्रत्ननूपुरशिञ्जिताम् ।। २०
विशालभालविलसद्दिव्यकाश्मीरपत्रिकाम् । सुकपोलां निष्ककण्ठीं स्वेशवक्त्रैकवीक्षणाम् ।। २१
रत्नदण्डेन लघुना चामरेणातिभावतः । वीजयन्तीं निजपतिं तादृशीं राधिकां तथा ।। २२
दक्षिणेऽथ हरेर्धर्मं ददृशुस्तेऽतिभासुरम् । श्वेताङ्ग श्वेतवसनं दिव्यालङ्कारशोभितम् ।। २३
धर्मस्य वामभोगेऽथ भक्तिं मूर्तिमतीं च ते । ददृशुः स्वर्णगौराङ्गीं दिव्यवस्त्रविभूषणाम् ।। २४
अन्याश्च दिव्यवपुषो दिव्यालङ्कारवाससः । श्रद्धाद्या योषितस्तस्य दिव्याङ्गांस्तत्सुतांस्तथा ।। २५
ततः प्रणम्य तान् सर्वान् मुनयस्ते निजेश्वरम् । प्रत्युचुर्हृष्टमनसः पुलकाञ्चितविग्रहाः ।। २६
नमो नमोऽस्तु कृष्णाय वासुदेवाय ते प्रभो ! । नारायणाय मुनये स्वामिने धर्मसूनवे ।। २७
भगवन् ! दृष्टपूर्वोऽसि त्वमतस्त्वां तु विद्महे । योऽस्मत्स्वामी स एवासि कृष्णो राधारमायुतः ।। २८
ये त्वेते तव पार्श्वस्था देवा देव्यश्च सन्ति तान् । न जानीमो वयं स्वामिन् ! मनोनयनन्दानन् ।। २९
श्रुत्वेति तेषां वचनं प्रोवाच भगवान् स तान् । धर्मदेवो ह्ययं साक्षाद्बक्तिरेषाऽस्य च प्रिया ।। ३०
एताश्च धर्मपत्योऽन्याः श्रद्धामैत्रीदयादयः । शुभप्रसादप्रमुखा आसां पुत्रा इमेऽनघाः ! ।। ३१
दिव्यदेहा इमे नित्यं वर्तन्ते हि मदन्तिके । ईदृङ्मद्दर्शनमिव दुर्लभं ह्येतदीक्षणम् ।। ३२
एकान्तिकास्तु ये भक्तास्ते क्वचित्तु मदिच्छया । पश्यन्त्येतान् हि मुनयो ! न तु सर्वे निजेच्छया ।। ३३
युष्माभिरेकादशिकाव्रतं जागरणान्वितम् । क्रियतेऽथ च पाल्यन्ते धर्मा एकान्तिनामपि ।। ३४
अतोऽहमेभिः सह वै प्रसन्नोऽस्मीति दर्शनम् । दत्तमीदृग्विधमथो मदेभ्यो व्रियतां वरः ।। ३५
इत्थं स्वस्वामिना तेन वरार्थं प्रेरितास्तु ते । प्रणम्य तं वरान् वव्रुरात्माभीष्टान् महर्षयः ।। ३६
यदि प्रसन्नो भगवंस्तर्हि ते मानुषाकृतेः । नानाविधचरित्रेषु मा मोहोऽस्तु कदापि नः ।। ३७
साम्प्रतं यादृशो भावस्त्वय्यस्त्यस्माकमीश्वर ! । तादृगेवास्तु सततं नराकृतिधरे त्वयि ।। ३८
लक्ष्म्या इव च नो भक्तिस्त्वयि स्यादिति देहि नः । इत्यर्थितः स तैर्भक्तैस्तथास्त्विति वरान्ददौ ।। ३९
धर्मादींस्ते ततः प्रोचुर्मुनयो विनयानताः । यदि प्रसन्ना यूयं स्थ वसतास्मासु तत्सदा ।। ४०
कामात्क्रोधाच्च लोभादेः सर्गादस्मानधर्मजात् । यूयं सदा रक्षतेति दत्त नो विबुधोत्तमाः ! ।। ४१
सुव्रत उवाच -
इति तैः प्रार्थितास्तेऽपि प्रीतास्तेभ्यस्तथास्त्विति । वरान् ददुस्ततः स्वामी साकं तैरास पूर्ववत् ।। ४२
ततोऽतिविस्मिताः सर्वे तं प्रणेमुर्नराकृतिम् । सुखयित्वा प्रभुस्तांश्च स्वावासमगमन्नृप ! ।। ४३
एकादशीजागरणं कुर्वंस्तत्र स ईश्वरः । वृतस्तैः पार्षदाग्रयौश्च चतुष्पद्यामुपाविशत् ।। ४४
हेमन्तोत्तमसोमाद्याः साश्चर्यास्तस्य च प्रभोः । दिव्यरूपेक्षणात् नत्वा तमूचुः सस्मिताननम् ।। ४५
कोटयर्केन्दुप्रकाशस्य राधालक्ष्मीयुतस्य ते । ईक्षणं भक्तिधर्मादेश्चात्यन्तं दुर्लभं नृणाम् ।। ४६
अहो तदपि नो जातं धन्याः स्मो भाग्यशालिनः । इत्युक्त्वा गद्गद्गिरः प्रेम्णाऽसन् साश्रवश्च ते ४७
तदा तानाह भगवान्प्रसन्नः पार्षदान्निजान् । सर्वे शृणुत यूयं मे भो भक्तप्रवरा ! वचः ।। ४८
अनन्यभक्तिर्येषां स्याद्वासुदेवे नराकृतौ । ईदृशं दर्शनं तेषां दुर्लभं नैव निश्चितम् ।। ४९
भारते भगवद्बीतास्वेतदेव निरूपितम् । विश्वरूपं दर्शयित्वा श्रीकृष्णेनार्जुनं प्रति ।। ५०
सुदुर्दर्शमिदं रूपं दृष्ट्वानसि यन्मम । देवा अप्यस्य रूपस्य नित्यं दर्शनकाणिः ।। ५१
नाहं वेदैर्न तपसा न दानेन न चेज्यया । शक्य एवंविधो द्रष्टुं दृष्ट्वानसि मां यथा ।। ५२
भक्तया त्त्वनन्या शक्य अहमेवंधोऽर्जुन ! । ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परंतप ! ।। ५३
तथा सनत्सुजातीयेऽप्यन्त्येऽध्याये पुनः पुनः । भक्तियोगवतामेव दर्शनं स्यादितीरितम् ।। ५४
भयाच्च कालयमयोर्बन्धनात्कर्ममाययोः । भक्तया च मुच्यते जीवः सतां निश्छद्मसेवया ।। ५५
वर्णाश्रमेतरेषां च धर्मो यस्त्यागिनामपि । स्वनुष्ठितस्य तस्यैषा भक्तिरेवाक्षयं फलम् ।। ५६
यज्ञादानव्रतजपस्वाध्यायतपसामपि । तीर्थदेवोपासनानां पूर्तानां साङ्खययोगयोः ।। ५७
फलं च नियमादीनां भक्तिरेवाक्षयं मतम् । अन्यथा तु क्षयिष्ण्वेव ज्ञोयं तत्तत्क्रियाफलम् ।। ५८
सेतिहासपुराणानामस्ति तात्पर्यमत्र वै । श्रीमद्बागवतस्यापि तेषां सारस्य सर्वथा ।। ५९
सास्त्येव भवतां तस्माद्धर्मादिसहितस्य मे । सञ्जातं दर्शनं दिव्यमिति जानीत पार्षदाः ।। ६०
सुव्रत उवाच -
इत्युक्तास्ते भगवता तं प्रणम्य मुदान्विताः । आत्मानं मेनिरे धन्यं तत्पदैकदृढाश्रयाः ।। ६१
द्वादश्यां नैत्यकं कृत्वा भोजयित्वा द्विजन्बहून् । चकार पारणां स्वामी सह स्वैः पार्षदादिभिः ।। ६२
अथोत्तमेन जयया साकं ललितया भृशम् । प्रार्थितो भगवानैच्छत्प्रयातुं दुर्गपत्तनम् ।। ६३
ज्ञात्वा हरेर्जिगमिषां नृपते ! तदानीं हेमन्तसिंहनृपतिस्तमुपेत्त्य नत्वा ।
प्रेमाश्रुनेत्रयुगलः पुलकाङ्किताङ्गस्तुष्टाव बद्धकरसम्पुट ईश्वरं तम् ।। ६४ ।।
इति सत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे चतुर्थप्रकरणे पञ्चालग्रामे धर्मादिसहितनिजदिव्यस्वरूपदर्शनादिनिरूपणनामा द्वाविंशोऽध्यायः ।। २२ ।।