श्रीशुकउवाच
अथ तर्ह्यागतो गोष्ठमरिष्टो वृषभासुर । महीं महाककुत्कायः कंपयन् खुरविक्षताम् ।।१।।
रम्भमाणः खरतरं पदा च विलिखन् महीम् । उद्यम्य पुच्छं वप्राणि विषाणाग्रेण चोद्धरन् ।।२।।
किञ्चित् किञ्चिच्छकृन्मुञ्चन् मूत्रयन् स्तब्धलोचनः । यस्य निर्ह्रादितेनाङ्ग निष्ठुरेण गवां नृणाम् ।।३।।
पतन्त्यकालतो गर्भाः स्रवन्ति स्म भयेन वै । निर्विशन्ति घना यस्य ककुद्यचलशङ्कया ।।४।।
तं तीक्ष्णशृङ्गमुद्वीक्ष्य गोप्यो गोपाश्च तत्रसुः । पशवो दुद्रुवुर्भीता राजन् संत्यज्य गोकुलम् ।।५।।
कृष्ण कृष्णेति ते सर्वे गोविन्दं शरणं ययुः । भगवानपि तद् वीक्ष्य गोकुलं भयविद्रुतम् ।।६।।
मा भैष्टेति गिरा।।श्वास्य वृषासुरमुपाह्वयत् । गोपालैः पशुभिर्मन्द त्रासितैः किमसत्तम ।।७।।
बलदर्पहाहं दुष्टानां त्वद्विधानां दुरात्मनाम् । इत्यास्फोटयाच्युतो।रिष्टं तलशब्देन कोपयन् ।।८।।
सख्युरंसे भुजाभोगं प्रसार्यावस्थितो हरिः । सो।प्येवं कोपितो।रिष्टः खुरेणावनिमुल्लिखन् । उद्यत्पुच्छभ्रमन्मेघः क्रुद्धः कृष्णमुपाद्रवत् ।।९।।
अग्रन्यस्तविषाणाग्रः स्तब्धासृग्लोचनो।च्युतम् । कटाक्षिप्याद्रवत्तूर्णमिन्द्रमुक्तो।शनिर्यथा ।।१०।।
गृहीत्वा शृङ्गयोस्तं वा अष्टादश पदानि सः । प्रत्यपोवाह भगवान् गजः प्रतिगजं यथा ।।११।।
सो।पविद्धो भगवता पुनरुत्थाय सत्वरः । आपतत् स्विन्नसर्वाङ्गो निःश्वसन् क्रोधमूर्छितः
तमापतन्तं स निगृह्य शृङ्गयोः पदा समाक्रम्य निपात्य भूतले । निष्पीडयामास यथा।।र्द्रमम्बरं कृत्त्वा विषाणेन जघान सो।पतत् ।।१२।।
असृग् वमन् मूत्रशकृत् समुत्सृजन् क्षिपंश्च पादाननवस्थितेक्षणः ।।१३।।
जगाम कृच्छ्रं निऋर्तेरथ क्षयं पुष्पैः किरन्तो हरिमीडिरे सुराः ।।१४।।
एवं ककुद्मिनं हत्वा स्तूयमानः स्वजातिभिः । विवेश गोष्ठं सबलो गोपीनां नयनोत्सवः ।।१५।।
अरिष्टे निहते दैत्ये कृष्णेनाद्बुतकर्मणा । कंसायाथाह भगवान् नारदो देवदर्शनः ।।१६।।
यशोदायाः सुतां कन्यां देवक्याः कृष्णमेव च । रामं च रोहिणीपुत्रं वसुदेवेन बिभ्यता ।।१७।।
न्यस्तौ स्वमित्रे नन्दे वै याभ्यां ते पुरुषा हताः । निशम्य तद् भोजपतिः कोपात् प्रचलितेन्द्रियः ।।१८।।
निशातमसिमादत्त वसुदेवजिघांसया । निवारितो नारदेन तत्सुतौ मृत्युमात्मनः ।।१९।।
ज्ञात्वा लौहमयैः पाशैर्बबन्ध सह भार्यया । प्रतियाते तु देवर्षौ कंस आभाष्य केशिनम् ।।२०।।
प्रेषयामास हन्येतां भवता रामकेशवौ । ततो मुष्टिकचाणूरशलतोशलकादिकान् ।।२१।।
अमात्यान् हस्तिपांश्चैव समाहूयाह भोजराट् । भो भो निशम्यतामेतद् वीरचाणूरमुष्टिकौ ।।२२।।
नन्दव्रजे किलासाते सुतावानकदुन्दुभेः । रामकृष्णौ ततो मह्यं मृत्युः किल निदर्शितः ।।२३।।
भवद्भ्यामिह सम्प्राप्तौ हन्येतां मल्ललीलया । मञ्चाः क्रियन्तां विविधा मल्लरङ्गपरिश्रिताः । पौरा जानपदाः सर्वे पश्यन्तु स्वैरसंयुगम् ।।२४।।
महामात्र त्वया भद्र रङ्गद्वार्युपनीयताम् । द्विपः कुवलयापीडो जहि तेन ममाहितौ ।।२५।।
आरभ्यतां धनुर्यागश्चतुर्दश्यां यथाविधि । विशसन्तु पशून् मेध्यान् भूतराजाय मीढुषे ।।२६।।
इत्याज्ञाप्यार्थतन्त्रज्ञा आहूय यदुपुङ्गवम् । गृहीत्वा पाणिना पाणिं ततो।क्रूरमुवाच ह ।।२७।।
भो भो दानपते मह्यं क्रियतां मैत्रमादृतः । नान्यस्त्वत्तो हिततमो विद्यते भोजवृष्णिषु ।।२८।।
अतस्त्वामाश्रितः सौम्य कार्यगौरवसाधनम् । यथेन्द्रो विष्णुमाश्रित्य स्वार्थमध्यगमद् विभुः ।।२९।।
गच्छ नन्दव्रजं तत्र सुतावानकदुन्दुभेः । आसाते ताविहानेन रथेनानय मा चिरम् ।।३०।।
निसृष्टः किल मे मृत्युर्देवैर्वैकुण्ठसंश्रयैः । तावानय समं गोपैर्नन्दाद्यैः साभ्युपायनैः ।।३१।।
घातयिष्य इहानीतौ कालकल्पेन हस्तिना । यदि मुक्तौ ततो मल्लैर्घातये वैद्युतोपमैः ।।३२।।
तयोर्निहतयोस्तप्तान् वसुदेवपुरोगमान् । तद्बन्धून् निहनिष्यामि वृष्णिभोजदशार्हकान् ।।३३।।
उग्रसेनं च पितरं स्थविरं राज्यकामुकम् । तद्बातरं देवकं च ये चान्ये विद्विषो मम ।।३४।।
ततश्चैषा मही मित्र भवित्री नष्टकण्टका । जरासन्धो मम गुरुर्द्विविदो दयितः सखा ।।३५।।
शम्बरो नरको बाणो मय्येव कृतसौहृदाः । तैरहं सुरपक्षीयान् हत्वा भोक्ष्ये महीं नृपान् ।।३६।।
एतज्ज्ञात्वा।।नय क्षिप्रं रामकृष्णाविहार्भकौ । धनुर्मखनिरीक्षार्थं द्रष्टुं यदुपुरश्रियम् ।।३७।।
अक्रूर उवाच
राजन् मनीषितं सम्यक् तव स्वावद्यमार्जनम् । सिद्धयसिद्धयोः समं कुर्याद् दैवं हि फलसाधनम् ।।३८।।
मनोरथान् करोत्युच्चैर्जनो दैवहतानपि । युज्यते हर्षशोकाभ्यां तथाप्याज्ञां करोमि ते ।।३९।।
श्रीशुक उवाच
एवमादिश्य चाक्रूरं मन्त्रिणश्च विसृज्य सः । प्रविवेश गृहं कंसस्तथा।क्रूरः स्वमालयम् ।।४०।।
इति श्रीमद्बागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे अक्रूरसंप्रेषणं नाम षट्त्रिंशो।ध्यायः ।।३६।।