सुव्रत उवाच -
दिनानि पञ्चैव स नागटङ्क एवं पुरेऽसौ भगवानुषित्वा ।
सूरेण भक्तैश्च वृतोऽखिलैः स्वैर्हेमन्तसिंहस्य पुरं प्रतस्थे ।। १
तं सोऽध्वनि प्राह नृपं सदीशस्त्वद्बाममादौ नय नस्ततस्ते ।
पुरं व्रजिष्याम इति प्रभूक्तं तथेति शीर्ष्णा स उरीचकार ।। २
षष्ठेऽह्नि स ग्राममवाप तस्य पञ्चालसंज्ञां द्रुमराजिरम्यम् ।
श्रुत्वा तमायातमनूपसिंहो ग्राम्यैः समं सन्मुखमाजगाम ।। ३
ते तं प्रणम्याच्युतमादरेण हेमन्तसिंहं च समेत्य सर्वे ।
वादित्रनादैः सममेव निन्युर्ग्रामं सभक्तं तमुदारकीर्तिम् ।। ४
हेमन्तसिंहोऽथ निजे गृहे तं निवासयामास सपार्षदं च ।
यथोचितं वासयति स्म सर्वानन्यांश्च भक्तानपि भूपवर्य ! ।। ५
हरेर्भागवतानां च स्त्रीपुंसानां स भूपतिः । यथोचितं यथावित्तं चकारातिथ्यमादरात् ।। ६
सर्वसम्पत्समृद्धं स्वं गृहं च सपरिच्छदम् । प्रभोरधीनं कृत्वैव तस्थावतिथिवन्नृपः ।। ७
निवृत्तिधर्मिवासार्हं ग्रामं तं वीक्ष्य स प्रभुः । पूर्दोषानशुचित्वादीन् विदन्नाह नराधिपम् ।।८
श्री नारायणमुनिरुवाच -
अयं ग्रामः समीचीनः सतां वासाय सम्मतः । जीर्ण दुर्गपुरावासो न सद्बयो रोचते किल ।। ९
ग्रामस्तवायं प्राचीनस्तत्पुरं च तवैव हि । विशेषं नैव पश्यामि जीर्णदुर्गे ततस्त्वतः ।। १०
नयेथा यदि तत्रास्मांस्तर्हि द्वित्रांस्तु वासरान् । वत्स्यामोऽत्र तु राजर्षे ! द्वित्रान्मासानपि ध्रुवम् ।। ११
इत्युक्तः स नृपो भूम्ना प्रीतः प्रोवाच तं प्रभो ! । यत्रेच्छा ते भवेत्तत्र सद्बिः सह सुखं वस ।। १२
ममापि न विशेषोऽस्ति पुरे ग्रामात्तु कश्चन । पौरास्त्वद्दर्शनं कर्तुमत्रायास्यन्ति सर्वशः ।। १३
तत्रोवास ततः स्वामी भक्तैः सह मुदान्वितः । भक्तानानन्दयन् सर्वान्सकुटुम्बं नृपं च तम् ।। १४
यथोत्तमस्य नृपतेर्गृहं दुर्गपुरे प्रभोः । स्वकीयमेवास्ति तथा गृहं तस्याप्यभूत्किल ।। १५
सकुटुम्बस्य नृपतेस्तस्य भक्तया वशीकृतः । सार्धमासं सुखेनैव न्यवसत्तत्र स प्रभुः ।। १६
तद्दर्शनार्थमाजग्मुजीर्णदुर्गनिवासिनः । पुरुषाश्च स्त्रियः सर्वास्तद्बक्ताः स्निग्धचेतसः ।। १७
ग्रामान्तरेभ्योऽपि जनास्तत्राजग्मुः सहस्रशः । मानितास्ते भगवता न्यवसन् दर्शनोत्सुकाः ।। १८
उत्सवः शिवरात्र्यां च तत्रादावभवन्महान् । उपवासं हरिश्चक्रे तदा भक्तजनैः सह ।। १९
महारुद्राभिषेकं च ब्राह्मणैः शङ्करोपरि । कारयित्वा ददौ तेभ्यो दक्षिणां प्रचुरां ततः ।। २०
द्वितीये दिवसे विप्रान् भोजयित्वा सहस्रशः । चकार पारणां स्वामी धर्माघ्वपरिरक्षकः ।। २१
प्रत्यहं च सभासंस्थो निजभक्तान् स ईशिता । ब्रह्मविद्याप्रकारांश्च वेदोक्तानप्यूबूबुधत् ।। २२
जन्मोत्सवं भगवतो नरनारायणस्य च । फाल्गुने फल्गुनी ऋक्षे महान्तमकरोत्प्रभुः ।। २३
वृत्तालये यथा पूर्वे स चकार महोत्सवम् । तथैवात्रापि भगवांश्चकारानन्दन्निजान् ।। २४
नानादेशागता लोका भक्तयाऽनर्चुस्तमीश्वरम् । उपचारैर्बहुविधैरनेकैश्चाप्युपायनैः ।। २५
हेमन्तसिंहस्तु नृपः प्रत्यहं तस्य पूजनम् । चकार च विशेषेण दिने तस्मिन्निजैः सह ।। २६
नानाविधानि वस्त्राणि श्वेतपीतारुणानि सः । अलङ्कारान् बहून् हैमान् ददौ तस्मै च भक्तितः ।। २७
काश्मीरकेसरोपेतचन्दनेन सुगन्धिना । अखण्डैरक्षतैः श्वेतैः पौष्पैर्हारैश्च शेखरैः ।। २८
अबीरेण गुलालेन महानीराजनेन च । सम्पूज्य पुष्पाञ्जलिना साष्टाङ्गं प्रणनाम सः ।। २९
ततो रामप्रतापं च सानुजं समपूजयत् । अमूल्यवस्त्राभरणैर्गन्धमाल्याक्षतादिभिः ।। ३०
गङ्गादित्यादयो योषास्तं पुपूजुः सतां पतिम् । अन्येऽपि पौरा भक्त्यैव ग्राम्याश्चार्चेस्तमादरात् ।। ३१
सभ्रातृकः स राजाथ मुनीन्सर्वांश्च भक्तितः । चन्दनाक्षतपुष्पाद्यैर्वसनैः सद्बिरार्चयत् ।। ३२
सिताज्यमिश्रैः पक्वान्नैर्भक्ष्यैर्भोज्यैश्च भूरिशः । सन्तर्पयामास स तान्नराधिप उदारधीः ।। ३३
तस्मिन्महोत्सवे रात्रौ महत्यां भक्तसंसदि । स सत्सिंहासनारूढः शशी ऋक्षेष्विवाऽबभौ ।। ३४
तत्रर्षयो गृहस्थाश्च सधवा विधवाः स्त्रियः । वीक्षमाणास्तमेवैकं निषेदुर्निखिला अपि ।। ३५
तानुवाच हरिर्भक्तान्संशयः कस्यचिद्यदि । कश्चिद्धृदि भवेत्तर्हि पृच्छतेति नराधिप ! ।। ३६
सम्प्रेरणेनाथ सतामखण्डानण्दस्तदा वर्णिवरः प्रणम्य ।
बद्धाञ्जलिस्तत्पुरतो निषण्णः पप्रच्छ तं सर्वविदं विनीतः ।। ३७
इति श्री सत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे चतुर्थप्रकरणे पञ्चालग्रामे दोलोत्सवनिरूपणनामा विंशोऽध्यायः ।। २० ।।