सप्तदशोऽध्यायः

सुव्रत उवाच - 


अथ यानाय पेटासु पुस्तिका दृढबन्धनाः । शुकर्षिणा धापयन्तं हरिं प्रापोत्तमो नृपः ।। १
 तथ्यमेव प्रयाणस्य विदित्वा निश्चयं प्रभोः । शनकैः प्रहसन्नूचे भक्त एकान्तिकः स तम् ।। २


उत्तम उवाच - 

प्रयाणनिश्चयं स्वामिंस्तव श्रुत्वा जयादयः । योषितो हृदि खिद्यन्ते शीतग्लानेस्तवाघ्वनि ।। ३


श्री नारायणमुनिरुवाच - 

हिमाचलोपत्यकैव जन्मभूमिर्ममास्त्यतः । अस्ति शीतसहिष्णुत्वं देहे स्वाभाविको गुणः ।। ४

अतश्चिन्तां न कार्येति ब्रूहि तास्त्वं नराधिप ! । इत्युक्तः सोऽभवत्तूष्णीं तत्स्वान्त्र्यं विदन्नृपः ।। ५

निश्चिकाय ततो राजा भगिनीभ्यां सहैव तम् । स्वपुरं पुनरानेतुं गम्यं तेन सहेति सः ।। ६

अथ द्विजेन्द्रैः कृतमङ्गलाशीर्हयीं समारुह्य च तज्जिनाख्याम् ।
साकं मुनीन्द्रैर्निजपार्षदैश्च वृतः प्रयाति स्म स नागटङ्कम् ।। ७

 तमन्वयुर्वास्तुनृपप्रधानाः सत्कुन्तहस्ता बहवोऽश्ववाराः ।
हेमन्तसिंहो नृप उत्तमश्च योषा जयाद्याः स्वरथाधिरूढाः ।। ८

निधाय पेटा भृतपुस्तकाश्च स्वनस्सु सर्वाग्रचरं समं तैः ।
शुकं मुनिं सोऽथ हरिर्व्यतीत्य सहाश्ववारैः प्रचचाल शीघ्रम् ।। ९

पृष्ठे विधायाखिलसादिवृन्दं मनोजवायाः स्वहयीवरायाः ।
पुरश्चलन्त्या अपि सोऽग्रयानान् दृा मुनीन्द्रानहसत्सचित्रम् ।। १०

यूथानि भूयांसि महामुनीनां हरेः पुरस्तादथ पृष्ठतश्च ।
तदा व्यदृश्यन्त च पार्श्वयुग्मे तस्मिंस्तु दीर्घेऽध्वनि सर्वतश्च ।। ११

स सङ्गवान्ते भगवानवाप ग्रामं तु सूरस्य च लौहसंज्ञाम् ।
सूरोऽपि यत्रैत्य हरेः प्रतीक्षां करोति पाकं स विधाप्य विप्रैः ।। १२

श्रुत्वागतं तं स उपेत्य नेमुर्ग्राम्याश्च पौराश्च जनाः सहर्षम् ।
ग्राम्याः प्रभुं ग्राममुदारभावा वादित्रघोषैः स ततश्च निन्युः ।। १३

तत्र मुख्यः सिंहसंज्ञाः पट्टलोऽन्ये च ये विशः । ते सर्वे सह सूरेण समुनिं तं सिषेविरे ।। १४

दिनानि कतिचित्तत्र ग्राम्यानानन्दयन्प्रभुः । तैरर्च्यमानो न्यवसद्वस्त्रालङ्कारभोजनैः ।। १५

सभायां प्रत्यहं तत्र धर्मान्वर्णाश्रमोचितान् । जनेभ्यः कथयामास भक्तिज्ञानोपबृंहितान् ।। १६

सूरसिंहादिभिर्भक्तैरनर्घ्याण्यंशुकानि च । स्वस्मै दत्तानि स ददौ भ्रातृभ्यां तत्र संसदि ।। १७

ग्रामे तस्मिन्वाटिकाभ्यो वृन्ताकादीनि भूरिशः । ग्रामीणा आहरन्ति स्म तस्मै शाकानि चान्वहम् ।। १८

तेषां संस्कारचातुर्ये पाचकेभ्यः प्रदर्शयन् । संस्कृत्य भूरिणाज्येन पपाचापि स्वयं प्रभुः ।। १९

सन्धुक्ष्योद्धानकेऽग्निं तदुपरि पृथुलं सत्कटाहं निधाय,
क्षिप्त्वाज्यं भूरि तस्मिन्नतिकडकडिते चारुवृन्ताकशाकम् । 
क्षिप्त्वा छुंकारकारी करकमललसद्धस्तको वीक्षमाणः,
पीतापीतांशुकः स्वान्प्रहसितवदनान्सोऽद्युतत्स्मेरवक्त्रः ।। २०

शाकं संस्कृत्य भक्तान् क्रमरचितमहापङ्किभिश्चोपवेश्य,
प्रीत्या पात्रेषु तेषां चपलतरमसौ सन्ददञ्चारुदर्व्या ।
पृच्छंस्तत्स्वादमार्यानतिसुरसतया चास्न्तो भूरि भक्तान्,
शृण्वंस्तस्य प्रशंसां प्रभुरतिमुमुदे सञ्चरन्पङ्क्तिमध्ये ।। २१

इत्थं नृनाटयचरितैर्भक्तानानन्दयन्प्रभुः । नागटङ्कं ततः प्रायात्पुरं परिवृतो निजैः ।। २२

स्वावासं तत्र सूरस्य गृहे चक्रे स चापरान् । पुर्यामावासयामास भक्तान्सर्वान् यथोचितम् ।। २३

सभार्यः ससुतः सूरस्तस्य तेषां यथोचितम् । आतिथ्यमकरोद्बक्तया श्रद्धया चाप्युदारधीः ।। २४

पूजां चकार महतीं भक्तया राजा निजप्रभोः । वस्त्रैराभरणैः शक्तया रूप्यमुद्रार्पणेन च ।। २५

चन्दनैः पुष्पहारैश्च सद्वस्त्रैः श्रद्धयान्वितः । स पुपूज सतः सर्वान्भोज्यैर्नानाविधैरपि ।। २६

तेनातिमानितो भक्तया भगवान् दिनपञ्चकम् । उवासानन्दयन्भक्तान्स्थापयन्धर्ममेव सः ।। २७

चतुर्थे दिवसे तत्र सभायामास्थितः प्रभुः । उवाच भक्तान् सकलान् गृहिणस्त्यागिनस्तथा ।। २८


श्रीनारायणमुनिरुवाच - 

भक्ताः ! शृणुत सर्वेऽपि श्वो भवत्युत्तरायणम् । स्ननं दानं यथाशक्ति कर्तव्यं तत्र सर्वथा ।। २९

चत्वारिंशत्तु घटिका मकरेऽर्कस्य संक्रमात् । उत्तरः पुण्यकालोऽत्रे ज्ञोयः स्नानादिकर्मसु ।। ३०

माघस्नानस्य चारम्भः पौष्यामत्राखिलैर्जनैः । कर्तव्यस्तत्र मुख्यं तु तिलदानं प्रकीर्तितम् ।। ३१

चान्द्रायणव्रतं चात्र माघमासे विशेषतः । कर्तव्यमुदितं भक्ताः ! सर्वपातकशोधनम् ।। ३२

कृच्छ्रव्रतेषु सकलेष्वपि पुम्भिरेतत् स्त्रीभिस्तथा सुकरमस्ति बृहत्फलं च ।

प्रोक्तं ततो निजशरीरिविशुद्धिहेतोः कार्यं तपः प्रियरमापतितुष्टये वा ।। ३३


इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे चतुर्थप्रकरणे भगवतो लौहग्रामनाटगङ्कपुरागमननिरूपणनामा सप्तदशोऽध्यायः ।। १७ ।।