श्रीविष्णुसहस्रस्तोत्रम्

श्रीविष्णुसहस्रस्तोत्रम्

यस्य स्मरणमात्रेण जन्मसंसारबंधनात् । विमुच्यते नमस्तस्मै विष्णवे प्रभविष्णवे ।।१।।

श्रुत्वा धर्मानशेषेण पावनानि च सर्वशः । युधिष्ठिरः शान्तनवं पुनरेवाभ्यभाषत ।।२।।

किमेकं दैवतं लोके किं वाप्येकं परायणम् । स्तुवन्तः कं कमर्चन्तः प्राप्नुयुर्मानवाः शुभम् ।।३।।

को धर्म सर्वधर्माणां भवतः परमो मतः । किं जपन् मुच्यते जन्तुर्जन्मसंसारबन्धनात् ।।४।।

जगत्प्रभुं देवदेवमनन्तं पुरुषोत्तमम् । स्तुवन्नामसहस्रेण पुरुषः सततोत्थितः ।।५।।

तमेव चार्चयन्नित्यं भक्त्या पुरुषमव्ययम् । ध्यायन् स्तुवन्नमस्यश्च यजमानस्तमेव च ।।६।।

अनादिनिधनं विष्णुं सर्वलोकमहेश्वरम् । लोकाध्यक्षं स्तुवन्नित्यं सर्वदुःखातिगो भवेत् ।।७।।

ब्रह्मण्यं सर्वधर्मज्ञां लोकानां कीर्तिवर्धनम् । लोकनाथं महद्बूतं सर्वभूतभवोद्बवम् ।।८।।

एष मे सर्वधर्माणां धर्मो।धिकतमो मतः । यद्बक्त्या पुण्डरीकाक्षं स्तवैरर्चेन्नरः सदा ।।९।।

परमं यो महत्तेजः परमं यो महत्तपः । परमं यो महद्ब्रह्मः परमं यः परायणम् ।।१०।।

पवित्राणां पवित्रं यो मङ्गलानां च मङ्गलम् । दैवतं देवतानां च भूतानां यो।व्ययः पिता ।।११।।

यतः सर्वाणि भूतानि भवन्त्यादियुगागमे । यस्मिश्च प्रलयं यान्ति पुनरेव युगक्षयो ।।१२।।

तस्य लोकप्रधानस्य जगन्नाथस्य भूपते । विष्णोर्नामसहस्रं मे श्रृणु पापभयापहम् ।।१३।।

यानि नामानि गौणानि विख्यातानि महात्मनः । ऋषिभिः परिगीतानि तानि वक्ष्यामि भूतये ।।१४।।

अस्य श्रीविष्णोर्दिव्यसहस्रनामस्तोत्रमन्त्रस्य भगवान् वेदव्यास ऋषिः ।

श्रीविष्णुः परमात्मा देवता । अनुष्टुप छन्दः । अमृतांशूद्बवो भानुरिति बीजम् ।

देवकीनन्दनः स्रष्टेति शक्तिः । त्रिसामा सामगः सामेति हृदयम् ।

शङ्खभृन्नन्दकी चक्रीति कीलकम् । शार्ङ्गधन्वा गदाधर इत्यस्त्रम् ।

रथाङ्गपाणिरक्षोभ्य इति कवचम् । उद्बवः क्षोभणो देव इति परमोमन्त्रः ।

श्रीमहाविष्णुप्रीत्यर्थे जपे विनियोगः ।

अथ न्यासः

विश्वं विष्णुवषट्कार इत्यङ्गुष्टाभयां नमः । अमृतांशूद्बवो भानुरिति तर्जनीभ्यां नमः ।

ब्रह्मण्यो ब्रह्मकृत्ब्रह्मेति मध्यमाभ्यां नमः । सुवर्णबिन्दुरक्षोभ्य इत्यनामिकाभ्यां नमः ।

रथाङ्गपाणिरक्षोभ्य इति करतलकरपृष्टाभ्यां नमः । एवं हृदयादिन्यासः ।

अथ ध्यानम्

शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं ।विश्वाधारं गगनसदृशं मेघवर्ण शुभाङ्गम् ।।

लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यं ।वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ।।१।।

। नमो भगवते वासुदेवाय ।

विश्वं विष्णुर्वषट्कारो भूतभव्यभवत्प्रभुः । भूतकृद्बूतभृद्बावो भूतात्मा भूतभावनः ।।१।।

पूतात्मा परमात्मा च मुक्तानां परमा गतुः ।अव्ययः पुरुषः साक्षी क्षेत्रज्ञोक्षर एव च ।।२।।

योगो योगविदां नेता प्रधानपुरुषेश्वरः । नारसिंहवपुः श्रीमान् केशवः पुरुषोत्तमः ।।३।।

सर्वः शर्वः शिवः स्थाणुर्भूतादिर्निधिरव्ययः । सम्भवो भावनो भर्ता प्रभवः प्रभुरीश्वरः ।।४।।

स्वयम्भूः शम्भुरादित्यः पुष्कराक्षो महास्वनः । अनादिनिधनो धाता विधाता धातुरुत्तमः ।।५।।

अप्रमेयो हृषीकेशः पद्मनाभो।मरप्रभुः । विश्वकर्मा मनुस्त्वष्टा स्थविष्ठः स्थविरोध्रुवः ।।६।।

अग्राह्यः शाश्वतः कृष्णो लोहिताक्षः प्रतर्दनः । प्रभूतस्त्रिककुब्धाम पवित्रं मङ्गलं परम् ।।७।।

ईशानः प्राणदः प्राणो ज्येष्ठः श्रेष्ठः प्रजापतिः । हिरण्यगर्भो भूगर्भो माधवो मधुसूदनः ।।८।।

ईश्वरो विक्रमो धन्वी मेधावी विक्रमः क्रमः । अनुत्तमो दुराघर्षः कृतज्ञाः कृतिरात्मवान् ।।९।।

सुरेशः शरणं शर्म विश्वरेताः प्रजाभवः । अहः संवत्सरो व्यालः प्रत्ययः सर्वदर्शनः ।।१०।।

अजः सर्वेश्वर सिद्धः सिध्धिं सर्वादिरच्युतः । वृषाकपिरमेयात्मा सर्वयोगविनिःसृतः ।।११।।

वसुर्वसुमनाः सत्यः समात्मा सम्मितः समः । अमोघ पुण्डरीकाक्षो वृषकर्मा वृषाकृतिः ।।१२।।

रुद्रो बहुशिरा बभ्रुविश्वयोनिः शुचिश्रवाः । अमृत शाश्वतः स्थाणुर्वरारोहो महातपाः ।।१३।।

सर्वगः सर्वविद्बानुर्विष्वक्सेनो जनार्दनः । व्दो वेदविदव्यङ्गो वेदाङ्गो वेदवित् कविः ।।१४।।

लोकाध्यक्षः सुराध्यक्षो धर्माध्यक्षः कृताकृतः । चतुरात्मा चतुर्व्यूहश्चतुर्दष्ट्रचतुर्भुजः ।।१५।।

भ्राजिष्णुर्भोजनं भोक्ता सहिष्णुर्जगदादिजः । अनघो विजयो जेता विश्वयोनिः पुनर्वसुः ।।१६।।

उपेन्द्रो वामनः पांशुरमोघः शुचिरुर्जितः । अतीन्द्रः संग्रहः सर्गो धृतात्मा नियमो यमः ।।१७।।

वेद्यो वेद्यः सदायोगी वीरहा माधवो मधुः । अतीन्द्रियो महामायो महोत्साहो महाबलः ।।१८।।

महाबुद्धिर्महावीर्यो महाशक्तिर्महाधृतिः । अनिर्देश्यवपुः श्रीमानमेयात्मा महाद्रिधृक् ।।१९।।

महेष्वासो महीभर्ता श्रीनिवासः सतांगतिः । अनिरुद्धः सुरानन्दो गोविन्दो गोविन्दांपतिः ।।२०।।

मरीचिर्दमनो हंसः सुपर्णो भुजगोत्तम । हिरण्यनाभः सुतपाः पद्मनाभः प्रजापतिः ।।२१।।

अमृत्युःसर्वदृकसिंहः सन्धाता सन्धिमान् स्थिरः । अजो दुर्मर्षणः शास्ता विश्रुतात्मा सुरारिहा ।।२२।।

गुरुर्गुरुतमो धाम सत्यः सत्यपराक्रम । निमिषो।निमिषः स्रगवी वाचस्पतिरुदारधीः ।।२३।।

अग्रणीर्ग्रामणीः श्रीमान् न्यायो नेता समीरणः । सहस्रमूर्धा विश्वात्मा सहस्राक्षः सहस्रपात् ।।२४।।

आवर्तनो निवृत्तात्मा संवृतः सम्प्रमर्दनः । अहः संवर्तको वह्निरनिलो धरणीधरः ।।२५।।

सुप्रसादः प्रसन्नात्मा विश्वधृग्विश्वभुग्विभुः । सत्कर्ता सत्कृतः साधुर्जहनुर्नारायणो नरः ।।२६।।

असंख्ययेयो।प्रमेयात्मा विशिष्टः शिष्टकृच्छुचिः । सिद्धार्थं सिध्धसङ्कल्पः सिद्धिदः सिध्धिसाधनः ।।२७।।

वृषाही वृषभो विष्णुर्वृषपर्वा वृषोदरः । वर्धनो वर्धमानश्च विविक्तः श्रुतिसागरः ।।२८।।

सुभुजो दुर्धरो वाग्मी महेन्द्रो वसुदो वसुः । नैकरुपो बृहद्रुप शिपिविष्ट प्रकाशनः ।।२९।।

ओजस्तेजोद्युतिधरः प्रकाशात्मा प्रतापनः । ऋद्धः स्पष्टाक्षरो मन्त्रश्चन्द्रांशुर्भास्करद्युतिः ।।३०।।

अमृतांशूद्भवो भानुः शशविन्दुं सुरेश्वरः । औषधं जगतः सेतुः सत्यधर्मपराक्रमः ।।३१।।

भूतभव्यभवन्नाथः पवनः पावनो।नलः । कामहा कामकृत् कान्तः कामः कामप्रदः प्रभुः ।।३२।।

युगादिकृद्युगावर्तो नैकमायो महाशनः । अदृश्यो।व्यक्तरुपश्च सहस्रजिदनन्तजित् ।।३३।।

इष्टो विशिष्टः शिष्टेष्टः शिखण्डी नहूषो नृषः । क्रोधहा क्रोधकृत्कर्ता विश्वबाहुर्महीधरः ।।३४।।

अच्युतः प्रथितः प्राणः प्राणदो वासवानुजः । अपांनिधिरधिष्ठानमप्रमतः प्रतिष्ठितः ।।३५।।

स्कन्दः स्कन्दधरो धुर्यो वरदो वायुवाहनः । वासुदेवो बृहद्बानुरादिदेवः पुरन्दरः ।।३६।।

अशोकस्तरणस्तारः शूरः शौरिजनेश्वरः । अनुकूलः शतावर्तः पद्मी पद्मनिभेक्षणः ।।३७।।

पद्मनाभो।रविन्दाक्षः पद्मगर्भः शरीरभृत् । महर्ध्धिऋद्धो वृद्धात्मा महाक्षो गरुडध्वजः ।।३८।।

अतुलः शरभो भीमः समयज्ञो हविर्हरिः । सर्वलक्षणलक्षण्यो लक्ष्मीवान् समितिञ्यः ।।३९।।

विक्षरो रोहितो मार्गो हेतुर्दामोदरः सहः । महीधरो महाभागो गेववानमिताशनः ।।४०।।

उद्बवः क्षोभणो देवः श्रीगर्भः परमेश्वरः । करणं कारणं कर्ता विकर्ता गहनो गुहः ।।४१।।

व्यवसायो व्यवस्थानः संस्थानः स्थानदो ध्रुवः । परर्द्धिः परमः स्पष्टस्तुष्टःपुष्टः शुभेक्षणः ।।४२।।

रामो विरामो विरजो मार्गो नेयो नयो।नयः । वीरः शक्तिमतां श्रेष्टो धर्मो धर्मविदुत्तमः ।।४३।।

वैकुण्ठः पुरुषः प्राणः प्राणदः प्रणवः पृथुः । हिरण्यगर्भ शत्रुघ्नो व्याप्तो वायुरधोक्षजः ।।४४।।

ऋतुः सुदर्शनः कालः परमेष्टी परिग्रहः । उग्रः संवत्सरो दक्षो विश्रामो विश्वदक्षिणः ।।४५।।

विस्तारः स्थावरः स्थाणुः प्रमाणं बीजमव्ययम् । अर्थो।नर्थो महाकोशो महाभोगो महाधनः ।।४६।।

अनिर्विण्णः स्थविष्टो।भूर्धर्मयूपो महामखः । नक्षत्रनेमिर्नक्षत्री क्षमः क्षामः समीहनः ।।४७।।

यज्ञा ईज्यो महेज्यश्च क्रतुः सत्रं सतांगतिः । सर्वदर्शी विमुक्तात्मा सर्वज्ञो ज्ञानमुत्तमम् ।।४८।।

सुर्वतः सुमुखः सूक्ष्मः सुघोषः सुखदः सुहृत् । मनोहरो जितक्रोधो वीरबाहुर्विदारणः ।।४९।।

स्वापनः स्ववशो व्यापी नैकात्मा नैककर्मकृत् । वत्सरो वत्सलो वत्सी रत्नगर्भो धनेश्वरः ।।५०।।

धर्मगुब्धर्मकृद्धर्मी सदसत्क्षरमक्षरम् । अविज्ञााता सहस्रांशुर्विधाता कृतलक्षणः ।।५१।।

गभस्तिनेमिः सत्त्वस्थः सिंहो भूतमहेश्वरः । आदिदेवो महादेवो देवेशो देवभूग्दुरुः ।।५२।।

उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः । शरीरभूतभृद्बोक्ता कपीन्द्रो भूरिदक्षिणः ।।५३।।

सोमपोऽमृतप: सोम: पुरुजित्पुरुसत्तम:। विनयो जय: सत्यसंधो दाशार्ह: सात्त्वतांपति:॥५४॥

जीवो विनयिता साक्षी मुकुन्दो।मितविक्रमः । अम्भोनिधिरनन्तात्मा महोदधिशयो।न्तकः ।।५५।।

अजो महार्हः स्वाभाव्यो जितामित्रः प्रमोदनः । आनन्दो नन्दनो नन्दः सत्यधर्मात्रिविक्रमः ।।५६।।

महर्षिः कपिलाचार्य कृतज्ञो मेदिनीपतिः । त्रिपदस्त्रिदशाध्यक्षो महाश्रृङ्गः कृतान्तकृत् ।।५७।।

महावराहो गोविन्दः सुषेणः कनकाङ्गदी । गुह्यो गभीरो गहनो गुप्तचक्रगदाधरः ।।५८।।

वेद्याः स्वाङ्गो।जितः कृष्णो दृढः सङ्कर्षणो।च्युतः । वरुणो वारुणो वृक्षः पुष्कराक्षो महामनाः ।।५९।।

भगवान् भगहा नन्दी वनमाली हलायुधः । आदित्यो ज्योतिरादित्यः सहिषअणुर्गतिसत्तमः ।।६०।।

सुधन्वा खण्डपरशुर्दारुणो द्रविणप्रदः । दिविस्पृक् सर्वदृग्व्यासो वाचस्पतिरयोनिजः ।।६१।।

त्रिसामा सामगः साम निर्वाणं भेषजं भिषक् । सन्न्नासकृच्छमः शान्तो निष्टा शान्ति परायणः ।।६२।।

शुभाङ्गः शान्तिदः स्त्रष्टा कुमुदः कुवलेशयः । गोहितो गोपतिर्गोप्ता वृषभाक्षो वृषप्रियः ।।६३।।

अनवर्ती निवृत्तात्मा सङ्क्षेप्ता क्षेमकृच्छिवः । श्रीवत्सवक्षाः श्रीवासः श्रीपतिः श्रीमतांवरः ।।६४।।

श्रीदः श्रीशः श्रीनिवासः श्रीनुधुः श्रीविभावनः । श्रीधरः श्रीकरः श्रेयः श्रीमांल्लोकत्रयाश्रयः ।।६५।।

स्वक्षः स्वङ्गः शतानन्दो नन्दिर्ज्योतिर्गणेश्वरः । विजितात्मा विधेयात्मा सत्कीर्तिच्छिन्नसंशयः ।।६६।।

उदीर्णः सर्वतश्चक्षुरनीशः शाश्वतः स्थिरः । भूशयो भूषणो भूतिर्विशोक शोकनाशनः ।।६७।।

अर्चिष्मानर्चितः कुम्भो विशुद्धात्मा विशोधनः । अनिरुद्धो।प्रतिरथः प्रद्युम्नो।मितविक्रमः ।।६८।।

कालनेमिनिहा वीरः शूरः शौरिर्जनेश्वरः । त्रिलोकात्मा त्रिलोकेशः केशवः केशिहा हरिः ।।६९।।

कामदेवः कामपालः कामी कान्तः कृतागमः । अनिर्देश्यवपुर्विष्णुर्वीरो।नन्तो धनञ्जयः ।।७०।।

ब्रह्मण्यो ब्रह्मकृद् ब्रह्मा ब्रह्म ब्रह्मविवर्धनः । ब्रह्मविद् ब्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणप्रियः ।।७१।।

महाक्रमो महाकर्मा महातेजो महोरगः । महाक्रतुर्महायज्वा महायज्ञो महाहविः ।।७२।।

स्तव्यः स्तवप्रियः स्तोत्रं स्तुति स्तोता रणप्रियः । पूर्णः पूरयिता पुण्यः पुण्यकीर्तिरनामयः ।।७३।।

मनोजवस्तीर्थकरो वसुरेता वसुप्रदः । वसुप्रदो वासुदेवो वसुर्वसुमना हविः ।।७४।।

सग्दतिः सत्कृतिः सत्ता सद्बूति सत्परायणः । शूरसेनो यदुश्रेष्ठः सन्निवासः सुयामुनः ।।७५।।

भूतावासो वासुदेवः सर्वासुनिलयो।नलः । दर्पहा दर्पदो दृप्तो दुर्धरो।थापराजितः ।।७६।।

विश्वमूर्तिर्महामूर्तिर्दीप्तमूर्तिर्मूर्तिमान् । अनेकमूर्तिरव्यक्तः शतमूर्तिः शताननः ।।७७।।

एको नैकः सवः कः किं यत्तत्पदमनुत्तमम् । लोकबन्धुर्लोकनाथो माधवो भक्तवत्सलः ।।७८।।

सुवर्णवर्णो हेमाङ्गो वराङ्गचन्दनाङ्गदी । वीरहा विषमः शून्यो धृताशीरचलश्चलः ।।७९।।

अमानी मानदो मान्यो लोकस्वामी त्रिलोकधृक् । सुमेधा मेधजो धन्यः सत्यमेधा धराधरः ।।८०।।

तेजोवृषो धुतिधर सर्वशस्त्रमृतां वरः । प्रग्रहो निग्रहो व्यग्रो नैकश्रृङ्गो गदाग्रजः ।।८१।।

चतुर्मूर्तिश्चतुर्बाहुश्चतुर्व्यूहश्चतुर्गतिः । चतुरात्मा चतुर्भावश्चतुर्वेदविदेकपात् ।।८२।।

समावर्तो निवृत्तात्मा दुर्जयो दुरतिक्रमः । दुर्लभो दुर्गमो दुर्गो दुरावासो दुरारिहा ।।८३।।

शुभाङ्गो लोकसारङ्ग सुतन्तुस्तन्तुवर्धनः । इन्द्रकर्मा महाकर्मा कृतकर्मा कृतागमः ।।८४।।

उद्बवः सुन्दरः सुन्दो रत्ननाभः सुलोचनः । अर्को वाजसनः श्रृङ्गी जयन्त सर्वविज्जयी ।।८५।।

सुवर्णबिन्दुरक्षोभ्यः सर्ववागीश्वरेश्वरः । महाहृदो महागर्तो महाभूतो महानिधिः ।।८६।।

कुमुदः कुन्दरः कुन्दः पर्जन्यः पावनो।नलः । अमृतांशो।मृतवपुः सर्वज्ञा सर्वतोमुखः ।।८७।।

सुलभः सुव्रतः सुद्धः शत्रुजिच्छत्रुतापनः । न्यग्रोधोदुम्बरो।श्वत्थश्चाणूरान्ध्रनिषूदनः ।।८८।।

सहस्रार्चिः सप्तजिह्वः सप्तधाः सप्तवाहनः । अमूर्तिरनघो।चिन्त्यो भयकृद्बयनाशनः ।।८९।।

अणुबृहत्कृश स्थूलो गुणभृन्निर्गुणो महान् । अधृतः स्वधृतः स्वास्यः प्राग्वंशो वंशवर्धनः ।।९०।।

भारभृत कथितो योगी योगीशः सर्वकामदः । आश्रमः श्रमणः क्षामः सुपर्णो वायुवाहनः ।।९१।।

धनिर्धरो धनुर्वेदो दण्डो दमयिता दमः । अपराजितः सर्वसहो नियन्ता नियमो यमः ।।९२।।

सत्त्ववान् सात्विकः सत्यः सत्यधर्मपरायणः । अभिप्रायः प्रियार्हो।हः प्रियकृत प्रीतिवर्धनः ।।९३।।

विहायसगतिर्ज्योतिः सुरुचिर्हुतभुग्विमुः । रविर्विरोचनः सूर्यः सविता रविलोचनः ।।९४।।

अनन्तो हुतभुग्भोक्ता सुखदो नैकदो।ग्रजः । अनिर्विण्णः सदामर्षा लोकाधिषाटानमदभुतः ।।९५।।

सनातसनातनतमः कपिलः कपिरव्ययः । स्वस्तिदः स्वस्तिकृतस्वस्तिस्वतिभुक्स्वस्तिदक्षिणः ।।९६।।

अरौद्रः कुण्डली चक्री विक्रम्यूर्जितशासनः । शब्दातिगः शब्दसहः शिशिरः शर्वशीकरः ।।९७।।

अक्रूरः पेशलो दक्षो दक्षिणः क्षमिणांवरः । विद्वत्तमो वीतभयः पुण्यश्रवणकीर्तनः ।।९८।।

उत्तारणो दुष्कृतिहा पुण्यो दुःस्वप्ननाशनः । वीरहा रक्षणः सन्तो जीवन पर्यवस्थितः ।।९९।।

अनन्तरुपो।नन्तश्रीर्जितमन्युर्भयापहः । चतुरस्त्रो गभीरात्मा विदिशो व्यादिशो दिशः ।।१००।।

अनादिर्भूर्भुवोलक्ष्मीः सुवीरो रुचिराङ्गदः । जननो जनजन्मादिर्भीमो भीमपराक्रमः ।।१०१।।

आधारनिलयोधाता पुष्पहासः प्रजागरः । उर्ध्वगः सत्पथाचारः प्राणदः प्रणवः पणः ।।१०२।।

प्रमाणं प्राणनिलयः प्राणभृत् प्राणजीवनः । तत्त्वं तत्त्वविदेकात्मा जन्ममृत्युजरातिगः ।।१०३।।

भूर्भुवःस्वस्तरुस्तारः सपिता प्रपितामहः । यज्ञौ यज्ञापतिर्यज्वा यज्ञाङ्गो यज्ञावाहनः ।।१०४।।

यज्ञाभूद्यकृद्यज्ञी यज्ञाभुग्यज्ञासधनः । यज्ञान्तकृद्यज्ञागुह्यमन्नमन्नाद एव च ।।१०५।।

आत्मयोनिः स्वयंजातो वैखानः सामगायनः । देवकीनन्दनः स्तष्टा क्षितीशः पापनाशनः ।।१०६।।

शङ्खतृन्नन्दकी चक्री शार्ङ्गधन्वा गदाधरः । रथाङ्गपाणिरक्षोभ्यः सर्वप्रहरणायुधः ।।१०७।।

।। सर्वप्रहरणायुध नमः इति ।।

इतीदं कीर्तनीयस्य केशवस्य महात्मनः । नाम्नां सहस्रं दिव्यानामशेषेण प्रकीर्तितम् ।।१।।

य इदं श्रृणुयान्नित्यं यश्चापि परिकीर्तयेत् । नाशुभं प्राप्नुयात् किंचित्सो।मुत्रेह च मानवः ।।२।।

वेदान्तगो ब्राह्मणः स्यात्क्षत्रियो विजयी भवेत् । वैश्यो धनसमृद्धः स्याच्छूद्रः सुखमवाप्नुयात् ।।३।।

धर्मार्थी प्राप्नुयाद्धर्ममर्थार्थी चार्थमाप्नुयात् । कामानवाप्नुयात्कामी प्रजार्थी प्राप्नुयात्प्रजाम् ।।४।।

भक्तिमान्यः सदोत्थाय शुचिस्तग्दतमानसः । सहस्रं वासुदेवस्य नाम्नामेतत्प्रकीर्येत् ।।५।।

यशः प्राप्नोति विपुलं ज्ञातिप्राधान्यमेव च । अचलां श्रियमाप्नोति श्रेयुपाप्नोत्यनुत्तमम् ।।६।।

न भयं क्वचिदाप्नोति वीर्यं तेजश्च विन्दति । भवत्यरोगो द्युतिमान्बलरुपगुणान्वितः ।।७।।

मुच्येत रोगाद्रोगार्तो बद्धो मुच्येत बन्धनात् । भयान्मुच्येत भीतस्तु मुच्येतापन्न आपदः ।।८।।

दुर्गाण्यतितरत्याशु पुरुषः पुरुषोत्तमम् । स्तुवन्नामसहस्रेण नित्यं भक्तिसमन्वितः ।।९।।

वासुदेवाश्रयो मर्त्यो वासुदेवपरायणः । सर्वपापविशुद्धात्मा याति ब्रह्म सनातनम् ।।१०।।

न वासुदेवभक्तानामशुभं विद्यते क्वचित् । जन्ममृत्युजराव्याधिभयं नैवोपदायते ।।११।।

इदं स्तवमधीयानः श्रद्धाभक्तिसमन्वितः । युज्येतात्मा सुखक्षान्तिश्रीधृतिस्मृतिकीर्तिभिः ।।१२।

न क्रोधो न च मात्सर्यं न लोभो नाशुभा मतिः । भक्तानां कृतपुण्यानां प्रभवेत्पुरुषोत्तमे ।।१३।।

द्यौः सचन्द्रार्कनक्षत्रा खं दिशो भूर्महोदधिः । वासुदेवस्य वीर्येण विद्युतानि महात्मनः ।।१४।।

ससुरासुरगन्धर्वं सयक्षोरगराक्षसम् । जगद्वशे।वर्ततेदं कृष्णस्य सचराचरम् ।।१५।।

इन्द्रियाणि मनो बुद्धिः सत्त्वं तेजो बलं धृतिः । वासुदेवात्मकान्याहुः क्षेत्रं क्षेत्रज्ञा एव च ।।१६।।

सर्वागमानामाचारः प्रथमं परिकल्पते । आचारप्रभवो धर्मो धर्मस्य प्रभुरच्युतः ।।१७।।

ऋषयः पितरो देवा महाभूतानि धातवः । जङ्गमाजङ्गमं चेदं जगन्नारायणोद्बवम् ।।१८।।

योगो ज्ञानं तथा साङ्खयं विद्याः शिल्पादिकर्म च । वेदाः शास्त्राणि विज्ञानमेतत्सर्वं जनार्दनात् ।।१९।।

एको विष्णुर्महद्बूतं पृथग्भूतान्यनेकशः । त्रीन् लोकान् व्याप्य भूतात्मा भुंक्ते विश्वभुगव्ययः।

इमं स्तवं भगवतो विष्णोर्व्यासेन कीर्तितमे । पठेद्य इच्छेत्पुरुषः श्रेयः प्राप्तुं सुखानि च ।।२१।।

विशअवेश्वरमजं जगतः प्रभवाप्ययम् । भजन्ति ये पुष्कराक्षं न ते यान्ति पराभवम् ।।२२।।

पद्मपत्रविशालाक्ष ! पद्मनाभ ! सुरोत्तम ! । भक्तानामनुरक्तानां त्राता भव जनार्दन ! ।।२३।।

यो मां नामसहस्रेण स्तोतुमिच्छति पाण्डव । तेन चैकेन श्लोकेन स्तुत एव न संशयः ।।२४।।

नमो।स्तवनन्ताय सहस्रमूर्तये सहस्रपादाक्षिशिरोरुबाहवे । सहस्रनामने पुरुषाय शाश्वते सहस्रकोटीयुगधारिणे नमः ।।२५।।

नमः कमलनाभाय नमस्ते जलशायिने । नमस्ते केशवानन्त ! वासुदेव ! नमोस्तुते ।।२६।।

वासनाद्वासुदेवस्य वासितं भुवनत्रयम् । सर्वभूतनिवासो।सि वासुदेव ! नमोस्तु ते ।।२७।।

नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च । जगद्धिताय कृष्णाय गोविन्दाय नमो नमः ।।२८।।

आकाशात्पतितं तोयं यथा गच्छति सागरम् । सर्वदेवनमस्कारः केशवं प्रति गच्छति ।।२९।।

एष निष्कण्टकः पन्था यत्र सम्पूज्यते हरिः । कुपथं तं विजानियाग्दोविन्दहितागमम् ।।३०।।

सर्वदेवेषु यत्पुण्यं सर्वतीर्थेषु यत्फलम् । तत्फलं समवाप्नोति स्तुत्वा देवं जनार्दनम् ।।३१।।

यो नरः पठते नित्यं त्रिकालं केशवालयं । द्विकालमेककालं वा क्रूरं सर्वं व्यपोहति ।।३२।।

दह्यन्ते रिपवस्तस्य सौम्याः सर्वे सदा ग्रहाः । विलीयन्ते च पापानि स्तवे ह्यस्मिन् प्रकीर्तिते । येन ध्यातः श्रुतो येन येनायं पठयते स्तवः ।।३३।।

दत्तानि सर्वदानानि सुराः सर्वे समर्चिताः । इह लोके परे वापि न भयं विद्यते क्वचित् ।।३४।।

नाम्नां सहस्रं यो।धीये द्वादश्यां मम सन्निधौ । शनैर्दहति पापानि कल्पकोटिशतानि च ।।३५।।

अश्वतेशसन्निधौ पार्थ ! तुलसीसन्निधौ तथा । पठेन्नामसहस्रं तु गवां कोटिफलं लभेत् ।।३६।।

शिवालये पठेन्नित्यं तुलसीवनसंस्थितः । नरो मुक्तिमवाप्नोति चक्रपाणेर्वचो यथा । ब्रह्महत्यादिकं घोरं सर्वपापं विनश्यति ।।३७।।

इति श्रीविष्णोर्दिव्यसहस्रनामस्तोत्रं सम्पूर्णं ।।