श्रीशुकउवाच
सुखोपविष्टः पर्यङ्के रामकृष्णोरुमानितः । लेभे मनोरथान् सर्वान् पथि यान् स चकार ह ।।१।।
किमलभ्यं भगवति प्रसन्ने श्रीनिकेतने । तथापि तत्परा राजन्न हि वाञ्छन्ति किञ्चन ।।२।।
सायंतनाशनं कृत्वा भगवान् देवकीसुतः । सुहृत्सु वृत्तं कंसस्य पप्रच्छान्यच्चिकीर्षितम् ।।३।।
श्रीभगवानुवाच
तात सौम्यागतः कच्चित् स्वागतं भद्रमस्तु वः । अपि स्वज्ञातिबन्धुनामनमीवमनामयम् ।।४।।
किं नु नः कुशलं पृच्छे एधमाने कुलामये । कंसे मातुलनाम्न्यङ्ग स्वानां नस्तत्प्रजासु च ।।५।।
अहो अस्मदभूद् भूरि पित्रोर्वृजिनमार्ययोः । यद्धेतोः पुत्रमरणं यद्धेतोर्बन्धनं तयोः ।।६।।
दिष्टयाद्य दर्शनं स्वानां मह्यं वः सौम्य कांक्षितम् । सञ्जातं वर्ण्यतां तात तवागमनकारणम् ।।७।।
श्रीशुक उवाच
पृष्टो भगवता सर्वं वर्णयामास माधवः । वैरानुबन्धं यदुषु वसुदेववधोद्यमम् ।।८।।
यत्संदेशो यदर्थं वा दूतः संप्रेषितः स्वयम् । यदुक्तं नारदेनास्य स्वजन्मानकदुन्दुभेः ।।९।।
श्रुत्वाक्रूरवचः कृष्णो बलश्च परवीरहा । प्रहस्य नन्दं पितरं राज्ञा।।दिष्टं विजज्ञातुः ।।१०।।
गोपान् समादिशत् सो।पि गृह्यतां सर्वगोरसः । उपायनानि गृीध्वं युज्यन्तां शकटानि च ।।११।।
यास्यामः श्वो मधुपुरीं दास्यामो नृपते रसान् । द्रक्ष्यामः सुमहत् पर्व यान्ति जानपदाः किल । एवमाघोषयत् क्षत्त्रा नन्दगोपः स्वगोकुले ।।१२।।
गोप्यस्तास्तदुपश्रुत्य बभूवुर्व्यथिता भृशम् । रामकृष्णौ पुरीं नेतुमक्रू रं व्रजमागतम् ।।१३।।
काश्चित्तत्कृतहृत्तापश्वासम्लानमुखश्रियः । स्रंसद्दुकूलवलयकेशग्रन्थ्यश्च काश्चन ।।१४।।
अन्याश्च तदनुध्याननिवृत्ताशेषवृत्तयः । नाभ्यजानन्निमं लोकमात्मलोकं गता इव ।।१५।।
स्मरन्त्यश्चापराः शौरेरनुरागस्मितेरिताः । हृदिस्पृशश्चित्रपदा गिरः संमुमुहुः स्त्रियः ।।१६।।
गतिं सुललितां चेष्टां स्न्ग्धिहासावलोकनम् । शोकापहानि नर्माणि प्रोद्दामचरितानि च ।।१७।।
चिन्तयन्त्यो मुकुन्दस्य भीता विरहकातराः । समेताः सङ्घशः प्रोचुरश्रुमुख्यो।च्युताशयाः ।।१८।।
गोप्य ऊचुः
अहो विधातस्तव न क्व चित् दया संयोज्य मैत्र्या प्रणयेन देहिनः । तांश्चाकृतार्थान् वियुनङ्क्ष्यपार्थकं विक्रीडितं ते।र्भकचेष्टितं यथा ।।१९।।
यस्त्वं प्रदर्श्यासितकुन्तलावृतं मुकुन्दवक्त्रं सुकपोलमुन्नसम् । शोकापनोदस्मितलेशसुन्दरं करोषि पारोक्ष्यमसाधु ते कृतम् ।।२०।।
क्रूरस्त्वमक्रूरसमाख्यया स्म नश्चक्षुर्हि दत्तं हरसे बताज्ञावत् । येनैकदेशे।खिलसर्गसौष्ठवं त्वदीयमद्राक्ष्म वयं मधुद्विषः ।।२१।।
न नन्दसूनुः क्षणभङ्गसौहृदः समीक्षते नः स्वकृतातुरा बत । विहाय गेहान् स्वजनान् सुतान् पतींस्तद्दास्यमद्धोपगता नवप्रियः ।।२२।।
सुखं प्रभाता रजनीयमाशिषः सत्या बभूवुः पुरयोषितां ध्रुवम् । याः संप्रविष्टस्य मुखं व्रजस्पतेः पास्यन्त्यपाङ्गोत्कलितस्मितासवम् ।।२३।।
तासां मुकुन्दो मधुमञ्जुभाषितैर्गृहीतचित्तः परवान् मनस्व्यपि । कथं पुनर्नः प्रतियास्यते।बला ग्राम्याः सलज्जस्मितविभ्रमैर्भ्रमन् ।।२४।।
अद्य ध्रुवं तत्र दृशो भविष्यते दाशार्हभोजान्धकवृष्णिसात्वताम् । महोत्सवः श्रीरमणं गुणास्पदं द्रक्ष्यन्ति ये चाध्वनि देवकीसुतम् ।।२५।।
मैतद्विधस्याकरुणस्य नाम भूदक्रूर इत्येदतीव दारुणः । यो।सावनाश्वास्य सुदुःखितं जनं प्रियात्प्रियं नेष्यति पारमध्वनः ।।२६।।
अनार्द्रधीरेष समास्थितो रथं तमन्वमी च त्वरयन्ति दुर्मदाः । गोपा अनोभिः स्थविरैरुपेक्षितं दैवं च नो।द्य प्रतिकूलमीहते ।।२७।।
निवारयामः समुपेत्य माधवं किं नो।करिष्यन् कुलवृद्धबान्धवाः । मुकुन्दसङ्गान्निमिषार्धदुस्त्यजाद् दैवेन विध्वंसितदीनचेतसाम् ।।२८।।
यस्यानुरागललितस्मितवल्गुमन्त्रलीलावलोकपरिरम्भणरासगोष्ठयाम् । नीताः स्म नः क्षणमिव क्षणदा विना तं गोप्यः कथं न्वतितरेम तमो दुरन्तम् ।।२९।।
यो।ह्नः क्षये व्रजमनन्तसखः परीतो गोपैर्विशन् खुररजश्छुरितालकस्रक् । वेणुं क्वणन् स्मितकटाक्षनिरीक्षणेन चित्तं क्षिणोत्यमुमृते नु कथं भवेम ।।३०।।
श्रीशुक उवाच
एवं ब्रुवाणा विरहातुरा भृशं व्रजस्त्रियः कृष्णविषक्तमानसाः । विसृज्य लज्जां रुरुदुः स्म सुस्वरं गोविन्द दामोदर माधवेति ।।३१।।
स्त्रीणामेवं रुदन्तीनामुदिते सवितर्यथ । अक्रूरश्चोदयामास कृतमैत्रादिको रथम् ।।३२।।
गोपास्तमन्वसज्जन्त नन्दाद्याः शकटैस्ततः । आदायोपायनं भूरि कुम्भान् गोरससम्भृतान् ।।३३।।
गोप्यश्च दयितं कृष्णमनुव्रज्यानुरञ्जिताः । प्रत्यादेशं भगवतः काङ्क्षन्त्यश्चावतस्थिरे ।।३४।।
तास्तथा तप्यतीर्वीक्ष्य स्वप्रस्थाने यदूत्तमः । सान्त्वयामास सप्रेमैरायास्य इति दौत्यकैः ।।३५।।
यावदालक्ष्यते केतुर्यावद् रेणू रथस्य च । अनुप्रस्थापितात्मानो लेख्यानीवोपलक्षिताः ।।३६।।
ता निराशा निववृतुर्गोविन्दविनिवर्तने । विशोका अहनी निन्युर्गायन्त्यः प्रियचेष्टितम् ।।३७।।
भगवानपि सम्प्राप्तो रामाक्रूरयुतो नृप । रथेन वायुवेगेन कालिन्दीमघनाशिनीम् ।।३८।।
तत्रोपस्पृश्य पानीयं पीत्वा मृष्टं मणिप्रभम् । वृक्षषण्डमुपव्रज्य सरामो रथमाविशत् ।।३९।।
अक्रूरस्तावुपामन्त्र्य निवेश्य च रथोपरि । कालिन्द्या हृदमागत्य स्ननं विधिवदाचरत् ।।४०।।
निमज्ज्य तस्मिन् सलिले जपन् ब्रह्म सनातनम् । तावेव ददृशे।क्रूरो रामकृष्णौ समन्वितौ ।।४१।।
तौ रथस्थौ कथमिह सुतावानकदुन्दुभेः । तर्हि स्वित् स्यन्दने न स्त इत्युन्मज्ज्य व्यचष्ट सः ।।४२।।
तत्रापि च यथापूर्वमासीनौ पुनरेव सः । न्यमज्जद् दर्शनं यन्मे मृषा किं सलिले तयोः ।।४३।।
भूयस्तत्रापि सो।द्राक्षीत् स्तूयमानमहीश्वरम् । सिद्धचारणगन्धर्वैरसुरैर्नतकन्धरैः ।।४४।।
सहस्रशिरसं देवं सहस्रफणमौलिनम् । नीलाम्बरं बिसश्वेतं शृङ्गैः श्वेतमिव स्थितम् ।।४५।।
तस्योत्सङ्गे घनश्यामं पीतकौशेयवाससम् । पुरुषं चतुर्भुजं शान्तं पद्मपत्रारुणेक्षणम् ।।४६।।
चारुप्रसन्नवदनं चारुहासनिरीक्षणम् । सुभ्रून्नसं चारुकर्णं सुकपोलारुणाधरम् ।।४७।।
प्रलम्बपीवरभुजं तुङ्गांसोरःस्थलश्रियम् । कम्बुकण्ठं निम्ननाभिं वलिमत्पल्लवोदरम् ।।४८।।
बृहत्कटितटश्रोणिकरभोरुद्वयान्वितम् । चारुजानुयुगं चारुजङ्घायुगलसंयुतम् ।।४९।।
तुङ्गगुल्फारुणनखव्रातदीधितिभिर्वृतम् । नवाङ्गुल्यङ्गुष्ठदलैर्विलसत्पादपङ्कजम् ।।५०।।
सुमहार्हमणिव्रातकिरीटकटकाङ्गदैः । कटिसूत्रब्रह्मसूत्रहारनूपुरकुण्डलैः ।।५१।।
भ्राजमानं पद्मकरं शङ्खचक्रगदाधरम् । श्रीवत्सवक्षसं भ्राजत्कौस्तुभं वनमालिनम् ।।५२।।
सुनन्दनन्दप्रमुखैः पार्षदैः सनकादिभिः । सुरेशैर्ब्रह्मरुद्राद्यैर्नवभिश्च द्विजोत्तमैः ।।५३।।
प्रह्लादनारदवसुप्रमुखैर्भागवतोत्तमैः । स्तूयमानं पृथग्भावैर्वचोभिरमलात्मभिः ।।५४।।
श्रिया पुष्टया गिरा कान्त्या कीर्त्या तुष्टयेलयोर्जया । विद्ययाविद्यया शक्त्या मायया च निषेवितम् ।।५५।।
विलोक्य सुभृशं प्रीतो भक्त्या परमया युतः । हृष्यत्तनूरुहो भावपरिक्लिन्नात्मलोचनः ।।५६।।
गिरा गग्ददया।स्तौषीत्सत्वमालंब्य सात्त्वतः । प्रणम्य मूर्ध्ना।वहितः कृताञ्जलिपुटः शनैः ।।५७।।
इति श्रीमद्बागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे अक्रूरप्रतियाने एकोनचत्वारिंशो।ध्यायः ।।३९।।