अष्टात्रिंशो।ध्यायः

श्रीशुकउवाच

अक्रूरो।पि च तां रात्रिं मधुपुर्यां महामतिः । उषित्वा रथमास्थाय प्रययौ नंदगोकुलम् ।।१।।

गच्छन् पथि महाभागो भगवत्यम्बुजेक्षणे । भक्तिं परामुपगत एवमेतदचिन्तयत् ।।२।।

किं मया।।चरितं भद्रं किं तप्तं परमं तपः । किं वाथाप्यर्हते दत्तं यद् द्रक्ष्याम्यद्य केशवम् ।।३।।

ममैतद् दुर्लभं मन्य उत्तमश्लोकदर्शनम् । विषयात्मनो यथा ब्रह्मकीर्तनं शूद्रजन्मनः ।।४।।

मैवं ममाधमस्यापि स्यादेवाच्युतदर्शनम् । ह्रियमाणः कालनद्या क्व चित्तरति कश्चन ।।५।।

ममाद्यामङ्गलं नष्टं फलवांश्चैव मे भवः । यन्नमस्ये भगवतो योगिध्येयाङ्घ्रिपङ्कजम् ।।६।।

कंसो बताद्याकृत मे।त्यनुग्रहं द्रक्ष्ये।ङ्घ्रिपद्मं प्रहितो।मुना हरेः । कृतावतारस्य दुरत्ययं तमः पूर्वे।तरन् यन्नखमण्डलत्विषा ।।७।।

यदर्चितं ब्रह्मभवादिभिः सुरैः श्रिया च देव्या मुनिभिः ससात्वतैः । गोचारणायानुचरैश्चरद्वने यद् गोपिकानां कुचकुङ्कुमाङ्कितम् ।।८।।

द्रक्ष्यामि नूनं सुकपोलनासिकं स्मितावलोकारुणकञ्जलोचनम् । मुखं मुकुन्दस्य गुडालकावृतं प्रदक्षिणं मे प्रचरन्ति वै मृगाः ।।९।।

अप्यद्य विष्णोर्मनुजत्वमीयुषो भारावताराय भुवो निजेच्छया । लावण्यधाम्नो भवितोपलम्भनं मह्यं न न स्यात् फलमञ्जसा दृशः ।।१०।।

य ईक्षिताहंरहितो।प्यसत्सतोः स्वतेजसापास्ततमोभिदाभ्रमः । स्वमायया।।त्मन् रचितैस्तदीक्षया प्राणाक्षधीभिः सदनेष्वभीयते ।।११।।

यस्याखिलामीवहभिः सुमङ्गलैर्वाचो विमिश्रा गुणकर्मजन्मभिः । प्राणन्ति शुम्भन्ति पुनन्ति वै जगद् यास्तद्विरक्ताः शवशोभना मताः ।।१२।।

स चावतीर्णः किल सात्वतान्वये स्वसेतुपालामरवर्यशर्मकृत् । यशो वितन्वन् व्रज आस्त ईश्वरो गायन्ति देवा यदशेषमङ्गलम् ।।१३।।

तं त्वद्य नूनं महतां गतिं गुरुं त्रैलोक्यकान्तं दृशिमन्महोत्सवम् । रूपं दधानं श्रिय ईप्सितास्पदं द्रक्ष्ये ममासन्नुषसः सुदर्शनाः ।।१४।।

अथावरुढः सपदीशयो रथात् प्रधानपुंसोश्चरणं स्वलब्धये । धिया धृतं योगिभिरप्यहं ध्रुवं नमस्य आभ्यां च सखीन् वनौकसः ।।१५।।

अप्यङ्घ्रिमूले पतितस्य मे विभुः शिरस्यधास्यन्निजहस्तपङ्कजम् । दत्ताभयं कालभुजङ्गरंहसा प्रोद्वेजितानां शरणैषिणां नृणाम् ।।१६।।

समर्हणं यत्र निधाय कौशिकस्तथा बलिश्चाप जगत्त्रयेन्द्रताम् । यद् वा विहारे व्रजयोषितां श्रमं स्पर्शेन सौगन्धिकगन्ध्यपानुदत् ।।१७।।

न मय्युपैष्यत्यरिबुद्धिमच्युतः कंसस्य दूतः प्रहितो।पि विश्वदृक् । यो।न्तर्बहिश्चेतस एतदीहितं क्षेत्रज्ञा ईक्षत्यमलेन चक्षुषा ।।१८।।

अप्यङ्घ्रिमूले।वहितं कृताञ्जलिं मामीक्षिता सस्मितमार्द्रया दृशा । सपद्यपध्वस्तसमस्तकिल्बिषो वोढा मुदं वीतविशङ्क ऊर्जिताम् ।।१९।।

सुहृत्तमं ज्ञातिमनन्यदैवतं दोर्भ्यां बृहद्भ्यां परिरप्स्यते।थ माम् । आत्मा हि तीर्थीक्रियते तदैव मे बन्धश्च कर्मात्मक उच्छ्वसित्यतः ।।२०।।

लब्धाङ्गसङ्गं प्रणतं कृताञ्जलिं मां वक्ष्यते।क्रूर ततेत्युरुश्रवाः । तदा वयं जन्मभृतो महीयसा नैवादृतो यो धिगमुष्य जन्म तत् ।।२१।।

न तस्य कश्चिद् दयितः सुहृत्तमो न चाप्रियो द्वेष्य उपेक्ष्य एव वा । तथापि भक्तान् भजते यथा तथा सुरद्रुमो यद्वदुपाश्रितो।र्थदः ।।२२।।

किञ्चाग्रजो मावनतं यदूत्तमः स्मयन् परिष्वज्य गृहीतमञ्जलौ । गृहं प्रवेश्याप्तसमस्तसत्कृतं संप्रक्ष्यते कंसकृतं स्वबन्धुषु ।।२३।।

श्रीशुक उवाच

इति सञ्चिन्तयन् कृष्णं श्वफल्कतनयो।ध्वनि । रथेन गोकुलं प्राप्तः सूर्यश्चास्तगिरिं नृप ।।२४।।

पदानि तस्याखिललोकपालकिरीटजुष्टामलपादरेणोः । ददर्श गोष्ठे क्षितिकौतुकानि विलक्षितान्यब्जयवाङ्कुशाद्यैः ।।२५।।

तद्दर्शनाह्लादविवृद्धसम्भ्रमः प्रेम्णोर्ध्वरोमाश्रुकलाकुलेक्षणः । रथादवस्कन्द्य स तेष्वचेष्टत प्रभोरमून्यङ्घ्रिरजांस्यहो इति ।।२६।।

देहंभृतामियानथो हित्वा दम्भं भियं शुचम् । संदेशाद् यो हरेर्लिङ्गदर्शनश्रवणादिभिः ।।२७।।

ददर्श कृष्णं रामं च व्रजे गोदोहनं गतौ । पीतनीलाम्बरधरौ शरदम्बुरुहेक्षणौ ।।२८।।

किशोरौ श्यामलश्वेतौ श्रीनिकेतौ बृहद्बुजौ । सुमुखौ सुन्दरवरौ बालद्विरदविक्रमौ ।।२९।।

ध्वजवज्राङ्कुशाम्भोजैश्चिह्नितैरङ्घ्रिभिर्व्रजम् । शोभयन्तौ महात्मानावनुक्रोशस्मितेक्षणौ ।।३०।।

उदाररुचिरक्रीडौ स्रग्विणौ वनमालिनौ । पुण्यगन्धानुलिप्ताङ्गौ स्नतौ विरजवाससौ ।।३१।।

प्रधानपुरुषावाद्यौ जगद्धेतू जगत्पती । अवतीर्णौ जगत्यर्थे स्वांशेन बलकेशवौ ।।३२।।

दिशो वितिमिरा राजन् कुर्वाणौ प्रभया स्वया । यथा मारकतः शैलो रौप्यश्च कनकाचितौ ।।३३।।

रथात्तूर्णमवप्लुत्य सो।क्रूरः स्नेह्विह्वलः । पपात चरणोपान्ते दण्डवद् रामकृष्णयोः ।।३४।।

भगवद्दर्शनाह्लादबाष्पपर्याकुलेक्षणः । पुलकाचिताङ्ग औत्कण्ठयात् स्वाख्याने नाशकन् नृप ।।३५।।

भगवांस्तमभिप्रेत्य रथाङ्गाङ्कितपाणिना । परिरेभे।भ्युपाकृष्य प्रीतः प्रणतवत्सलः ।।३६।।

संकर्षणश्च प्रणतमुपगुह्य महामनाः । गृहीत्वा पाणिना पाणी अनयत् सानुजो गृहम् ।।३७।।

पृाथ स्वागतं तस्मै निवेद्य च वरासनम् । प्रक्षाल्य विधिवत् पादौ मधुपर्कार्हणमाहरत् ।।३८।।

निवेद्य गां चातिथये संवाह्य श्रान्तमादृतः । अन्नं बहुगुणं मेध्यं श्रद्धयोपाहरद् विभुः ।।३९।।

तस्मै भुक्तवते प्रीत्या रामः परमधर्मवित् । मुखवासैर्गन्धमाल्यैः परां प्रीतिं व्यधात् पुनः ।।४०।।

पप्रच्छ सत्कृतं नन्दः कथं स्थ निरनुग्रहे । कंसे जीवति दाशार्ह सौनपाला इवावयः ।।४१।।

यो।वधीत् स्वस्वसुस्तोकान् क्रोशन्त्या असुतृप् खलः । किं नु स्वित्तत्प्रजानां वः कुशलं विमृशामहे ।।४२।।

इत्थं सूनृतया वाचा नंदेन सुसभाजितः । अक्रूरः परिपृष्टेन जहावध्वपरिश्रमम् ।।४३।।

इति श्रीमद्बागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे अक्रूरागमनं नाम अष्टात्रिंशो।ध्यायः  ।।३८।।