चतुस्त्रिंशो।ध्यायः

श्रीशुकउवाच

एकदा देवयात्रायां गोपाला जातकौतुकाः । अनोभिरनडुद्युक्तैः प्रययुस्ते।म्बिकावनम् ।।१।।

तत्र स्नत्वा सरस्वत्यां देवं पशुपतिं विभुम् । आनर्चुरर्हणैर्भक्त्या देवीं च नृपते।म्बिकाम् २।।

गावो हिरण्यं वासांसि मधु मध्वन्नमादृताः । ब्राह्मणेभ्यो ददुः सर्वे देवो नः प्रीयतामिति ।।३।।

ऊषुः सरस्वतीतीरे जलं प्राश्य धृतव्रताः । रजनीं तां महाभागा नन्दसुनन्दकादयः ।।४।।

कश्चिन्महानहिस्तस्मिन् विपिने।तिबुभुक्षितः । यदृच्छया।।गतो नन्दं शयानमुरगो।ग्रसीत् ।।५।।

स चुक्रोशाहिना ग्रस्तः कृष्ण कृष्ण महानयम् । सर्पो मां ग्रसते तात प्रपन्नं परिमोचय ।।६।।

तस्य चाक्रन्दितं श्रुत्वा गोपालाः सहसोत्थिताः । ग्रस्तं च दृा विभ्रान्ताः सर्पं विव्यधुरुल्मुकैः ।।७।।

अलातैर्दह्यमानो।पि नामुञ्चत्तमुरङ्गमः । तमस्पृशत् पदाभ्येत्य भगवान् सात्वतां पतिः ।।८।।

स वै भगवतः श्रीमत्पादस्पर्शहताशुभः । भेजे सर्पवपुर्हित्वा रूपं विद्याधरार्चितम् ।।९।।

तमपृच्छद् धृषीकेशः प्रणतं समुपस्थितम् । दीप्यमानेन वपुषा पुरुषं हेममालिनम् ।।१०।।

को भवान् परया लक्ष्म्या रोचते।द्बुतदर्शनः । कथं जुगुप्सितामेतां गतिं वा प्रापितो।वशः ११।।

सर्प उवाच

अहं विद्याधरः कश्चित् सुदर्शन इति श्रुतः । श्रिया स्वरूपसम्पत्त्या विमानेनाचरं दिशः ।।१२।।

ऋषीन् विरूपानङ्गिरसः प्राहसं रूपदर्पितः । तैरिमां प्रापितो योनिं प्रलब्धैः स्वेन पाप्मना ।।१३।।

शापो मे।नुग्रहायैव कृतस्तैः करुणात्मभिः । यदहं लोकगुरुणा पदा स्पृष्टो हताशुभः ।।१४।।

तं त्वाहं भवभीतानां प्रपन्नानां भयापहम् । आपृच्छे शापनिर्मुक्तः पादस्पर्शादमीवहन् ।।१५।

प्रपन्नो।स्मि महायोगिन् महापुरुष सत्पते । अनुजानीहि मां देव सर्वलोकेश्वरेश्वर ।।१६।।

ब्रह्मदण्डाद् विमुक्तो।हं सद्यस्ते।च्युत दर्शनात् । यन्नाम गृन्नखिलान् श्रोतनात्मानमेव च । सद्यः पुनाति किं भूयस्तस्य स्पृष्टः पदा हि ते ।।१७।।

इत्यनुज्ञाप्य दाशार्हं परिक्रम्याभिवन्द्य च । सुदर्शनो दिवं यातः कृच्छ्रान्नन्दश्च मोचितः ।।१८।।

निशाम्य कृष्णस्य तदात्मवैभवं व्रजौकसो विस्मितचेतसस्ततः । समाप्य तस्मिन् नियमं पुनर्व्रजं नृपाययुस्तत् कथयन्त आदृताः ।।१९।।

कदाचिदथ गोविन्दो रामश्चाद्बुतविक्रमः । विजह्रतुर्वने रात्र्यां मध्यगौ व्रजयोषिताम् ।।२०।।

उपगीयमानौ ललितं स्त्रीजनैर्बद्धसौहृदैः । स्वलङ्कृतानुलिप्ताङ्गौ स्रग्विणौ विरजो।म्बरौ ।।२१।।

निशामुखं मानयन्तावुदितोडुपतारकम् । मल्लिकागन्धमत्तालिजुष्टं कुमुदवायुना ।।२२।।

जगतुः सर्वभूतानां मनःश्रवणमङ्गलम् । तौ कल्पयन्तौ युगपत् स्वरमण्डलमूर्च्छितम् ।।२३।।

गोप्यस्तग्दीतमाकर्ण्य मूर्च्छिता नाविदन् नृप । स्रंसद्दुकूलमात्मानं स्रस्तकेशस्रजं ततः ।।२४।।

एवं विक्रीडतोः स्वैरं गायतोः सम्प्रमत्तवत् । शङ्खचूड इति ख्यातो धनदानुचरो।भ्यगात् ।।२५।।

तयोर्निरीक्षतो राजंस्तन्नाथं प्रमदाजनम् । क्रोशन्तं कालयामास दिश्युदीच्यामशङ्कितः ।।२६।।

क्रोशन्तं कृष्ण रामेति विलोक्य स्वपरिग्रहम् । यथा गा दस्युना ग्रस्ता भ्रातरावन्वधावताम् ।।२७।।

मा भैष्टेत्यभयारावौ शालहस्तौ तरस्विनौ । आसेदतुस्तं तरसा त्वरितं गुह्यकाधमम् ।।२८।।

स वीक्ष्य तावनुप्राप्तौ कालमृत्यू इवोद्विजन् । विसृज्य स्त्रीजनं मूढः प्राद्रवज्जीवितेच्छया ।।२९।।

तमन्वधावद् गोविन्दो यत्र यत्र स धावति । जिहीर्षुस्तच्छिरोरत्नं तस्थौ रक्षन् स्त्रियो बलः ।।३०।।

अविदूर इवाभ्येत्य शिरस्तस्य दुरात्मनः । जहार मुष्टिनैवाङ्ग सहचूडामणिं विभुः ।।३१।।

शंखचूडं निहत्यैवं मणिमादाय भास्वरम् । अग्रजायाददात् प्रीत्या पश्यंतीनां च योषिताम् ।।३२।।

इति श्रीमद्बागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे शङ्खचूडवधो नाम चतुस्त्रिंशो।ध्यायः ।।३४।।