अखण्डानन्द उवाच -
भगवन् ! ब्रह्मविद्यायाः सम्यग्वेत्ता प्रवर्तकः । एक एव त्वमेवासि यत्र मुह्यन्ति सूरयः ।। १
पृच्छाम्यतो महर्षीणामेषां प्रष्टुमभीष्टकम् । प्रश्नमेकं हि तं श्रुत्वा ब्रूहि तस्योत्तरं प्रभो ! ।। २
एकमेवाद्वितीयं वै ब्रह्मेति वदति श्रुतिः । ब्रह्मैव खल्विदं सर्वमित्यपि श्रुतिशासनम् ।। ३
एतन्मतमुपाश्रित्य जीवेश्वरजगन्त्यपि । मायामयानि मिथ्येति प्राहुः केचन पण्डिताः ।। ४
नित्यानां नित्य इत्याद्याः श्रुतीरालम्ब्य केचन । जीवेश्वराणां नित्यत्वं विद्वांसोऽत्र वदन्ति हि ।। ५
एतयोर्मतयोः स्वामिन् निर्णयं वक्तुमर्हसि । उभे सत्ये किमथवा तयोरेकमृतं मतम् ।। ६
सुव्रत उवाच -
इति श्रुत्वा वचस्तस्य प्रोवाच स जगद्गुरुः । हर्षयन्मधुरैर्वाक्यैः सदःसंस्थानृषींश्च तम् ।। ७
श्रीनारायणमुनिरुवाच -
मुनयः ! शृणुत त्वं चाखण्डानन्द ! महामते ! द्वैताद्वैते वदन्तीनां श्रुतीनामाशयं ब्रुवे ।। ८
ब्रह्मशब्दो मुख्यतया कृष्ण एव प्रवर्तते । भगवच्छब्दवद्विद्वन्निति जानीहि निश्चितम् ।। ९
स्वरूपेण गुणैश्चापि निरवध्यतिशायिता । तस्यैवास्तीति ब्रह्माख्यामन्वर्थां श्रुतयो विदुः ।। १०
ततोऽन्यत्र तु विज्ञोया तद्धयानोपासनेन वै । तत्साधर्म्यात्तदात्मत्वाब्रह्मसंज्ञानुरागतः ।। ११
स्वरूपं च स्वभावश्च विभूतिश्च तथा गुणाः । नित्याः सन्ति हरौ ह्येतेऽन्यत्र त्वागन्तुका मताः ।। १२
सत्यं ज्ञानमनन्तं च यः सर्वज्ञाश्च सर्ववित् । इत्याद्याः श्रुतयोऽतस्तं तादृशं वर्णयन्ति हि ।। १३
ईदृग्ब्रह्माभिधः कृष्णो लये ह्यात्यन्तिकेऽक्षरे । विलाप्य पुम्प्रकृत्यादि शिष्यते एक एव सः ।। १४
तमेकं चाद्वितीयं च वदन्ति श्रुतयो द्विजः ! । स्थितं दिव्ये ब्रह्मपुरे निर्गुणं चेश्वरेश्वरम् ।। १५
उपासनेन यस्तस्य प्राप्त आत्यन्तिकं लयम् । निर्विकल्पस्थितौ तं स योगी पश्यति केवलम् ।। १६
ब्रह्मैव ब्रह्मविदिति श्रुतिवर्ण्यः स योगिराट् । महामुक्त इति प्रोक्तस्तत्त्वविद्बिर्द्विजोत्तम् ! ।। १७
स सर्वे खल्विदं ब्रह्म तज्जलानिति पश्यति । शान्त आनन्दरूपं च सं शुद्धं ब्रह्मवित्तदा ।। १८
विना ब्रह्मस्वरूपं स नोर्ध्वं नाधो न चान्तरे । न विश्वं नेश्वरं नैव जीवान् किञ्चिदपीक्षते ।। १९
ईदृक्स्थितिं प्रापयितुं तीव्रवैराग्यवेगिनम् । गुरुश्चैकमिति श्रुत्या शिष्यं बोधयते विदम् ।। २०
एकं ब्रह्मास्तीति वर्णिन्नेवं श्रुतिभिरुच्यते । नित्यानां नित्य इत्येवं यथोक्तं तच्च वच्मि वः ।। २१
सेश्वराणां हि जीवानां लये प्राकृतिके तथा । आत्यन्तिकेऽपि नैवास्ति स्वरूपस्य विनाशनम् ।। २२
लये प्राकृतिके देहौ विराट्सूत्रात्मसंज्ञिातौ । ईश्वरस्य विलीयेते द्वावेव वर्णिसत्तम ! ।। २३
अव्याकृतेन देहेन स आस्ते प्रकृतौ तदा । स्थूलसूक्ष्मौ तथा देहौ जीवानामपि नश्यतः ।। २४
तिरोभवन्ति प्रकृतौ ते कारणशरीरिणः । प्रधानसंज्ञा वर्णीन्द्र ! सा तु प्रकृतिरुच्यते ।। २५
तिरोभवति सा मूल प्रकृतौ च सपूरुषा । नतु स्वरूपतो नाशो ह्येतेषां भवति क्वचित् ।। २६
आत्यन्तिके च प्रलये प्रकृतिः सापि पूरुषे । तिरोभवति सूर्यस्य प्रकाशे रजनी यथा ।। २७
स महान्पुरुषः साकं महत्या मायया तया । शेतेऽक्षरस्य प्रकाशे तदैकः कृष्ण एव हि ।। २८
नष्टकारणदेहा ये मुक्ता ध्यानबलेन तु । कृष्णस्य दिव्यदेहैस्ते ब्रह्मण्येवासतेऽक्षरे ।। २९
लयद्वयेऽपि नैतेषां स्वरूपेण विनाशनम् । भवतीति श्रुतिः सर्वान्नित्यानाह महामते ! ।। ३०
उत्पत्तिकाले सर्वेऽपि पुंप्रकृत्यादयः पुनः । आविर्भवन्त्यमी विप्रः यथापूर्वे तदिच्छया ।। ३१
अप्राकृतशरीरा ये मुक्तास्ते तु निजेच्छया आविर्भवन्ति ह्यथवा तेनावतरता सह ।। ३२
नित्यानेताञ्छ्रुतिप्रोक्ताञ्ज्ञानिमुक्ता विदन्ति हि । कृष्णोपास्तिबलेनापि वीक्षन्ते च यथातथम् ।। ३३
योगिनस्ते तु सम्पन्ना भक्तिज्ञानविरक्तिभिः । समाधिं सविकल्पं हि प्राप्ता इत्यवगम्यताम् ।। ३४
मेरौ स्थिता यथा तस्मादवरान्पर्वतान्नराः । वीक्षन्ते च द्रुमान्सर्वांस्तदाधारं च भूतलम् ।। ३५
सविकल्पसमाधिस्था ज्ञानिमुक्तास्तथेश्वरम् । मायां जीवांश्च वीक्षन्ते ब्रह्म चेति पृथक् पृथक् ।। ३६
लोकालोकाचलस्थाश्च यथा वा पुरुषा द्विज ! । पश्यन्त्येकं भूतलं नो सर्वानपि नगान् द्रुमान् ।। ३७
तथैव ते महामुक्ता निर्विकल्पसमाधयः ।ब्रह्मैकमेव वीक्षन्ते जीवेशादीन्न तु पृथक् ।। ३८
कृष्णोपास्तिबलस्याथ तारतम्यवशादमी । त्रिविधा भुवि कथ्यन्ते निर्विकल्पसमाधयः ।। ३९
सुषुप्ताविह जीवस्य बुद्धिन्द्रियमनोलयात् । सुखं चोपशमो यादृग्वर्तते वर्णिसत्तम ! ।। ४०
साक्षात्कृष्णे यस्य पुंसो बुद्धीन्द्रियमनोलयात् । तादृक् सुखं चोपशमो जाग्रति स्यात्स आदिमः ।। ४१
सुषुप्तौ प्रलयाख्यायां ब्रह्माण्डस्याभिमानिनः । लयात्त्रिलोक्या ईशस्य सुखं यादृक्र शान्तता ।। ४२
साक्षात्कृष्णे यस्य पुंसो बुद्धीन्द्रियमनोलयात् । तादृक् सुखं चोपशमो जाग्रति स्यात्स मध्यमः ।। ४३
विराट्तत्कारणैः साकं प्रधानस्य लयाद्यथा । प्रकृतौ प्राकृतलये सुखं पुंसश्च शान्तता ।। ४४
साक्षात्कृष्णे यस्य पुंसो बुद्धिन्द्रियमनोलयात् । तथा सुखं चोपशमो जाग्रति स्यात्स चान्तिमः ।। ४५
कृष्णसम्बन्धि सौख्यं यत्सर्वसौख्याधिकं हि तत् । दृष्टान्तमात्रमेतत्तु सुषुप्त्यादि समीरितम् ।। ४६
इत्थं हि ते महामुक्ता भवन्ति त्रिविधा द्विज ! । उत्तरोत्तरतः श्रेष्ठाः कथ्यन्ते स्थितिवेदिभिः ।। ४७
निर्विकल्पस्थितिबलादुन्मत्ता ब्रह्मदृष्टयः । जीवेशान्कल्पितान्प्राहुरिति जानीहि निश्चितम् ।। ४८
एकत्वमेवं वर्णीन्द्र ! पृथक्त्वं चावगम्यताम् । श्रुतिप्रामाण्यतो विद्धि सत्यमेव मतद्वयम् ।। ४९
ये तु नैवं स्थितिं प्राप्ता ब्रह्मैक्यं शास्त्रमात्रतः । बुद्ध्वा यथेष्टाचरणं कुर्वते ते पतन्त्यधः ।। ५०
तादृशाः स्वकृतं पापं स्वशिष्याणां च पातकम् । आर्तनादं प्रकुर्वन्तो बोभुज्यन्ते यमालये ।। ५१
ब्रह्मशब्दद्वयं यत्र प्रोक्तं स्यात्तत्र तु द्विज ! । आद्यं तु भगवद्धाम ज्ञातव्यं बृहदक्षरम् ।। ५२
द्वितीयं तु स्वयं कृष्णः सर्वकारणकारणम् । अक्षरात्पर इत्युक्तो दिव्याङ्गश्चेति बुध्यताम् ।। ५३
भेदो हि वास्तवो नूनं जीवेशब्रह्मणां हरेः । नित्यानां नित्य इत्यादिश्रुतिभिः प्रतिपादितः ।। ५४
ब्रह्मवित्परमाप्नोतीत्येषा श्रुतिरपि स्फुटम् । प्राह ब्रह्मविदां सेव्यं परंब्रह्मेति सन्मते ! ।। ५५
आत्मा शरीरं यस्यास्ति नैवात्मा वेत्ति यं तथा । य आन्तरो यमयति ह्यात्मानममृतः प्रभुः ।। ५६
शरीरमक्षरं यस्य नैव यं वेत्ति चाक्षरम् । आन्तरो यो यमयति ह्यक्षरं सोऽमृतः प्रभुः ।। ५७
इत्याद्यर्थाः श्रुतिगणास्त्वक्षरब्रह्मणोऽपि च । प्राहुः कृष्णशरीरत्वं तद्बिन्नत्वं तथा स्फुटम् ।। ५८
अक्षरस्यापि चेन्नास्ति ब्रह्मणः कृष्णरूपता । कुतस्तरां तदेशस्य जीवस्य तु कुतस्तमाम् ।। ५९
ततो निःसंशयो भूत्वा मुमुक्षुः सर्वथा हरिम् । यो भजेत स मुक्तः स्यादितरः संसृतिं व्रजेत् ।। ६०
श्रीमद्रामानुजाचार्यैरयमर्थः सविस्तरम् । निर्णीतोऽस्ति महाभाष्ये सङ्क्षेपात्स मयोदितः ।। ६१
सुव्रत उवाच -
इत्युक्तं श्रुतिसिद्धान्तं हरिणा स नराधिप ! । वर्णी च साधवः श्रुत्वा तं नेमुर्नष्टसंशयाः ।। ६२
स्वस्वस्थानं ततो गन्तुं तानाज्ञाप्याखिलान्निजान् । प्रभुः स्वयं निजावासमाजगाम दयानिधिः ।। ६३
इत्थं हरिस्तत्र स वाग्विलासैरानन्दतयन्नन्वहमेव भक्तान् ।
हेमन्तसिंहस्य मनोरथं च सम्पूरयन्भक्तगणैरुवास ।। ६४ ।।
इति सत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे चतुर्थप्रकरणे पञ्चालग्रामे द्वैताद्वैतप्रतिपादकश्रुत्यर्थनिर्णयनिरूपणनामैकविंशोऽध्यायः ।। २१।।