श्रीशुकउवाच
केशी तु कंसप्रहितः खुरैर्महीं महाहयो निर्जरयन् मनोजवः । सटावधूताभ्रविमानसंकुलं कुर्वन्नभो हेषितभीषिताखिलः ।।१।।
विशालनेत्रो विकटास्यकोटरो बृहग्दलो नीलमहाम्बुदोपमः । दुराशयः कंसहितं चिकीर्षुर्व्रजं स नन्दस्य जगाम कम्पयन् ।।२।।
तं त्रासयन्तं भगवान् स्वगोकुलं तद्धेषितैर्वालविघूर्णिताम्बुदम् । आत्मानमाजौ मृगयन्तमग्रणीरुपाह्वयत् स व्यनदन्मृगेन्द्रवत् ।।३।।
स तं निशाम्याभिमुखो मुखेन खं पिबन्निवाभ्यद्रवदत्यमर्षणः । जघान पद्भ्यामरविन्दलोचनं दुरासदश्चण्डजवो दुरत्ययः ।।४।।
तद् वञ्चयित्वा तमधोक्षजो रुषा प्रगृह्य दोर्भ्यां परिविध्य पादयोः । सावज्ञामुत्सृज्य धनुःशतान्तरे यथोरगं तार्क्ष्यसुतो व्यवस्थितः ।।५।।
स लब्धसंज्ञाः पुनरुत्थितो रुषा व्यादाय केशी तरसा।।पतद्धरिम् । सो।प्यस्य वक्त्रे भुजमुत्तरं स्मयन् प्रवेशयामास यथोरगं बिले ।।६।।
दन्ता निपेतुर्भगवद्बुजस्पृशस्ते केशिनस्तप्तमयःस्पृशो यथा । बाहुश्च तद्देहगतो महात्मनो यथा।।मयः संववृधे उपेक्षितः ।।७।।
समेधमानेन स कृष्णबाहुना निरुद्धवायुश्चरणांश्च विक्षिपन् । प्रस्विन्नगात्रः परिवृत्तलोचनः पपात लेण्डं विसृजन् क्षितौ व्यसुः ।।८।।
तद्देहतः कर्कटिकाफलोपमाद् व्यसोरपाकृष्य भुजं महाभुजः । अविस्मितो।यत्नहतारिरुत्स्मयैः प्रसूनवर्षैर्दिविषद्बिरीडितः ।।९।।
देवर्षिरुपसङ्गम्य भागवतप्रवरो नृप । कृष्णमक्लिष्टकर्माणं रहस्येतदभाषत ।।१०।।
कृष्ण कृष्णाप्रमेयात्मन् योगेश जगदीश्वर । वासुदेवाखिलावास सात्वतां प्रवर प्रभो ।।११।।
त्वमात्मा सर्वभूतानामेको ज्योतिरिवैधसाम् । गूढो गुहाशयः साक्षी महापुरुष ईश्वरः ।।१२।।
आत्मना।।त्माश्रयः पूर्वं मायया ससृजे गुणान् । तैरिदं सत्यसंकल्पः सृजस्यत्स्यवसीश्वरः१३।।
स त्वं भूधरभूतानां दैत्यप्रमथरक्षसाम् । अवतीर्णो विनाशाय सेतूनां रक्षणाय च ।।१४।।
दिष्टया ते निहतो दैत्यो लीलयायं हयाकृतिः । यस्य हेषितसंत्रस्तास्त्यजन्त्यनिमिषा दिवम् ।।१५।।
चाणूरं मुष्टिकं चैव मल्लानन्यांश्च हस्तिनम् । कंसं च निहतं द्रक्ष्ये परश्वो।हनि ते विभो ।।१६।।
तस्यानु शङ्खयवनमुराणां नरकस्य च । पारिजातापहरणमिन्द्रस्य च पराजयम् ।।१७।।
उद्वाहं वीरकन्यानां वीर्यशुल्कादिलक्षणम् । नृगस्य मोक्षणं पापाद् द्वारकायां जगत्पते ।।१८।।
स्यमन्तकस्य च मणेरादानं सह भार्यया । मृतपुत्रप्रदानं च ब्राह्मणस्य स्वधामतः ।।१९।।
पौण्ड्रकस्य वधं पश्चात् काशिपुर्याश्च दीपनम् । दन्तवक्त्रस्य निधनं चैद्यस्य च महाक्रतौ ।।२०।।
यानि चान्यानि वीर्याणि द्वारकामावसन् भवान् । कर्ता द्रक्ष्याम्यहं तानि गेयानि कविभिर्भुवि ।।२१।।
अथ ते कालरूपस्य क्षपयिष्णोरमुष्य वै । अक्षौहिणीनां निधनं द्रक्ष्याम्यर्जुनसारथेः ।।२२।।
विशुद्धविज्ञानघनं स्वसंस्थया समाप्तसर्वार्थममोघवाञ्छितम् । स्वतेजसा नित्यनिवृत्तमायागुणप्रवाहं भगवन्तमीमहि ।।२३।।
त्वामीश्वरं स्वाश्रयमात्ममायया विनिर्मिताशेषविशेषकल्पनम् । क्रीडार्थमद्यात्तमनुष्यविग्रहं नतो।स्मि धुर्यं यदुवृष्णिसात्वताम् ।।२४।।
श्रीशुक उवाच
एवं यदुपतिं कृष्णं भागवतप्रवरो मुनिः । प्रणिपत्याभ्यनुज्ञातो ययौ तद्दर्शनोत्सवः ।।२५।।
भगवानपि गोविन्दो हत्वा केशिनमाहवे । पशूनपालयत् पालैः प्रीतैर्व्रजसुखावहः ।।२६।।
एकदा ते पशून् पालाश्चारयन्तो।द्रिसानुषु । चक्रुर्निलायनक्रीडाश्चोरपालापदेशतः ।।२७।।
तत्रासन् कतिचिच्चोराः पालाश्च कतिचिन्नृप । मेषायिताश्च तत्रैके विजह्रुरकुतोभयाः ।।२८।।
मयपुत्रो महामायो व्योमो गोपालवेषधृक् । मेषायितानपोवाह प्रायश्चोरायितो बहून् ।।२९।।
गिरिदर्यां विनिक्षिप्य नीतं नीतं महासुरः । शिलया पिदधे द्वारं चतुःपञ्चावशेषिताः ।।३०।।
तस्य तत् कर्म विज्ञाय कृष्णः शरणदः सताम् । गोपान् नयन्तं जग्राह वृकं हरिरिवौजसा ।।३१।।
स निजं रूपमास्थाय गिरीन्द्रसदृशं बली । इच्छन् विमोक्तुमात्मानं नाशक्नोद् ग्रहणातुरः ।।३२।।
तं निगृह्याच्युतो दोर्भ्यां पातयित्वा महीतले । पश्यतां दिवि देवानां पशुमारममारयत् ।।३३।।
गुहापिधानं निर्भिद्य गोपान्निःसार्य कृच्छ्रतः । स्तूयमानः सुरैर्गोपैः प्रविवेश स्वगोकुलम् ।।३४।।
इति श्रीमद्बागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे व्योमासुरवधो नाम सप्तत्रिंशो।ध्यायः ।।३७।।