श्रीशुकउवाच
तं वीक्ष्य कृष्णानुचरं व्रजस्त्रियः प्रलम्बबाहुं नवक ञ्जलोचनम् । पीताम्बरं पुष्करमालिनं लसन्मुखारविन्दं मणिमृष्टकु ण्डलम् ।।१।।
शुचिस्मिताः को।यमपीच्यदर्शनः कुतश्च कस्याच्युतवेषभूषणः । इति स्म सर्वाः परिवव्रुरुत्सुकास्तमुत्तमश्लोकपदाम्बुजाश्रयम् ।।२।।
तं प्रश्रयेणावनताः सुसत्कृतं सव्रीडहासेक्षणसूनृतादिभिः । रहस्यपृच्छन्नुपविष्टमासने विज्ञाय सन्देशहरं रमापतेः ।।३।।
जानीमस्त्वां यदुपतेः पार्षदं समुपागतम् । भर्त्रेह प्रेषितः पित्रोर्भवान् प्रियचिकीर्षया ।।४।।
अन्यथा गोव्रजे तस्य स्मरणीयं न चक्ष्महे । स्नेहानुबन्धो बन्धूनां मुनेरपि सुदुस्त्यजः ।।५।।
अन्येष्वर्थकृता मैत्री यावदर्थविडम्बनम् । पुम्भिः स्त्रीषु कृता यद्वत् सुमनस्स्विव षट्पदैः ।।६।।
निस्स्वं त्यजन्ति गणिका अकल्पं नृपतिं प्रजाः । अधीतविद्या आचार्यमृत्विजो दत्तदक्षिणम् ।।७।।
खगा वीतफलं वृक्षं भुक्त्वा चातिथयो गृहम् । दग्धं मृगास्तथारण्यं जारो भुक्त्वा रतां स्त्रियम् ।।८।।
इति गोप्यो हि गोविन्दे गतवाक्कायमानसाः । कृष्णदूते व्रजं याते उद्धवे त्यक्तलौकिकाः ।।९।।
गायन्त्यः प्रियकर्माणि रुदत्यश्च गतह्रियः । तस्य संस्मृत्य संस्मृत्य यानि कैशोरबाल्ययोः ।।१०।।
काचिन्मधुकरं दृा ध्यायन्ती कृष्णसङ्गमम् । प्रियप्रस्थापितं दूतं कल्पयित्वेदमब्रवीत् ।।११।।
गोप्युवाच
मधुप कितवबन्धो मा स्पृशाङ् घ्रिं सपत्न्याः । कुचविलुलितमालाकुङ्कुमश्मश्रुभिर्नः । वहतु मधुपतिस्तन्मानिनीनां प्रसादं यदुसदसि विडम्ब्यं यस्य दूतस्त्वमीदृक् ।।१२।।
सकृदधरसुधां स्वां मोहिनीं पाययित्वा सुमनस इव सद्यस्तत्यजे।स्मान् भवादृक् । परिचरति कथं तत्पादपद्मं तु पद्मा ह्यपि बत हृतचेता उत्तमश्लोकजल्पैः ।।१३।।
किमिह बहु षडङ् घ्रे गायसि त्वं यदूनामधिपतिमगृहाणामग्रतो नः पुराणम् । विजयसखसखीनां गीयतां तत्प्रसङ्गः क्षपितकुचरुजस्ते कल्पयन्तीष्टमिष्टाः ।।१४।।
दिवि भुवि च रसायां काः स्त्रियस्तद्दुरापाः कपटरुचिरहासभ्रूविजृम्भस्य याः स्युः । चरणरज उपास्ते यस्य भूतिर्वयं का अपि च कृपणपक्षे ह्युत्तमश्लोकशब्दः ।।१५।।
विसृज शिरसि पादं वेद्म्यहं चाटुकारैरनुनयविदुषस्ते।भ्येत्य दौत्यैर्मुकुन्दात् । स्वकृत इह विसृष्टापत्यपत्यन्यलोका व्यसृजदकृतचेताः किं नु सन्धेयमस्मिन् ।।१६।।
मृग्युरिव कपीन्द्रं विव्यधे लुब्धधर्मा स्त्रियमकृत विरूपां स्त्रीजितः कामयानाम् । बलिमपि बलिमत्त्वावेष्टयद् ध्वावद् यस्तदलमसितसख्यैर्दुस्त्यजस्तत्कथार्थः ।।१७।।
यदनुचरितलीलाकर्णपीयूषविप्रुट्सकृददनविधूतद्वन्द्वधर्मा विनष्टाः । सपदि गृहकुटुम्बं दीनमुत्सृज्य दीना बहव इह विहङ्गा भिक्षुचर्यां चरन्ति ।।१८।।
वयमृतमिव जिह्मव्याहृतं श्रद्दधानाः कुलिकरुतमिवाज्ञाः कृष्णवध्वो हरिण्यः । ददृशुरसकृदेतत्तन्नखस्पर्शतीव्रस्मररुज उपमन्त्रिन् भण्यतामन्यवार्ता ।।१९।।
प्रियसख पुनरागाः प्रेयसा प्रेषितः किं वरय किमनुरुन्धे माननीयो।सि मे।ङ्ग । नयसि कथमिहास्मान् दुस्त्यजद्वन्द्वपार्श्वं सततमुरसि सौम्य श्रीर्वधूः साकमास्ते ।।२०।।
अपि बत मधुपुर्यामार्यपुत्रो।धुना।।स्ते स्मरति स पितृगेहान् सौम्य बन्धूंश्च गोपान् । क्व चिदपि स कथा नः किङ्करीणां गृणीते भुजमगुरुसुगन्धं मूर्ध्न्यधास्यत् कदा नु ।।२१।।
श्रीशुक उवाच
अथोद्धवो निशम्यैवं कृष्णदर्शनलालसाः । सान्त्वयन् प्रियसन्देशैर्गोपीरिदमभाषत ।।२२।।
उद्धव उवाच
अहो यूयं स्म पूर्णार्था भवत्यो लोकपूजिताः । वासुदेवे भगवति यासामित्यर्पितं मनः ।।२३।।
दानव्रततपोहोमजपस्वाध्यायसंयमैः । श्रेयोभिर्विविधैश्चान्यैः कृष्णे भक्तिर्हि साध्यते ।।२४।।
भगवत्युत्तमश्लोके भवतीभिरनुत्तमा । भक्तिः प्रवर्तिता दिष्टया मुनिनामपि दुर्लभा ।।२५।।
दिष्टया पुत्रान् पतीन् देहान् स्वजनान् भवनानि च । हित्वा वृणीत यूयं यत् कृष्णाख्यं पुरुषं परम्
सर्वात्मभावो।धिकृतो भवतीनामधोक्षजे । विरहेण महाभागा महान् मे।नुग्रहः कृतः ।।२७।।
श्रूयतां प्रियसन्देशो भवतीनां सुखावहः । यमादायागतो भद्रा अहं भर्तू रहस्करः ।।२८।।
श्रीभगवानुवाच
भवतीनां वियोगो मे न हि सर्वात्मना क्व चित् । यथा भूतानि भूतेषु खं वाय्वग्निर्जलं मही । तथाहं च मनःप्राणभूतेन्द्रियगुणाश्रयः ।।२९।।
आत्मन्येवात्मना।।त्मानं सृजे हन्म्यनुपालये । आत्ममायानुभावेन भूतेन्द्रियगुणात्मना ।।३०।।
आत्मा ज्ञानमयः शुद्धो व्यतिरिक्तो।गुणान्वयः । सुषुप्तिस्वप्नजाग्रद्बिर्मायावृत्तिभिरीयते ।।३१।।
येनेन्द्रियार्थान् ध्यायेत मृषा स्वप्नवदुत्थितः । तन्निरुन्ध्यादिन्द्रियाणि विनिद्रः प्रत्यपद्यत ।।३२।।
एतदन्तः समाम्नायो योगः सांख्यं मनीषिणाम् । त्यागस्तपो दमः सत्यं समुद्रान्ता इवापगाः।।३३।।
यत्त्वहं भवतीनां वै दूरे वर्ते प्रियो दृशाम् । मनसः सन्निकर्षार्थं मदनुध्यानकाम्यया ।।३४।।
यथा दूरचरे प्रेष्ठे मन आविश्य वर्तते । स्त्रीणां च न तथा चेतः सन्निकृष्टे।क्षिगोचरे ।।३५।।
मय्यावेश्य मनः कृत्स्न्ं विमुक्ताशेषवृत्ति यत् । अनुस्मरन्त्यो मां नित्यमचिरान्मामुपैष्यथ ।।३७।।
या मया क्रीडता रात्र्यां वने।स्मिन् व्रज आस्थिताः । अलब्धरासाः कल्याण्यो मा।।पुर्मद्वीर्यचिन्तया
श्रीशुक उवाच
एवं प्रियतमादिष्टमाकर्ण्य व्रजयोषितः । ता ऊचुरुद्धवं प्रीतास्तत्सन्देशागतस्मृतीः ।।३८।।
गोप्यः ऊचुः
दिष्टयाहितो हतः कंसो यदूनां सानुगो।घकृत् । दिष्टया।।प्तैर्लब्धसर्वार्थैः कुशल्यास्ते।च्युतो।धुना ।।३९।।
कच्चिद् गदाग्रजः सौम्य करोति पुरयोषिताम् । प्रीतिं नः स्न्ग्धिसव्रीडहासोदारेक्षणार्चितः ।।४०।।
कथं रतिविशेषज्ञाः प्रियश्च वरयोषिताम् । नानुबध्येत तद्वाक्यैर्विभ्रमैश्चानुभाजितः ।।४१।।
अपि स्मरति नः साधो गोविन्दः प्रस्तुते क्व चित् । गोष्ठीमध्ये पुरस्त्रीणां ग्राम्याः ।।४२।।
स्वैरकथान्तरे
ताः किं निशाः स्मरति यासु तदा प्रियाभिर्वृन्दावने कुमुदकुन्दशशाङ्करम्ये । रेमे क्व णच्चरणनूपुररासगोष्ठयामस्माभिरीडितमनोज्ञाकथः कदाचित् ।।४३।।
अप्येष्यतीह दाशार्हस्तप्ताः स्वकृतया शुचा । सञ्जीवयन् नु नो गात्रैर्यथेन्द्रो वनमम्बुदैः ।।४४।।
कस्मात् कृष्ण इहायाति प्राप्तराज्यो हताहितः । नरेन्द्रकन्या उद्वाह्य प्रीतः सर्वसुहृद्वृतः ।।४५।।
किमस्माभिर्वनौकोभिरन्याभिर्वा महात्मनः । श्रीपतेराप्तकामस्य क्रियेतार्थः कृतात्मनः ।।४६।।
परं सौख्यं हि नैराश्यं स्वैरिण्यप्याहपिङ्गला । तज्जानतीनां नः कृष्णे तथाप्याशा दुरत्यया ।।४७।।
क उत्सहेत सन्त्यक्तुमुत्तमश्लोकसंविदम् । अनिच्छतो।पि यस्य श्रीरङ्गान्नच्यवते क्व चित् ।।४८।।
सरिच्छैलवनोद्देशा गावो वेणुरवा इमे । सङ्कर्षणसहायेन कृष्णेनाचरिताः प्रभो ।।४९।।
पुनः पुनः स्मारयन्ति नन्दगोपसुतं बत । श्रीनिकेतैस्तत्पदकैर्विस्मर्तुं नेव शक्नुमः ।।५०।।
गत्या ललितयोदारहासलीलावलोकनैः । माध्व्या गिरा हृतधियः कथं तं विस्मरामहे ।।५१।।
हे नाथ हे रमानाथ व्रजनाथार्तिनाशन । मग्नमुद्धर गोविन्द गोकुलं वृजिनार्णवात् ।।५२।।
श्रीशुक उवाच
ततस्ताः कृष्णसन्देशैर्व्यपेतविरहज्वराः । उद्धवं पूजयाञ्चक्रुर्ज्ञात्वा।।त्मानमधोक्षजम् ।।५३।।
उवास कतिचिन्मासान् गोपीनां विनुदञ्छुचः । कृष्णलीलाकथां गायन् रमयामास गोकुलम् ।।५४।।
यावन्त्यहानि नन्दस्य व्रजे।वात्सीत् स उद्धवः । व्रजौकसां क्षणप्रायाण्यासन् कृष्णस्य वार्तया ।।५५।।
सरिद्वनगिरिद्रोणीर्वीक्षन् कुसुमितान् द्रुमान् । कृष्णं संस्मारयन् रेमे हरिदासो व्रजौकसाम् ।।५६।।
दैवमादि गोपीनां कृष्णावेशात्मविक्लवम् । उद्धवः परमप्रीतस्ता नमस्यन्निदं जगौ ।।५७।।
एताः परं तनुभृतो भुवि गोपवध्वो गोविन्द एव निखिलात्मनि रूढभावाः । वाञ्छन्ति यद् भवभियो मुनयो वयं च किं ब्रह्मजन्मभिरनन्तकथारसस्य।।५८।।
क्वे माः स्त्रियो वनचरीर्व्यभिचारदुष्टाः कृष्णे क्व चैष परमात्मनि रूढभावः । नन्वीश्वरो।नुभजतो।विदुषो।पि साक्षाच्छ्रेयस्तनोत्यगदराज इवोपयुक्तः ।।५९।।
नायं श्रियो।ङ्ग उ नितान्तरतेः प्रसादः स्वर्योषितां नलिनगन्धरुचां कुतो।न्याः । रासोत्सवे।स्य भुजदण्डगृहीतकण्ठलब्धाशिषां य उदगाद् व्रजवल्लवीनाम् ।।६०।।
आसामहो चरणरेणुजुषामहं स्यां वृन्दावने किमपि गुल्मलतौषधीनाम् । या दुस्त्यजं स्वजनमार्यपथं च हित्वा भेजुर्मुकुन्दपदवीं श्रुतिभिर्विमृग्याम् ।।६१।।
या वै श्रियार्चितमजादिभिराप्तकामैर्योगेश्वरैरपि यदात्मनि रासगोष्ठयाम् । कृष्णस्य तद् भगवतश्चरणारविन्दं न्यस्तं स्तनेषु विजहुः परिरम्भ तापम् ।।६२।।
वन्दे नन्दव्रजस्त्रीणां पादरेणुमभीक्ष्णशः । यासां हरिकथोग्दीतं पुनाति भुवनत्रयम् ।।६३।।
श्रीशुक उवाच
अथ गोपीरनुज्ञाप्य यशोदां नन्दमेव च । गोपानामन्त्र्य दाशार्हो यास्यन्नारुरुहे रथम् ।।६४।।
तं निर्गतं समासाद्य नानोपायनपाणयः । नन्दादयो।नुरागेण प्रावोचन्नश्रुलोचनाः ।।६५।।
मनसो वृत्तयो नः स्युः कृष्णपादाम्बुजाश्रयाः । वाचो।भिधायिनीर्नाम्नां कायस्तत्प्रह्वणादिषु ।।६६।।
कर्मभिर्भ्राम्यमाणानां यत्र क्व पीश्वरेच्छया । मङ्गलाचरितैर्दानै रतिर्नः कृष्ण ईश्वरे ।।६७।।
एवं सभाजितो गोपैः कृष्ण भक्त्या नराधिप । उद्धवः पुनरागच्छन्मथुरां कृष्णपालिताम् ।।६८।।
कृष्णाय प्रणिपत्याह भक्त्युद्रेकं व्रजौकसाम् । वसुदेवाय रामाय राज्ञो चोपायनान्यदात् ।।६९।।
इति श्रीमद्बागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे उद्धवप्रतियाने सप्तचत्वारिंशो।ध्यायः ।।४।।