श्रीशुकउवाच
स गत्वा हास्तिनपुरं पौरवेन्द्रयशो।ङ्कितम् । ददर्श तत्रांबिकेयं सभीष्मं विदुरं पृथाम् ।।१।।
सहपुत्रं च बाह्लीकं भारद्वाजं सगौतमम् । कर्णं सुयोधनं द्रौणिं पाण्डवान् सुहृदो।परान् ।।२।।
यथावदुपसङ्गम्य बन्धुभिर्गान्दिनीसुतः । सम्पृष्टस्तैः सुहृद्वार्तां स्वयं चापृच्छदव्ययम् ।।३।।
उवास कतिचिन्मासान् राज्ञो वृत्तविवित्सया । दुष्प्रजस्याल्पसारस्य खलच्छन्दानुवर्तिनः ।।४।।
तेज ओजो बलं वीर्यं प्रश्रयादींश्च सग्दुणान् । प्रजानुरागं पार्थेषु न सहद्बिश्चिकीर्षितम् ।।५।।
कृतं च धार्तराष्ट्रैर्यद् गरदानाद्यपेशलम् । आचख्यौ सर्वमेवास्मै पृथा विदुर एव च ।।६।।
पृथा तु भ्रातरं प्राप्तमक्रूरमुपसृत्य तम् । उवाच जन्मनिलयं स्मरन्त्यश्रुकलेक्षणा ।।७।।
अपि स्मरन्ति नः सौम्य पितरौ भ्रातरश्च मे । भगिन्यो भ्रातृपुत्राश्च जामयः सख्य एव च ।।८।।
भ्रात्रेयो भगवान् कृष्णः शरण्यो भक्तवत्सलः । पैतृष्वसेयान् स्मरति रामश्चाम्बुरुहेक्षणः ।।९।।
सापत्नमध्ये शोचन्तीं वृकाणां हरिणीमिव । सान्त्वयिष्यति मां वाक्यैः पितृहीनांश्च बालकान् ।।१०।।
कृष्ण कृष्ण महायोगिन् विश्वात्मन् विश्वभावन । प्रपन्नां पाहि गोविन्द शिशुभिश्वावसीदतीम् ।।११।।
नान्यत्तव पदाम्भोजात् पश्यामि शरणं नृणाम् । बिभ्यतां मृत्युसंसारादीश्वरस्यापवर्गिकात् ।।१२।।
नमः कृष्णाय शुद्धाय ब्रह्मणे परमात्मने । योगेश्वराय योगाय त्वामहं शरणं गता ।।१३।।
श्रीशुक उवाच
इत्यनुस्मृत्य स्वजनं कृष्णं च जगदीश्वरम् । प्रारुदद् दुःखिता राजन् भवतां प्रपितामही ।।१४।।
समदुःखसुखो।क्रूरो विदुरश्च महायशाः । सान्त्वयामासतुः कुन्तीं तत्पुत्रोत्पत्तिहेतुभिः ।।१५।।
यास्यन् राजानमभ्येत्य विषमं पुत्रलालसम् । अवदत् सुहृदां मध्ये बन्धुभिः सौहृदोदितम् ।।१६।।
अक्रूर उवाच
भो भो वैचित्रवीर्य त्वं कुरूणां कीर्तिवर्धन । भ्रातर्युपरते पाण्डावधुना।।सनमास्थितः ।।१७।।
धर्मेण पालयन्नुर्वीं प्रजाः शीलेन रञ्जयन् । वर्तमानः समः स्वेषु श्रेयः कीर्तिमवाप्स्यसि ।।१८।।
अन्यथा त्वाचरँल्लोके गर्हितो यास्यसे तमः । तस्मात् समत्वे वर्तस्व पाण्डवेष्वात्मजेषु च ।।१९।।
नेह चात्यन्तसंवासः कर्हिचित् केनचित् सह । राजन् स्वेनापि देहेन किमु जायात्मजादिभिः ।।२०।।
एकः प्रसूयते जन्तुरेक एव प्रलीयते । एको।नुभुङ्क्ते सुकृतमेक एव च दुष्कृतम् ।।२१।।
अधर्मोपचितं वित्तं हरन्त्यन्ये।ल्पमेधसः । सम्भोजनीयापदेशैर्जलानीव जलौकसः ।।२२।।
पुष्णाति यानधर्मेण स्वबुद्धया तमपण्डितम् । ते।कृतार्थं प्रहिण्वन्ति प्राणा रायः सुतादयः ।।२३।।
स्वयं किल्बिषमादाय तैस्त्यक्तो नार्थकोविदः । असिद्धार्थो विशत्यन्धं स्वधर्मविमुखस्तमः ।।२४।।
तस्माल्लोकमिमं राजन् स्वप्नमायामनोरथम् । वीक्ष्यायम्यात्मना।।त्मानं समः शान्तो भव प्रभो ।।२५।।
धृतराष्ट्र उवाच
यथा वदति कल्याणीं वाचं दानपते भवान् । तथानया न तृप्यामि मर्त्यः प्राप्य यथामृतम् ।।२६।।
तथापि सूनृता सौम्य हृदि न स्थीयते चले । पुत्रानुरागविषमे विद्युत् सौदामनी यथा ।।२७।।
ईश्वरस्य विधिं को नु विधुनोत्यन्यथा पुमान् । भूमेर्भारावताराय यो।वतीर्णो यदोः कुले ।।२८।।
यो दुर्विमर्शपथया निजमाययेदं सृा गुणान् विभजते तदनुप्रविष्टः । तस्मै नमो दुरवबोधविहारतन्त्रसंसारचक्रगतये परमेश्वराय ।।२९।।
श्रीशुक उवाच
इत्यभिप्रेत्य नृपतेरभिप्रायं स यादवः । सुहृद्बिः समनुज्ञातः पुनर्यदुपुरीमगात् ।।३०।।
शशंस रामकृष्णाभ्यां धृतराष्ट्रविचेष्टितम् । पाण्डवान् प्रति कौरव्य यदर्थं प्रेषितः स्वयम् ।।३१।।
इति श्रीमद्बागवते महापुराणे वैयासिक्यामष्टादशसाहस्रयां पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे एकोनपञ्चाशत्तमो।ध्यायः ।।४९।।