सुव्रत उवाच -
प्रबोधिन्या निशि हरिर्महत्यां भक्तसंसदि । शुश्राव जागरं कुर्वन्प्रबोधिन्याः कथां नृपः ! ।। १
कथान्ते बहुधा चक्रे सत्कर्मातिप्रशंसनम् । स्वीयानां शिक्षणायैव सचासत्कर्मगर्हणाम् ।। २
तमुत्तमो नरपतिः प्रणम्य विनयान्वितः । बद्धाञ्जलिपुटोऽप्राक्षीत्प्रश्नावसरवित्तदा ।। ३
राजोवाच -
देहिनामत्र भगवन् ! प्रवृत्तिः कर्मसु ध्रुवम् । सर्वेषां दृश्यते लोकेव्यवहारक्रियात्मनाम् ।। ४
नरकाप्तिर्भवेत्तत्र कर्मभिः कैः क्रियावताम् । स्वर्गप्राप्तिर्भवेत्कैश्च तन्मे त्वं वक्तुमर्हसि ।। ५
सुव्रत उवाच -
इति पृष्टो नरेन्द्रेण तेन बुद्धिमता प्रभुः । द्विविधान्यपि कर्माणि प्रोवाच सफलानि सः ।। ६
श्री नारायणमुनिरुवाच -
परदाराभिहर्तारः परदाराभिमर्शिनः । परदारप्रयोक्तारो ये ते निरयगा मताः ।। ७
ये परस्वापहर्तारः परस्वानां च नाशकाः । सूचकाश्च परेषां ये ते वै निरयगा मताः ।। ८
प्रपाणां च सभानां च सङ्क्रमाणां च भूपते ! । अगाराणां च भेत्तारो नरा निरयगा मताः ।। ९
अनाथां प्रमदां बालां वृद्धां मीतां तपस्विनीम् । वञ्चयन्ति नरा ये च ते वै निरयगा मताः ।। १०
वृत्तिच्छेदं गृहच्छेदं दारच्छेदं च ये नराः । मित्रच्छेदं तथा कुर्युस्ते वै निरयगा मताः ।। ११
सूचकाः सन्धिभेत्तारः परवृत्त्युपजीवकाः । अकृतज्ञाश्च मित्राणां ते वै निरयगा मताः ।। १२
पाषण्डा दूषकाश्चैव समयानां च दूषकाः । ये प्रत्यवसिताश्चैव ते वै निरयगा मताः ।। १३
विषमव्यवहाराश्च विषमाश्चैव वृद्धिषु । लाभेषु विषमाश्चैव ते वै निरयगा मताः ।। १४
द्यूतव्यवहाराश्च निष्परीक्षाश्च मानवाः । प्राणिहिंसाप्रवृत्ताश्च ते वै निरयगा मताः ।। १५
कृताशं कृतनिर्देशं कृतभक्तं कृतश्रमम् । भेदैर्ये व्यपकर्षन्ति ते वै निरयगा मताः ।। १६
पर्यश्नन्ति च ये दारानग्निभृत्यातिथींस्तथा । उत्त्सन्नपितृदेवेज्यास्ते वै निरयगा मताः ।। १७
वेदविक्रयिणश्चैव वेदानां चैव दूषकाः । वेदानां लेखकाश्चैव ते वै निरयगा मताः ।। १८
केशविक्रयका राजन्विषविक्रयकाश्च ये । विकर्मभिर्ये जीवन्ति ते वै निरयगा मताः ।। १९
शस्त्रविक्रयिकाश्चैव शस्त्राणां कर्तृकास्तथा । शल्यानां धनुषां ये च ते वै निरयगा मताः ।। २०
शिलाभिः शङ्कुभिर्वापि श्वभ्रैर्वा तीक्ष्णकण्टकैः। ये मार्गमनुरुन्धन्ति ते वै निरयगा मताः ।। २१
उपाध्यायांश्च भूत्यांश्च भक्तांश्च स्वसमाश्रितान् । ये त्यजन्त्यत्र निर्दोषांस्ते वै निरयगा मताः ।। २२
अदान्तदमकाश्चैव नसानां वेधकाश्च ये । बन्धकाश्च पशूनां ये ते वै निरयगा मताः ।। २३
अगोप्तारश्च राजानो बलिषङ्भागतस्कराः । समर्थाश्चाप्यदातारस्ते वै निरयगा मताः ।। २४
क्षान्तान्दान्तांस्तथा प्राज्ञान्दीर्घकालं सहोषितान् । त्यजन्ति कृतकृत्यान् ये ते वै निरयगा मताः ।। २५
एते निरयगाः प्रोक्ताः नरा दुष्कृतकारिणः । भागिनः स्वर्गलोकस्य ये तान् वच्म्यथ भूपते ! ।। २६
दानेन तपसा चैव सत्येन श्रद्धयापि च । ये धर्ममनुवर्तन्ते ते नराः स्वर्गगामिनः ।। २७
शुश्रूषाभिस्तपोभिश्च विद्यामादाय वा धनैः । ये प्रतिग्रहनिःस्नेहास्ते नराः स्वर्गगामिनः ।। २८
भयाल्लोभात्तथा क्रोधाद्दारिद्याद्वयाधिघर्षणात् । सत्कृत्यं न विमुञ्चन्ति ते नराः स्वर्गगामिनः ।। २९
क्षमावन्तश्च धीराश्च धर्मकार्येषु चोत्थिताः । मङ्गलाचारसम्पन्नास्ते नराः स्वर्गगामिनः ।। ३०
निवृत्ताः सर्वमांसेभ्यः परदारेभ्य एव च । सुराभ्यो ये च मद्येभ्यस्ते नराः स्वर्गगामिनः ।। ३१
आश्रमाणां च पातारः कुलसत्कर्मणां तथा । देशानां नगराणां च ते नराः स्वर्गगामिनः ।। ३२
सर्वहिंसानिवृत्ताश्च नराः सर्वसहाश्च ये । सर्वस्याश्रयभूताश्च ते नराः स्वर्गगामिनः ।। ३३
मातरं पितरं चैव शुश्रूषन्ति गुरूंश्चये । जितेन्द्रिया मिताहारास्ते नराः स्वर्गगामिनः ।। ३४
आख्याश्च बलवन्तश्च यौवनस्था अपीह ये । भवन्ति निर्मदा नित्यं ते नराः स्वर्गगामिनः ।। ३५
अपराद्धेषु सस्नेहा मृदवो मृदुवत्सलाः । आराधनासुखाश्चापि पुरुषाः स्वर्गगामिनः ।। ३६
सहस्त्रपरिवेष्टारस्तथैव च सहस्रदाः । त्रातारश्च सहस्राणां ते नराः स्वर्गगामिनः ।। ३७
सुवर्णस्य च दातारो गवां च नृपसत्तम ! । अन्नाम्बुवाहनानां च ते नराः स्वर्गगामिनः ।। ३८
वैवाहिकानां द्रव्याणामन्नानां च यथोचितम् । दातारो वाससां चैव पुरुषाः स्वर्गगामिनः ।। ३९
विहारावसथोद्यानकूपारामसभाप्रपाः । कारयन्ति स्वशक्तया ये ते नराः स्वर्गगामिनः ।। ४०
निवेशनानां क्षेत्राणां वसतीनां च भूपते ! । दातारः प्रार्थितानां च ते नराः स्वर्गगामिनः ।। ४१
सर्वभूतदयावन्तो विश्वास्याः सर्वदेहिनाम् । त्यक्तहिंसासमाचारास्ते नराः स्वर्गगामिनः ।। ४२
परस्वे निर्ममा नित्यं परदारविवर्जिताः । धर्मलब्धान्नभोक्तारस्ते नराः स्वर्गगामिनः ।। ४३
मातृवत्स्वसृवच्चैव नित्यं दुहितृवच्च ये । परदारेषु वर्तन्ते ते नराः स्वर्गगामिनः ।। ४४
स्तैन्यान्निवृत्ताः सततं सन्तुष्टाः स्वधनेन च । स्वभाग्यान्युपजीवन्ति ते नराः स्वर्गगामिनः ।। ४५
परदारेषु ये नित्यं चरितावृत्तलोचनाः । जितेन्द्रियाः शीलपरास्ते नराः स्वर्गगामिनः ।। ४६
श्लक्ष्णां वाणीं निराबाधां मधुरां दोषवर्जिताम् । स्वागतेनाभिभाषन्ते ते नराः स्वर्गगामिनः ।। ४७
परुषं ये न भाषन्ते कटुकं निष्ठुरं तथा । अपैशुन्यरताः सन्तस्ते नराः स्वर्गगामिनः ।। ४८
पिशुनां ये न भाषन्ते मित्रभेदकरीं गिरम् । ऋतं मैत्रं तु भाषन्ते ते नराः स्वर्गगामिनः ।। ४९
ये वर्जयन्ति पारुष्यं परद्रोहं च ये नराः । सर्वभूतसमा दान्तास्ते नराः स्वर्गगामिनः ।। ५०
न कोपाद्वयाहरन्ते ये वाचं हृदयदारिणीम् । सान्त्वं वदन्त्यपि क्रुद्धास्ते नराः स्वर्गगामिनः ।। ५१
ग्रामे गृहे वा यद्द्रव्यं पारक्यं विजने स्थितम् । नाभिनन्दन्ति ये नित्यं ते नराः स्वर्गगामिनः ।। ५२
तथैव परदारान् ये कामवृत्तान् रहोगतान् । मनसापि नहीच्छन्ति ते नराः स्वर्गगामिनः ।। ५३
शत्रुं मित्रं च ये नित्यं तुल्येन मनसा नराः । भजन्ति मैत्राः सङ्गम्य ते नराः स्वर्गगामिनः ।। ५४
श्रुतवन्तो दयावन्तः शुचयः सत्यसङ्गराः । स्वैरर्थैः परिसन्तुष्टास्ते नराः स्वर्गगामिनः ।। ५५
श्रद्धावन्तो मैत्रवन्तश्चोक्षाश्चोक्षजनप्रियाः । धर्माधर्मविदो नित्यं ते नराः स्वर्गगामिनः ।। ५६
न्यायोपेता गुणोपेता देवद्विजपराः सदा । यथोचितोद्योगपरास्ते नराः स्वर्गगामिनः ।। ५७
एवं सत्कर्मसंस्था ये भवन्ति पुरुषा इह । स्वर्गे यान्ति त एवेति जानीहि नृपसत्तम ! ।। ५८
मानुष्यं दुर्लभं प्राप्य सत्कर्माण्येव ये नराः । हित्वेतराणि कुर्वन्ति ते धन्याः सन्ति भूतले ।। ५९
सुव्रत उवाच -
इत्याश्रुत्य प्रभोर्वाक्यं स राजा मुदितो नृप ! । अन्येऽपि भक्ताः सकलाः संहृष्टास्तं ववन्दिरे ।। ६०
ततो द्वितीये दिवसे ब्राह्मणान्स सहस्रशः । भोजयामास भगवांस्तदिष्टैर्मिष्टभोजनैः ।। ६१
दूरदेशागताँल्लोकान् व्यसृजत्स ततः प्रभुः । शतक्रोशीयलोकास्तु प्रायशो न ययुस्ततः ।। ६२
श्रवणं गुणकीर्तनं हरेः स्मरणं चार्चनवन्दने तथा ।
सततं नृप ! कुर्वतां ययुः क्षणसाम्येन दिनानि तन्नृणाम् ।। ६३
इति श्री सत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे चतुर्थप्रकरणे कार्यायनग्रामे स्वर्गनरकगामिपुरुषलक्षण-निरूपणनामा चतुर्दशोऽध्यायः ।। १४ ।।