सुव्रत उवाच -
हेमन्तसिंहं सोऽथाह स्वदेशीयजनैः सह । स्वपुरं गच्छ तत्राहमायामि पृष्ठतो हि ते ।। १ ।।
इत्युक्तः स तदा हृष्टो गन्तुं सज्जोऽभवन्नृप ! । ततः सूरं हरिः प्राह गच्छ त्वं स्वपुरं द्रुतम् ।। २
आयास्यामि प्रातरहं तत्र श्वो नात्र संशयः । कारयित्वा द्विजैः पाकं कुर्या ह्यस्मत्प्रतीक्षणम् ।। ३
इत्युक्तः सोऽतिसंहृष्ट सह स्वैः स्वपुरं ययौ । वृत्तान्तमेतं सकलं जयामचकथद्रतिः ।। ४
ससभ्रमं समुत्थाय तदा ललितया सह । स्नत्वा नित्यं प्रकुर्वन्तमुत्तमं प्राह सत्वरम् ।। ५
दिनाद्ययामोऽपि गतो दीर्घसूत्रो भवान्किमु । घण्टां वादयतेऽद्यापि सर्वस्वं हियते हि नः ।। ६
किं किं कथं कथमिति वदन्तं तमुवाच सा । नारायणमुनिर्याति जीर्णदुर्गे सहर्षिभिः ।। ७
गतस्तत्र स्न्ग्धिभक्तैरतिप्रेम्णा ह्यनुक्षणम् । सेव्यमानः पुनर्भ्रातः ! कस्मान्न पुरमेष्यति ।। ८
सर्वेऽपि भक्ताः सन्त्यस्य समानाः समदर्शिनः । तस्मात्सम्प्रार्थ्य नत्वा तं निवारय व्रज द्रुतम् ।। ९
इत्युक्तः स द्रुतं प्रायादनुष्णीषः प्रभोः पुरः । हेमन्तसिंहोऽद्राक्षीत्तं तावदायान्तमध्वनि ।। १०
हेमन्त उवाच -
सखे ! क्व यास्यनुष्णीषो धावन्नेव ससम्भ्रमम् । आमन्त्रयितुमायामि त्वत्समीपमहं किल ।। ११
भगवान्मुनिभिः साकं जीर्णदुर्गमुपैष्यति । तेन साकं त्वयाऽगम्यं तत्र पोष्यैर्निजैः सह ।। १२
इत्याश्रुत्य स तद्वाक्यं बुद्धयोद्धवसमो नृपः । हरियाननिषेधोक्तियुक्तिभिस्तमुवाच ह ।। १३
उत्तम उवाच -
बुद्धिमानसि सुज्ञोऽसि भ्रातस्त्वं लोकसम्मतः । त्वद्बुद्धिमवलम्ब्यैव धर्मे तिष्ठन्ति मानवाः ।। १४
आमन्त्रितस्त्वया स्वामी स्वपुरं नेतुमद्य यत् । अविचार्यैव तन्नूनं कृतमित्येव भाति मे ।। १५
शीतकालोऽधुना प्राप्तो देहिनां त्वग्विदारणः । नीशारं प्रावृतस्यापि हिमं गेहेऽपि दुःसहम् ।। १६
भूरिवाते पथि प्रातर्हरिणा दुःसहं न किम् । तथासत्युपहास्या ते भविता प्रेमभक्तता ।। १७
अनाद्रियन्तः स्वाः कन्था अप्येते योगकोमलाः । सन्तो मार्गे भविष्यन्ति हेमन्ते हिमपीडिताः ।। १८
अल्पाहाराश्च विधवा भक्तियोगमुपाश्रिताः । अनुपानत्पदा योषाश्चलिष्यन्ति कथं पथि ।। १९
प्रातः शीताम्भसा स्रात्वा चलतो हिमवेपितान् । दृा हरिजनान्मार्गे त्वां शप्स्यन्त्यल्पका अपि ।। २०
कर्मणानेन ते भ्रातः ! संज्ञाऽन्वर्थास्तु मा क्वचित् । उष्णकाले तु सम्प्राप्ते सुखेनातः प्रभुं नयेः ।। २१
तावत्कालं त्वया बन्धो ! स्वदेशीयजनैः सह । स्थित्वा दुर्गपुरे कार्ये नित्यं श्रीहरिदर्शनम् ।। २२
भोजनीया हि मुनयः पक्वान्नैस्तत्र च त्वया । सम्यक् च पूजनं तेषां कर्तव्यं हरिणा सह ।। २३
को वा विशेषः स्वगृहं हरौ नीतेऽप्यतः परः । न गृहं गृहमित्याहुर्गुहिणी गृहमुच्यते ।। २४
सौधेऽपि सा न चेत्तर्हि सोऽरण्यमिति कीर्तितः । सा तु यत्र भवेत्तत्र गृहस्थाश्रम ईरितः ।। २५
भ्रातृजायास्मीदीयात्र वर्ततेऽतस्तया सह । हरिं सम्पूज्य बहुधा गार्हस्थ्यफलमाप्नुहि ।। २६
न मित्रगेहं स्वगृहादन्यच्छास्त्रे च कथ्यते । अतो वसन्मम गृहे प्रभुं प्रीणय सादरम् ।। २७
स्नेहादेतन्मया प्रोक्तमतः परमुदारधीः । हिताहिते विचार्य त्वं कर्तुमर्हसि यद्धितम् ।। २८
सुव्रत उवाच -
इत्युत्तमवचः श्रुत्वा युक्तिवाक्यविशारदः । बुद्धया विदुरतुल्योऽसौ प्राह तद्बावविन्नृप ! ।। २९
हेमन्तसिंह उवाच -
सम्यगेवोच्यते भ्रातस्त्वया स्वार्थं सुरक्षता । कनीयसोऽपि बुद्धिस्ते वृद्धधीभ्योऽतिरिच्यते ।। ३०
परोपकारशीलानां सतां नित्यं समागमम् । कुर्वन्नपि भवानेतां स्वार्थबुद्धिं कुतोऽध्यगात् ।। ३१
शीतेन हेतुना भद्र ! जीर्णदुर्गागमः प्रभोः । निषिध्यते युक्तिविदा त्वया तत्रोत्तरं ब्रुवे ।। ३२
निवाताल्पगृहाभेऽहं नरयाने हरिं सखे ! उपवेश्यैव नेष्याभि शीतबाधा क्व तद्बवेत् ।। ३३
तपस्विन्योऽखिला योषा रथेषु शकटेषु ताः । गर्भागारेष्विवाऽस्थाप्य नेष्यामि सुखमध्वनि ।। ३४
यामार्ध आद्येऽतिक्रान्ते सन्तः सर्वे च वर्त्मनि । चलिष्यन्ति सुखेनैव नास्त्यातपभयं यतः ।। ३५
धर्मकालस्तु पान्थानां प्राणहा विषवायुना । किं विचार्य त्वया श्रेष्ठः प्रोच्यते शीतकालतः ।। ३६
गृहस्थधर्मसाफल्यं यत्त्वयोक्तं च युक्तिभिः । तत्तथैव त्वया कार्यं जीर्णं दुर्गमुपेत्य वै ।। ३७
अब्दा व्यतीता बहवो हरिं प्रार्थयतो मम । तदेदानीं स मामाह ह्यायाता त्वत्पुरं त्विति ।। ३८
फलोन्मुखस्य मेऽद्यैव मनोरथमहातरोः । उन्मूलके त्वयीदानीमपूर्वे स्नेहलक्षणम् ।। ३९
तत्रायाते भगवति जनास्तं कोटिराः पथि । संवीक्ष्य नरदेहस्य सद्यः प्राप्स्यन्ति वै फलम् ।। ४०
वीक्षामात्रेण पापाघ्नान्सतश्चापि सहस्रशः । वीक्ष्यानेके ग्राम्यजना अपि मोक्ष्यन्ति संसृतेः ।। ४१
ईदृक्पुण्योत्पत्तिकालेऽप्युकृष्टज्ञानवान्भवान् । तन्निषेधेन लोकेषु माभूदन्वर्थसंज्ञाकः ।। ४२
उपभोग्यं समं ह्यत्र भ्रातृभिः पैतृकं सुखम् । एक एव चिरं तत्त्वं जुषमाणो ब्रवीषि किम् ? ।। ४३
स्वयमेव विभज्यैके भुञ्जते सुज्ञाबन्धवः । पित्राऽन्यस्मै दीयमानं त्वं निषेधन्न लज्जसे ।। ४४
भगवन्तं गृहीत्वैव विनापि प्रेरणं मम । त्वया मत्पुरमागम्यमेतत्सौहार्दलक्षलम् ।। ४५
कराविव शरीरस्य नेत्रयोरिव पक्ष्मणी । अप्रेरितं हितं कुर्यात्तद्धि मित्रं प्रचक्षते ।। ४६
नित्यं षण्ढत्वमेवास्तु त्वयि मित्रपदस्य भोः । पुंस्त्वं तु कर्हिचिन्मास्तु साहाय्यं कुरु मे सखे ! ।। ४७
सुव्रत उवाच -
इत्युक्तस्तेन स हसन्नुवाचोत्तमभूपतिः । यादृशीच्छा भगवतो भविष्यति तथाऽखिलम् ।। ४८
इत्युक्त्वा स हरेः पार्श्वे जगाम नृपतिः स च । स्वावासं समुपेत्येत्थं विचारमकरोहृदि ।। ४९
श्रेयांसि बहुविधानीत्येषा वाग्विदुषामृता । यतितव्यं यथाबुद्धि तत्फलं दास्यति प्रभुः ।। ५०
विचार्येति नृपो राजन्कृष्णं विघ्नेशरूपिणम् । स्वकार्यविघ्नशान्त्यर्थं प्रार्थयामास सादरम् ।। ५१
आगामिन्यां चतुर्थ्यां त्वां गणेश ! गुडलड्डुकैः । यक्ष्ये च दुर्वासिन्दूरैर्मत्कार्ये विघ्नहृद्बव ।। ५२
इति सम्प्रार्थ्य विघ्नेशं स्वदेशीयाञ्जनांस्तथा । स्वजनान् स्वपुरं सर्वान्प्रैषयन्नत्वगात्स्वयम् ।। ५३
ततो नृपोऽसौ नृप ! सत्यवाक्यतां हरेर्विदंस्तस्य च भक्तवश्यताम् ।
तदन्तिकाशुद्रुतमित्रशङ्कितः पुनश्च तत्पार्श्वमुपेत्य तस्थौ ।। ५४
इति श्री सत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे चतुर्थ प्रकरणे कार्यानग्रामे भगवद्याने हेमन्तसिंहोत्तमयोः परस्परोक्तियुक्तिनिरूपणनामा षोडशोऽध्यायः ।। १६ ।।