सुव्रत उवाच -
इति नारायणमुनेः स्वामिनो वचनं नृप ! । श्रुत्वा शुकानन्दमुनिस्तं नत्वा प्रश्रितोऽब्रवीत् ।। १
शुकानन्द उवाच -
माघस्नानविधिं स्वामिन् श्रोतुमिच्छाम्यहं प्रभो ! । चान्द्रायणव्रतस्यापि विधिं मे वक्तुमर्हसि ।। २
सुव्रत उवाच -
इत्थं तपस्विना तेन मुनिना पृष्ट आदरात् । जगादानन्दयन्भक्तान्सर्वांस्तं च स सर्ववित् ।। ३
श्री नारायणमुनिरुवाच -
माघस्नानविधिं तुभ्यं कथयामि मुने ! शृणु ! तीर्थ एव विशेषेण माघस्नानं विधीयते ।। ४
यस्य हस्तौ च पादौ च वाङ्मनश्च सुसंयतम् । विद्या तपश्च कीर्तिश्च स तीर्थफलमश्नुते ।। ५
अश्रद्दधानः पापात्मा नास्तिकोऽच्छिन्नसंशयः । हेतुनिन्दारतश्चैते न तीर्थफलभागिनः ।। ६
प्रयागं पुष्करं प्राप्य कुरुक्षेत्रमथापि वा । यत्र तत्र च वा स्नयान्माघे नित्यमिति स्थितिः ।। ७
त्रिरात्रफलदा नद्यो याः काश्चिदसमुद्रगाः । समुद्रगास्तु पक्षस्य माघस्य सरितां पतिः ।। ८
अरुणोदयमारभ्य प्रातः कालावधि ध्रुवम् । माघस्नानस्य कालो हि पुण्यदो मुनिभिः स्मृतः ।। ९
उत्तमं तु सनक्षत्रं लुप्ततारं तु मध्यमम् । सवितर्युदिते स्नानं ततो हीनं प्रकीर्तितम् ।। १०
वृथैवोष्णोदकस्ननं वृथा जप्यमवैदिकम् । अश्रोत्रिये वृथा दानं वृथा भुक्तमसाक्षिकम् ।। ११
ब्रह्मक्षत्रविशां चैव मन्त्रवत्स्नानमिष्यते । तूष्णीमेव तु शूद्राणां स्त्रीणां च मुनिसत्तम ! ।। १२
पौर्णमासीं तु पौषस्य प्रारभ्य स्नानमाचरेत् । त्रिंशत्त्वहानि पुण्यानि मकरस्थे दिवाकरे ।। १३
अपावृतशरीरस्तु यः साक्षात्स्ननमाचरेत् । पदे पदेऽश्वमेधस्य फलमाप्नोति मानवः ।। १४
ततः स्नत्वा शुभे तीर्थे दत्त्वा शिरसि वै मृदम् । वेदोक्तविधिना ब्रह्मन् ! सूर्यायार्ध्यं निवेदयेत् ।। १५
पितृन्सन्तर्पयेत्तत्स्थः समुत्तीर्य ततो जलात् । इष्टदेवं नमस्कृत्य पूजयेत्पुरुषोत्तमम् ।। १६
भूशायी ब्रह्मचारी च शक्तः स्नानं समाचरेत् । अशक्तो नियमाचारे स्नानमात्रं समाचरेत् ।। १७
यथाकथञ्चित्कर्तव्यं माघस्ननमिति स्मृतिः । अतिरुग्णाश्चातिवृद्धाः स्नयुरुण्णेन वारिणा ।। १८
तिलस्नयी तिलोद्वर्ती तिलहोमी तिलोदकी । तिलभुक् तिलदाता च षट्तिलाः पापनाशनाः ।। १९
सरित्तोयाद्यभावे तु नवकुम्भस्थितं जलम् । वायुना ताडितं रात्रौ गङ्गातोयसमं विदुः ।। २०
तन्नास्ति पातकं लोके यन्न स्नानाद्विनश्यति । मासोपवासादधिकं माघस्नानं मुने ! ध्रुवम् ।। २१
जीवता भुज्यते दुःखं मृतो दुःखं न पश्यति । एतस्मात्करणाद्बूमौ माघस्नानं विशिष्यते ।। २२
अहन्यहनि दातव्यास्तिलाः शर्करयान्विताः । त्रयो भागास्तिलानां हि चतुर्थः शार्करो मतः ।। २३
माघावसाने रुचिरान् षड्रसान्सम्प्रदापयेत् । दम्पत्योर्वाससी सूक्ष्मे सप्तधान्यसमन्विते ।। २४
त्रिंशत्तु मोदका देयाः शर्करातिलसंयुताः । ताम्रपात्राणि दधाच्च तिलोपेतानि शक्तितः ।। २५
कम्बलाजिनवस्त्राणि नानारत्नानि शक्तितः । चोलकानि तु दिव्यानि प्रच्छादनपटांस्तथा ।। २६
उपानहौ पादगुप्ते मोचकौ पापमोचकौ । तथान्यदपि यत्किञ्चिन्माघे स्वस्य प्रियं भवेत् ।। २७
तन्माघस्नयिनां देयं विप्राणां भूतिमिच्छता । स्वल्पेऽपि दाने वक्तव्यं माधवः प्रीयतामिति ।। २८
नदीतडागप्रहिवापिकादौ गृहेऽपि वा शीतजलेन माघे ।
स्नानं विधेयं रविदर्शनात्प्राङ्मदाश्रितैर्ब्रह्मऋषेऽनुघस्रम् ।। २९
इति श्री सत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे चतुर्थप्रकरणे नागटङ्कपुरे माघस्नानविधिनिरूपणनामाष्टादशोऽध्यायः ।। १८ ।।