पंचदशोऽध्यायः

सुव्रत उवाच - 

प्रबोगधिन्युत्सवेऽतीते ततो देशं निजं निजम् । दूरदेशीयलोकेषु गच्छत्स्वेवाज्ञाया प्रभोः ।। १ 

हेमन्तसिंहो नृपतिर्भक्तवात्सल्यमीशितुः । तत्र दृा निजगृहे व्यधित्सत्तादृशोत्सवम् ।।२

सह स्वदेशीयजनैः परिवारेण चात्मनः । तत्रैवोवास नगरं निनीषुः स निजं हरिम् ।। ३ 

वास्तोरेव गृहे सख्युर्वसंस्तेनातिमानितः प्रार्थनावसरं पश्यन् व्यत्यक्रामद्दिनत्रयम् ।। ४ 

गङ्गाख्या तस्य माता च भार्या जवहराभिधा । भ्राता चानूपसिंहाख्यतद्बार्या पांणसंज्ञिाका ।। ५ 

अदितिर्भगिनी तस्य मोटिन्याख्या च बन्धुजा । इत्यादिभिश्च स्वजनैः सहितः स नराधिपः ।। ६ 

मयरामप्रभृतिभिस्तद्देशीयैश्च पूरुषैः । लाडिनीप्रमुखाभिश्च तद्देशस्त्रीभिरन्वितः ।। ७ 

चतुर्थे दिवसे प्रातः सभायामास्थितं प्रभुम् । प्रणम्य प्रार्थयामास प्रसन्नं समवेक्ष्य तम् ।। ८

हेमन्तसिंह उवाच - 

भगवन्सर्वलोकेश ! भक्तवत्सल ! सत्पते ! । दासे मयि कृपां कर्तुं त्वत्पदैकाश्रयेऽर्हसि ।। ९

उत्सवोऽत्र यथा स्वामिन् ! कृतस्तद्वन्ममालये । कर्तव्यो भवता भूमन्सद्धर्माध्वप्रवर्तक ! ।। १० 

भक्तप्रियस्य ते नाथ ! स्वभक्तेष्वखिलेष्वपि । समाना वृत्तिरेवास्ति निर्धनेषु धनिष्यपि ।। ११ 

अस्मद्देशीयलोकास्तु जीर्णदुर्गागमं तव । भृशमिच्छन्ति भगवन्वृद्धेयं जननी च मे ।। १२ 

तदा बद्धाञ्जलिपुटो मयरामद्विजोऽब्रवीत् । भगवन्नेवमेव त्वं कर्तुमर्हसि सर्वथा ।। १३ 

प्रतीक्षन्ते जनाः सर्वे देशेऽस्माकं तवागमम् । भक्तकल्पद्रुमस्तेषां पूरय त्वं मनोरथम् ।। १४ 

त्वदर्थमेव सम्भाराः सम्भृताः सन्त्येनन च । राज्ञातोऽस्य प्रभो ! तूर्णं कुरु पूर्णं मनोरथम् ।। १५ 

इत्यर्थितस्तेन राज्ञा वृद्धभट्टेन तेन च । तन्निष्कपटभावज्ञाः प्रीतो भूपावदत्प्रभुः ।। १६ 

आगमिष्यामि नृपते ! त्वत्पुरं मुनिभिः सह । तव निष्कपटं भावमहं जानामि निश्चितम् ।। १७ 

इत्थं वदत्येव हरौ नागटङ्कपुराधिपः । सूरो बद्धाञ्जलिपुटस्तत्रागच्छत्त्वरान्वितः ।। १८ 

नाम्ना सातिश्च तत्पत्नी धन्या वल्लूश्च तत्सुते । नाथाख्यस्तत्सुतश्चैते तत्पश्चादाययुर्द्रुतम् ।। १९ 

तत्पुराधिकृतो वैश्यो नाम्ना सिंहः सभार्यकः । सोऽप्यागतोऽथ तैः साकं नत्वा सूरोऽब्रवीद्धरिम् ।। २० 

भगवन्स्वपुरं नेतुं त्वामहं समुपागतः । बहून्यहान्यतीतानि स्थितस्यात्र मम स्वकैः ।। २१ 

तस्मिन्मयि कृपां कर्तुं त्वमर्हसि निजाश्रिते । इति सम्प्रार्थयन्तं तं दृा सोऽचिन्तयद्धृदि ।। २२

उभावेतावपि दृढं भक्तौ निष्कपटौ मम । सह प्रार्थयतश्च द्वौ प्रेष्टौ चोभौ समौ मम ।। २३

अवश्यमेव हि मया प्रियं कार्ये द्वयोरपि । आदौ कस्य पुरं यामि भेदो न स्याद्यथोभयोः ।। २४

चिन्तयन्निति तिष्ठ त्वं विचार्य कथयामि ते । इत्युक्त्वा वासभवनं जगाम सत्वरं हरिः ।। २५

मञ्चमास्थाय तत्प्रष्टुं सर्वज्ञोऽपि नृनाटयधृत् । ब्रह्मानन्दं मुनिं नित्यानन्दं चाऽह्वास्त सोऽनघ ! ।। २६

उपविश्य रहःस्थाने साकं ताभ्यां स ईश्वरः । पप्रच्छ तौ वरीयांसौ निजभक्तौ महामती ।। २७

युवां प्रेष्ठतमौ मे स्थो नेत्रे एव हि सद्धियौ । अतीव निपुणौ सर्वकार्याकार्यावबोधने ।। २८

अतः पृच्छामि वामद्य जातं संशयमात्मनः । सूरहेमन्तयोर्मध्ये प्राग्गम्यं कस्य वा पुरम् ।। २९

गते स्वेकस्य नगरं द्वितीयाप्रियता भवेत् । गन्तव्यं तु ममावश्यमतो युक्तमिहोच्यताम् ।। ३०

इत्थं त्रिलोकीगुरुणा सर्वज्ञोनापि मुग्धवत् । सम्पृष्टौ तौ स्वहृदये विचारं चक्रतुर्मुनी ।। ३१

यं हि भगवान् ! साक्षान्मानुष्यमनुशीलयन् । अनुग्रहं करोत्येव सम्पृच्छनभिषेण नौ ।। ३२

देवा ब्रह्मादयोऽप्यत्र दूरादेवास्य दर्शनम् । लाभन्ते क्वापि न क्वापि स नौ पृच्छत्यहो रहः ।। ३३

गमनस्य निषेधस्तु कर्तुं शक्योऽस्य नाधुना । उत्कण्ठितो यतोऽस्त्येष गन्तुं नूनं स्वतः प्रभुः ।। ३४

निषेधस्यावयोर्युक्तीर्मंस्यते नैष साम्प्रतम् । अतोऽनुमोद्य गमनं कार्यं प्रश्नोत्तरं किल ।। ३५

इति निश्चित्य मनसा ब्रुवाते स्म तमीश्वरम् । यत्पृष्टं भवता स्वामिंस्तत्रेत्त्थं भाति नौ किल ।। ३६

उभौ भक्तौ समानौ ते प्रियं कार्यं द्वयोरपि । सूरं सम्भाव्य गन्तव्यं जीर्णदुर्गे प्रति त्वया ।। ३७

पुरं सूरस्य मार्गेऽस्ति तदुल्लङ्घय त्वया प्रभो ! । जीर्णदुर्गं कथं गन्तुं शक्येत च कदघ्वना ।। ३८

तत आदौ नागटङ्कं गन्तव्यमिति नौ मतिः । अतःपरं यादृशीच्छा भवेत्तव तथा कुरु ।। ३९

सुव्रत उवाच - 

इति तयोर्वचनानि निशम्य तौ मतिमतां प्रवरौ स सभाजयन् ।
मुदितमानस एत्य महासभां हरिरुषाविशदासन आत्मनः ।। ४० ।।

इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे चतुर्थ प्रकरणे कार्यायनग्रामे हेमन्तसिंहसूरामन्त्रणे तत्पुरगमनसम्मन्त्रणनिरूपणनामा पञ्चदशोऽध्यायः ।। १५ ।।