अष्टचत्वारिंशो।ध्यायः

श्रीशुक उवाच

अथ विज्ञाय भगवान् सर्वात्मा सर्वदर्शनः । सैरन्घ्रयाः कामतप्तायाः प्रियमिच्छन् गृहं ययौ ।।१।।

महार्होपस्करैराढयं कामोपायोपबृंहितम् । मुक्तादामपताकाभिर्वितानशयनासनैः । धूपैः सुरभिभिर्दीपैः स्रग्गन्धैरपि मण्डितम् ।।२।।

गृहं तमायान्तमवेक्ष्य सा।।सनात् सद्यः समुत्थाय हि जातसम्भ्रमा । यथोपसङ्गम्य सखीभिरच्युतं सभाजयामास सदासनादिभिः ।।३।।

तथोद्धवः साधु तयाभिपूजितो न्यषीददुर्व्यामभिमृश्य चासनम् । कृष्णो।पि तूर्णं शयनं महाधनं विवेश लोकाचरितान्यनुव्रतः ।।४।।

सा मज्जनालेपदुकूलभूषणस्रग्गन्धताम्बूलसुधासवादिभिः । प्रसाधितात्मोपससार माधवं सव्रीडलीलोत्स्मितविभ्रमेक्षितैः ।।५।।

आहूय कान्तां नवसङ्गमह्रिया विशङ्कितां कङ्कणभूषिते करे । प्रगृह्य शय्यामधिवेश्य रामया रेमे।नुलेपार्पणपुण्यलेशया ।।६।।

सानङ्गतप्तकुचयोरुरसस्तथाक्ष्णोर्जिघ्रन्त्यनन्तचरणेन रुजो मृजन्ती । दोर्भ्यां स्तनान्तरगतं परिरभ्य कान्तमानन्दमूर्तिमजहादतिदीर्घतापम् ।।७।।

सैवं कैवल्यनाथं तं प्राप्य दुष्प्रापमीश्वरम् । अङ्गरागार्पणेनाहो दुर्भगेदमयाचत ।।८।।

आहोष्यतामिह प्रेष्ठ दिनानि कतिचिन्मया । रमस्व नोत्सहे त्यक्तुं सङ्गं ते।म्बुरुहेक्षण ।।९।।

तस्यै कामवरं दत्त्वा मानयित्वा च मानदः । सहोद्धवेन सर्वेशः स्वधामागमदर्चितम् ।।१०।।

दुराराध्यं समाराध्य विष्णुं सर्वेश्वरेश्वरम् । यो वृणीते मनोग्राह्यमसत्त्वात् कुमनीष्यसौ ।।११।।

अक्रूरभवनं कृष्णः सहरामोद्धवः प्रभुः । किञ्चिच्चिकीर्षयन् प्रागादक्रूरप्रियकाम्यया ।।१२।।

स तान् नरवरश्रेष्ठानाराद् वीक्ष्य स्वबान्धवान् । प्रत्युत्थाय प्रमुदितः परिष्वज्याभ्यनन्दत ।।१३।।

ननाम कृष्णं रामं च स तैरप्यभिवादितः । पूजयामास विधिवत् कृतासनपरिग्रहान् ।।१४।।

पादावनेजनीरापो धारयञ्छिरसा नृप । अर्हणेनाम्बरैर्दिव्यैर्गन्धस्रग्भूषणोत्तमैः ।।१५।।

अर्चित्वा शिरसा।।नम्य पादावङ्कगतौ मृजन् । प्रश्रयावनतो।क्रूरः कृष्णरामावभाषत ।।१६।।

दिष्टया पापो हतः कंसः सानुगो वामिदं कुलम् । भवद्भ्यामुद्धृतं कृच्छ्राद् दुरन्ताच्च समेधितम् ।।१७ ।।

युवां प्रधानपुरुषौ जगद्धेतू जगन्मयौ । भवद्भ्यां न विना किञ्चित् परमस्ति न चापरम् ।।१८।।

आत्मसृष्टमिदं विश्वमन्वाविश्य स्वशक्तिभिः । ईयते बहुधा ब्रह्मन् श्रुतप्रत्यक्षगोचरम् ।।१९।।

यथा हि भूतेषु चराचरेषु मह्यादयो योनिषु भान्ति नाना । एवं भवान् केवल आत्मयोनिष्वात्मा।।त्मतन्त्रो बहुधा विभाति ।।२०।।

सृजस्यथो लुम्पसि पासि विश्वं रजस्तमःसत्त्वगुणैः स्वशक्तिभिः । न बध्यसे तग्दुणकर्मभिर्वा ज्ञानात्मनस्ते क्व च बन्धहेतुः ।।२१।।

देहाद्युपाधेरनिरूपितत्वाद् भवो न साक्षान्न भिदा।।त्मनः स्यात् । अतो न बन्धस्तव नैव मोक्षः स्यातां निकामस्त्वयि नो।विवेकः ।।२२।।

त्वयोदितो।यं जगतो हिताय यदा यदा वेदपथः पुराणः । बाध्येत पाखण्डपथैरसद्बिस्तदा भवान् सत्त्वगुणं बिभर्ति ।।२३।।

स त्वं प्रभो।द्य वसुदेवगृहे।वतीर्णः स्वांशेन भारमपनेतुमिहासि भूमेः । अक्षौहिणीशतवधेन सुरेतरांशराज्ञाममुष्य च कुलस्य यशो वितन्वन् ।।२४।।

अद्येश नो वसतयः खलु भूरिभागा यः सर्वदेवपितृभूतनृदेवमूर्तिः । यत्पादशौचसलिलं त्रिजगत् पुनाति स त्वं जगग्दुरुरधोक्षज याः प्रविष्टः ।।२५।।

कः पण्डितस्त्वदपरं शरणं समीयाद् भक्तप्रियादृतगिरः सुहृदः कृतज्ञात् । सर्वान् ददाति सुहृदो भजतो।भिकामानात्मानमप्युपचयापचयौ न यस्य ।।२६।।

दिष्टया जनार्दन भवानिह नः प्रतीतो योगेश्वरैरपि दुरापगतिः सुरेशैः । छिन्ध्याशु नः सुतकलत्रधनाप्तगेहदेहादिमोहरशनां भवदीयमायाम् ।।२७।।

श्रीशुक उवाच

इत्यर्चितः संस्तुतश्च भक्तेन भगवान् हरिः । अक्रूरं सस्मितं प्राह गीर्भिः सम्मोहयन्निव ।।२८।।

श्रीभगवानुवाच

त्वं नो गुरुः पितृव्यश्च श्लाघ्यो बन्धुश्च नित्यदा । वयं तु रक्ष्याः पोष्याश्च अनुकम्प्याः प्रजा हि वः ।।२९।।

भवद्विधा महाभागा निषेव्या अर्हसत्तमाः । श्रेयस्कामैर्नृभिर्नित्यं देवाः स्वार्था न साधवः ।।३०।।

न ह्यम्मयानि तीर्थानि न देवा मृच्छिलामयाः । ते पुनन्त्युरुकालेन दर्शनादेव साधवः ।।३१।।

स भवान् सुहृदां वै नः श्रेयाञ्छ्रेयश्चिकीर्षया । जिज्ञासार्थं पाण्डवानां गच्छस्व त्वं गजाह्वयम् ।।३२।।

पितर्युपरते बालाः सह मात्रा सुदुःखिताः । आनीताः स्वपुरं राज्ञा वसन्त इति शुश्रुम ।।३३।।

तेषु राजाम्बिकापुत्रो भ्रातृपुत्रेषु दीनधीः । समो न वर्तते नूनं दुष्पुत्रवशगो।न्धदृक् ।।३४।।

गच्छ जानीहि तद्वृत्तमधुना साध्वसाधु वा । विज्ञाय तद् विधास्यामो यथा शं सुहृदां भवेत् ।।३५।।

इत्यक्रूरं समादिश्य भगवान् हरिरीश्वरः । संकर्षणोद्धवाभ्यां वै ततः स्वभवनं ययौ ।।३६।।

इति श्रीमद्बागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे अष्टचत्वारिंशो।ध्यायः ।।४८।।