पञ्चत्रिंशो।ध्यायः

श्रीशुकउवाच

गोप्यः कृष्णे वनं याते तमनुद्रुतचेतसः । कृष्णलीलाः प्रगायंत्यो निन्युर्दुःखेन वासरान् ।।१।।

गोप्य ऊचुः

वामबाहुकृतवामकपोलो वल्गितभ्रुरधरार्पितवेणुम् । कोमलाङ्गुलिभिराश्रितमार्गं गोप्य ईरयति यत्र मुकुन्दः ।।२।।

व्योमयानवनिताः सह सिद्धैर्विस्मितास्तदुपधार्य सलज्जाः । काममार्गणसमर्पितचित्ताः कश्मलं ययुरपस्मृतनीव्यः ।।३।।

हन्त चित्रमबलाः शृणुतेदं हारहास उरसि स्थिरविद्युत् । नन्दसूनुरयमार्तजनानां नर्मदो यर्हि कूजितवेणुः ।।४।।

वृन्दशो व्रजवृषा मृगगावो वेणुवाद्यहृतचेतस आरात् । दन्तदष्टकवला धृतकर्णा निद्रिता लिखितचित्रमिवासन् ।।५।।

बर्हिणस्तबकधातुपलाशैर्बद्धमल्लपरिबर्हविडम्बः । कर्हिचित् सबल आलि स गोपैर्गाः समाह्वयति यत्र मुकुन्दः ।।६।।

तर्हि भग्नगतयः सरितो वै तत्पदाम्बुजरजो।निलनीतम् । स्पृहयतीर्वयमिवाबहुपुण्याः प्रेमवेपितभुजाः स्तिमितापः ।।७।।

अनुचरैः समनुवर्णितवीर्य आदिपूरुष इवाचलभूतिः । वनचरो गिरितटेषु चरन्तीर्वेणुना।।ह्वयति गाः स यदा हि ।।८।।

वनलतास्तरव आत्मनि विष्णुं व्यञ्जयन्त्य इव पुष्पफलाढयाः । प्रणतभारविटपा मधुधाराः प्रेमहृष्टतनवः ससृजुः स्म ।।९।।

दर्शनीयतिलको वनमालादिव्यगन्धतुलसीमधुमत्तैः । अलिकुलैरलघुगीतमभीष्टमाद्रियन् यर्हि सन्धितवेणुः ।।१०।।

सरसि सारसहंसविहङ्गाश्चारुगीतहृतचेतस एत्य । हरिमुपासत ते यतचित्ता हन्त मीलितदृशो धृतमौनाः ।।११।।

सहबलः स्रगवतंसविलासः सानुषु क्षितिभृतो व्रजदेव्यः । हर्षयन् यर्हि वेणुरवेण जातहर्ष उपरम्भति विश्वम् ।।१२।।

महदतिक्रमणशङ्कितचेता मन्दमन्दमनुगर्जति मेघः । सुहृदमभ्यवर्षत् सुमनोभिश्छायया च विदधत् प्रतपत्रम् ।।१३।।

विविधगोपचरणेषु विदग्धो वेणुवाद्य उरुधा निजशिक्षाः । तव सुतः सति यदाधरबिम्बे दत्तवेणुरनयत् स्वरजातीः ।।१४।।

सवनशस्तदुपधार्य सुरेशाः शक्रशर्वपरमेष्ठिपुरोगाः । कवय आनतकन्धरचित्ताः कश्मलं ययुरनिश्चिततत्त्वाः ।।१५।।

निजपदाब्जदलैर्ध्वजवज्रनीरजाङ्कुशविचित्रललामैः । व्रजभुवः शमयन् खुरतोदं वर्ष्मधुर्यगतिरीडितवेणुः ।।१६।।

व्रजति तेन वयं सविलास वीक्षणार्पितमनोभववेगाः । कुजगतिं गमिता न विदामः कश्मलेन कबरं वसनं वा ।।१७।।

मणिधरः क्व चिदागणयन् गा मालया दयितगन्धतुलस्याः । प्रणयिनो।नुचरस्य कदांसे प्रक्षिपन् भुजमगायत यत्र ।।१८।।

क्वणितवेणुरववञ्चितचित्ताः कृष्णमन्वसत कृष्णगृहिण्यः । गुणगणार्णमनुगत्य हरिण्यो गोपिका इव विमुक्तगृहाशाः ।।१९।।

कुन्ददामकृतकौतुकवेषो गोपगोधनवृतो यमुनायाम् । नन्दसूनुरनघे तव वत्सो नर्मदः प्रणयिनां विजहार ।।२०।।

मन्दवायुरुपवात्यनुकूलं मानयन् मलयजस्पर्शेन । वन्दिनस्तमुपदेवगणा ये वाद्यगीतबलिभिः परिवव्रुः ।।२१।।

वत्सलो व्रजगवां यदगध्रो वन्द्यमानचरणः पथि वृद्धैः । कृत्स्न्गोधनमुपोह्य दिनान्ते गीतवेणुरनुगेडितकीर्तिः ।।२२।।

उत्सवं श्रमरुचापि दृशीनामुन्नयन् खुररजश्छुरितस्रक् । दित्सयैति सुहृदाशिष एष देवकीजठरभूरुडुराजः ।।२३।।

मदविघूर्णितलोचन ईषन्मानदः स्वसुहृदां वनमाली । बदरपाण्डुवदनो मृदुगण्डं मण्डयन् कनककुण्डललक्ष्म्या ।।२४।।

यदुपतिद्विरदराजविहारो यामिनीपतिरिवैष दिनान्ते । मुदितवक्त्र उपयाति दुरन्तं मोचयन् व्रजगवां दिनतापम् ।।२५।।

श्रीशुक उवाच

एवं व्रजस्त्रियो राजन् कृष्णलीलानुगायतीः । रेमिरे।हःसु तच्चितास्तन्मनस्का महोदयाः 

इति श्रीमद्बागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे वृन्दावनक्रीडायां गोपिकायुगलगीतं नाम पञ्चत्रिंशो।ध्यायः ।।३५।।