एकादशोऽध्यायः

श्री नारायणमुनिरुवाच -

सर्वे शृणुत भो भक्ता ! मम वाक्यं हितावहम् । श्वोऽस्ति जन्मतिथिः साक्षाद्वासुदेवस्य विश्रुता ।। १ ।।

तस्या व्रतं प्रकर्तव्यं सर्वैरेव मदाश्रितैः । श्रीकृष्णो हि यथास्माकमिष्टोऽस्त्येषापि तादृशी ।। २

विधानमस्याः सकलं यथाशास्त्रं च वो जनाः ! । कथयामि तदाश्रुत्य कर्तव्यं तद्व्रतं तथा ।। ३

सप्तमीवेधरहिता रोहिणीबुधसंयुता । निशीथगाष्टमी या सा कृष्णजन्माष्टमी मता ।। ४

अष्टमी रोहिणीयुक्ता निशीथे यत्र दृश्यते । मुख्यः कालः स विज्ञोयस्तत्र जातो यतो हरिः ।। ५

जन्माष्टमीव्रतस्यास्य निर्णये बहवो द्विजाः । विवदन्ते हि विद्वांसः स्वमतस्थापनोद्यताः ।। ६

जन्माष्टमी जयन्ती च व्रते द्वे इति केचन । एकमेवेति केचिच्च विद्वांसः कथयन्ति हि ।। ७

कृष्णजन्मनिशामेव जयन्तीं केचिदूचिरे । अष्टमीरोहिणीयोगं जयन्त्याख्यं तु केचन ।। ८

उदये चाष्टमी किञ्चिदित्यत्रेन्दूदयं बुधाः । केचिद्वदन्ति केचिच्च सूर्यस्यैवोदयं द्विजाः ।। ९

तिथ्यन्तपारणापक्षं गृहीत्वा केऽपि वादिनः । अष्टमीं सप्तमीविद्धां प्रशंसन्ति व्रते किल ।। १०

गृहीत्वा पारणापक्षमुत्सवान्तेऽथ केचन । नाद्रियन्ते पूर्वयुक्तां प्राशस्त्यान्नवमीयुजेः ।। ११

सूर्योदयस्य सम्बन्धमुपवासितिथेर्जगुः । मुख्यं केचिच्च केचित्तु कर्मकालं विचक्षणाः ।। १२

नाद्रियन्ते द्विजाः केचिद्विद्धां शुद्धां च वाष्टमीम् । आलम्ब्य रोहिणीमेव विद्वांसः कुर्वते व्रतम् ।। १३

इत्यादयो बहुविधा वादाः सन्त्यत्र हि व्रते । अवलम्ब्यार्षवाक्यानि विद्वद्बिर्ग्रथिताश्च ते ।। १४

सप्रमाणा हि ते सर्वे तेषु शिष्टैः सुनिश्चितम् । पक्षं प्रदर्शयाम्यद्य सर्वसंशयनुत्तये ।। १५

यदा पूर्वदिने ह्येव रोहिणीबुधसंयुता । निशीथगाष्टमी सम्यक् नोत्तरा तु निशीथगा ।। १६

तदा विद्धाऽपि सप्तम्या ग्रहीतव्याष्टमी व्रते । परेद्युः पारणा कार्या तिथ्यन्ते व्रतचारिभिः ।। १७

प्रोक्ता योगविशेषेण सप्तमीसहिताष्टमी । ग्राह्येत्यग्निपुराणादौ नान्यथा केवलाष्टमी ।। १८

पूर्वेद्युरेव योगश्च प्रागुक्तः सकलो यदि । भवेदथ परेद्युस्तु निशीथे केवलाष्टमी ।। १९

उपवासद्वयं कुर्यात्तदा शक्तस्तु पूरुषः । उपवासमशक्तस्तु कुर्यादेकं परेऽहनि ।। २०

बुधाष्टमीरोहिणीनां निशीथे योगमन्तरा । पूर्वविद्धा न कर्तव्या बुधैर्जन्माष्टमी क्वचित् ।। २१

बुधवारो न चेत्तर्हि रोहिणीसहितामपि । पूर्वविद्धां विहायैव शुद्धा ग्राह्याष्टमी मता ।। २२

विना ऋक्षेणापि कार्या नवमीसंयुताष्टमी । सऋक्षापि न कर्तव्या सप्तमीसंयुताष्टमी ।। २३

पलं घंट मुहूर्तं वा यदा कृष्णाष्टमी ततः । नवमी सैव ग्राह्या स्यात्सप्तमीसंयुता न तु ।। २४

विद्धायाश्च क्षयः स्याञ्चेत्सप्तमीसंयुताष्टमी । तदा परा ग्रहीतव्या व्रते जन्मतिथिः प्रभोः ।। २५

शुद्धाऽधिकाष्टमी यर्हि तदापि नवमीयुजेः । प्राशस्त्यादुत्तरा ग्राह्येत्यूचुः केचन वैष्णवाः ।। २६

बहुकालव्यापकत्वाद्वेधाभावाच्च सर्वथा । पूर्वा ग्राह्येति गोस्वामिमतं तद्ग्र्राह्यमस्ति नः ।। २७

इति सेपतो ह्येष सर्वसारो निरूपितः । निश्चित्यैतन्मतं ज्ञोयो जन्माष्टम्यास्तु निर्णयः ।। २८

व्रतं करिष्यन्पुरुषः सप्तम्यां लघुभुग्भवेत् । जितेन्द्रियः स्वपेद्रात्रौ कृष्णमेव विचिन्यतन् ।। २९

ब्राह्मे मुहूर्त उत्थाय कृत्वा नित्यविधिं ततः । मध्याह्ने च नदीं गत्वा विधिना स्ननमाचरेत् ।। ३०

कृत्वापामार्गसमिधा दन्तधावनामादितः । तिलामलककल्केन स्नयान्मृत्स्नानपूर्वकम् ।। ३१

ततो माध्याह्निकं कृत्वा गृहमेत्य शुचिर्व्रती । मण्डपं कारयेद्रम्यं कदलीस्तम्भशोभितम् ।। ३२

विचित्रवस्त्रैः पुष्पैश्च मण्डितं चाम्रपल्लवैः । शुभैर्नानाविधै रङ्गैस्तत्र तत्र सुचित्रितम् ।। ३३

सितैः पीतैस्तथा रक्तैः कर्बुरैर्हरितैरपि । वासोभिः शोभितं कुर्यात्समन्तात्कलशैर्नवैः ।। ३४

पत्रैः फलैरनेकैश्च दीपालिभिरितस्ततः । पुष्पमालाविचित्रं च चन्दनागुरुधूपितम् ।। ३५

तन्मध्ये सूतिकागारं देवक्या विदधीत च । धात्रीं कुर्यात्तत्र चैकां नालच्छेदनकर्तरीम् ।। ३६

तन्मध्ये मञ्चके रम्ये स्थापयेद्देवकीं ततः । तदुत्सङ्गे बालकृष्णं स्थापयेच्च स्तनन्धयम् ।। ३७

यशोदां तत्र चैकस्मिन्प्रदेशे सूतिकागृहे । स्थापयेद्गोकुले तद्वत्प्रसूतवरकन्यकाम् ।। ३८

नन्दश्च वसुदेवश्च गोपा गोप्यश्च धेनवः । बाललीला च कृष्णस्य तत्र कल्प्या यथोचितम् ।। ३९

रोहिणी बलदेवश्च षष्ठी देवी वसुन्धरा । ब्रह्मा च रोहिणीऋक्षं तथा कृष्णाष्टमी तिथिः ।। ४०

मार्कण्डेयो बलिर्व्यासो हनुमांश्च विभीषणः । कृपः परशुरामश्च सप्तैते चिरजीविनः ।। ४१

नृत्यन्तश्चाप्सरोवृन्दैर्गन्धर्वा गीततत्पराः । लेखनीयाश्च तत्रैव कालियो यमुनाहृदे ।। ४२

इत्येवमादि यत्किञ्चद्यथाशक्ति यथामति । लेखयित्वा प्रयत्नेन पूजयेद्बक्तितत्परः ।। ४३

यथाशक्ति प्रकर्तव्या कृष्णादीनां तु मूर्तयः । सौवर्ण्याद्याश्च तत्पूजा कर्तव्या निशि भक्तितः ।। ४४

उपहारैर्यथालब्धैः शुद्धैः श्रीकृष्णमर्चयेत् । सहाङ्गदेवतं मन्त्रैर्व्रतग्रन्थोदितैः पुमान् ।। ४५

देवक्यादियुतं कृष्णं गीतवाद्यसमन्वितम् । सम्पूज्य विधिना भक्तः पार्षदांस्तस्य चार्चयेत् ।। ४६

सम्पूज्य सर्वदेवांश्च प्रणम्य दण्डवत् भुवि । ब्राह्मणान् पूजयित्वाथ तेभ्यो दद्याञ्च दक्षिणाम् ।। ४७

ततो मुहूर्ते दोलायां बालकृष्णं तमादरात् । सम्पूज्य नीराजयित्वा शनैरान्दोलयेत्पुमान् ।। ४८

कथां च जन्माध्यायोक्तां शृणुयाद्बक्तिभावतः । ततः कुशासने स्थित्वा कुर्याज्जागरणं व्रती ।। ४९

प्रातः कुर्यान्मूर्तिदानं कृत्वैवोत्तरपूजनम् । ब्राह्मणान्भोजयित्वाथ स्वयं कुर्वीत पारणाम् ।। ५०

सर्वेष्वेवोपवासेषु दिवा पारणमिष्यते । न रात्रौ पारणं कूर्यादाश्यात् पञ्चामृतं हरेः ।। ५१

एतेनैव विधानेन प्रतिमासं च यः पुमान् । कृष्णाष्टमीव्रतं कुर्यात्प्राप्नुयात्स्वेप्सितं हि सः ।। ५२

एवं संवत्सरं पूर्णे व्रतं कृत्वा जितेन्द्रियः । महापूजां विधायान्ते दद्याच्छय्यां च गाः पुमान् ।। ५३

आदावन्तेऽथवा मध्ये कुर्यादुद्यापनं व्रती । तेन साङ्गं व्रतं सर्वान्कामान् फलति निश्चितम् ।। ५४

वार्षिकं तु व्रतं कार्ये प्रतिवर्षे यथाविधि । कृष्णः प्रसन्नो भवति व्रतिभ्यस्तेन निश्चितम् ।। ५५

उद्यापनं व्रतस्यास्य कथयामि समासतः । मण्डलं सर्वतोभद्रं कर्तव्यं मण्डपोत्तमे ।। ५६

तस्योपरि प्रतिष्ठाप्य ताम्रकुम्भं जलान्वितम् । वेष्टयेच्छ्वेतवस्त्रेण नवरत्नसमन्वितम् ।। ५७

पञ्चपल्लवसंयुक्तं पूर्णपात्रसमन्वितम् । कार्यः सुवर्णेनैकेन देवकीसहितो हरिः ।। ५८

अशक्तस्तु तदर्धेन कुर्यात्प्रतिकृतिं हरेः । रोहिण्या सहितं चेन्दुं रौप्यं कृत्वार्चयेद्व्रती ।। ५९

चतुर्विंशतिसङ्खयाकाः स्थालीः पायससम्भृताः । निवेदयित्वा हरये दधाद्विप्रेभ्य एव ताः ।। ६०

दीपमाला घृतेनैव कर्तव्या हरिमन्दिरे । होमः पुरुषसूक्तेन कार्यो वा नाममन्त्रतः ।। ६१

चतुर्विंशतिसङ्खयाकान्ब्राह्मणान्भोजयेत्ततः । यथाशक्तयर्चयेत्तांश्च गन्धवस्त्रविभूषणैः ।। ६२

सोपस्करं ताम्रकुम्भं सुवर्णे गाश्च शक्तितः । यथाविधि ब्राह्मणेभ्यो दद्याच्छ्रीकृष्णतुष्टये ।। ६३

घृतपात्रं तिलपात्रं मुद्रिकां च कमण्डलुम् । उपानहौ च वस्त्राणि शय्यां दधाद्विशेषतः ।। ६४

श्राद्धे दाने तथा होमे तीर्थयात्राव्रतेषु च । वित्तशाठयं न कुर्वीत यदीच्छेद्विपुलं धनम् ।। ६५

पात्रेषु धर्मकार्येषु वित्तशाठयं करोति यः । सर्वधर्मविनिर्मुक्तो नरके स निमज्जति ।। ६६

सर्वव्रतेषु सामान्या ब्रह्मचर्यादयो यमाः । पालनीयाः प्रयत्नेन स्त्रीभिः पुम्भिश्च सर्वशः ।। ६७

व्रतं प्रोक्तमिदं पुण्यं श्रीहरेर्मथुराभुवः । कामदं रुक्मिणीभर्तुः सर्वेषां द्वारिकापतेः ।। ६८

श्रीकृष्णजन्मदिवसे यश्च भुङ्क्ते नराधमः । स भवेन्मातृगामी च ब्रह्महत्यां लभेत च ।। ६९

उपवासासमर्थश्चेत् फलाहारादिना व्रतम् । यथाशक्ति प्रकुर्वीत हापयेन्न त्विदं क्वचित् ।। ७०

इति प्रोक्तो मया भक्ता ! युष्मभ्यं हि समासतः । जन्माष्टमी व्रतविधिः कर्तव्यो यो मदाश्रितैः ।। ७१

य इति शृणुयाद्बक्तया पठेद्वापि समाहितः । पुमान् सोऽपि व्रतफलं प्राप्नुयान्नात्र संशयः ।। ७२

सुव्रत उवाच -

इत्यादिश्य निजान्भक्तान्प्रहृष्स्टैस्तैः स वन्दितः । स्वावासं पुनरागच्छत्स्वस्वस्थानं ययुर्जनाः ।। ७३

सान्ध्यं विधिं तत्र विधाय सर्वे श्रीकृष्णनामानि पठन्मुखेन ।
समास्तृतायां भुवि मध्ययामद्वये स सुष्वाप निशो नरेन्द्र ! ।। ७४ ।।

इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे चतुर्थप्रकरणे सारङ्गपुरे जन्माष्टम्युत्सवे व्रतविधिरूपणनामैकादशोऽध्यायः ।। ११ ।।