त्रयस्त्रिंशो।ध्यायः

श्रीशुकउवाच

इत्थं भगवतो गोप्यः श्रुत्वा वाचः सुपेशलाः । जहुर्विरहजं तापं तदंगोपचिताशिषः ।।१।।

तत्रारभत गोविन्दो रासक्रीडामनुव्रतैः । स्त्रीरत्नैरन्वितः प्रीतैरन्योन्याबद्धबाहुभिः ।।२।।

रासोत्सवः सम्प्रवृत्तो गोपीमण्डलमण्डितः । योगेश्वरेण कृष्णेन तासां मध्ये द्वयोर्द्वयोः । प्रविष्टेन गृहीतानां कण्ठे स्वनिकटं स्त्रियः ।।३।।

यं मन्येरन् नभस्तावद् विमानशतसङ्कुलम् । दिवौकसां सदाराणामौत्सुक्यापहृतात्मनाम् ।।४।।

ततो दुन्दुभयो नेदुर्निपेतुः पुष्पवृष्टयः । जगुर्गन्धर्वपतयः सस्त्रीकास्तद्यशो।मलम् ।।५।।

वलयानां नूपुराणां किङ्किणीनां च योषिताम् । सप्रियाणामभूच्छब्दस्तुमुलो रासमण्डले ।।६।।

तत्रातिशुशुभे ताभिर्भगवान् देवकीसुतः । मध्ये मणीनां हेमानां महामरकतो यथा ।।७।।

पादन्यासैर्भुजविधुतिभिः सस्मितैर्भ्रूविलासैर्भज्यन्मध्यैश्चलकुचपटैः कुण्डलैर्गण्डलोलैः । स्विद्यन्मुख्यः कबररशनाग्रन्थयः कृष्णवध्वो गायन्त्यस्तं तडित इव ता मेघचक्रे विरेजुः।।८।।

उच्चैर्जगुर्नृत्यमाना रक्तकण्ठयो रतिप्रियाः । कृष्णाभिमर्शमुदिता यग्दीतेनेदमावृतम् ।।९।।

काचित् समं मुकुन्देन स्वरजातीरमिश्रिताः । उन्निन्ये पूजिता तेन प्रीयता साधु साध्विति । तदेव ध्रुवमुन्निन्ये तस्मै मानं च बह्वदात् ।।१०।।

काचिद् रासपरिश्रान्ता पार्श्वस्थस्य गदाभृतः । जग्राह बाहुना स्कन्धं श्लथद्वलयमल्लिका ।।११।।

तत्रैकांसगतं बाहुं कृष्णस्योत्पलसौरभम् । चन्दनालिप्तमाघ्राय हृष्टरोमा चुचुम्ब ह ।।१२।।

कस्याश्चिन्नाटयविक्षिप्तकुण्डलत्विषमण्डितम् । गण्डं गण्डे सन्दधत्या अदात्ताम्बूलचर्वितम् ।।१३।।

नृत्यन्ती गायती काचित् कूजन्नूपुरमेखला । पार्श्वस्थाच्युतहस्ताब्जं श्रान्ता।धात् स्तनयोः शिवम् ।।१४।।

गोप्यो लब्ध्वाच्युतं कान्तं श्रिय एकान्तवल्लभम् । गृहीतकण्ठयस्तद्दोर्भ्यां गायन्त्यस्तं विजह्रिरे ।।१५।।

कर्णोत्पलालकविटङ्ककपोलघर्मवक्त्रश्रियो वलयनूपुरघोषवाद्यैः । गोप्यः समं भगवता ननृतुः स्वकेशस्रस्तस्रजो भ्रमरगायकरासगोष्ठयाम् ।।१६।।

एवं परिष्वङ्गकराभिमर्शस्न्ग्धिेक्षणोद्दामविलासहासैः । रेमे रमेशो व्रजसुन्दरीभिर्यथार्भकः स्वप्रतिबिम्बविभ्रमः ।।१७।।

तदङ्गसङ्गप्रमुदाकुलेन्द्रियाः केशान् दुकूलं कुचपट्टिकां वा । नाञ्जः प्रतिव्योढुमलं व्रजस्त्रियो विस्रस्तमालाभरणाः कुरुद्वह ।।१८।।

कृष्णविक्रीडितं वीक्ष्य मुमुहुः खेचरस्त्रियः । कामार्दिताः शशाङ्कश्च सगणो विस्मितो।भवत् ।।१९।।

कृत्त्वा तावन्तमात्मानं यावतीर्गोपयोषितः । रेमे स भगवांस्ताभिरात्मारामो।पि लीलया ।।२०।।

तासामतिविहारेण श्रान्तानां वदनानि सः । प्रामृजत् करुणः प्रेम्णा शन्तमेनाङ्ग पाणिना ।।२१।।

गोप्यः स्फुरत्पुरटकुण्डलकुन्तलत्विड्गण्डश्रिया सुधितहासनिरीक्षणेन । मानं दधत्य ऋषभस्य जगुः कृतानि पुण्यानि तत्कररुहस्पर्शप्रमोदाः ।।२२।।

ताभिर्युतः श्रममपोहितुमङ्गसङ्गघृष्टस्रजः स कुचकुङ्कुमरञ्जितायाः । गन्धर्वपालिभिरनुद्रुत आविशद् वाः श्रान्तो गजीभिरिभराडिव भिन्नसेतुः ।।२३।।

सो।म्भस्यलं युवतिभिः परिषिच्यमानः प्रेम्णेक्षितः प्रहसतीभिरितस्ततो।ङ्ग । वैमानिकैः कुसुमवर्षिभिरीडयमानो रेमे स्वयं स्वरतिरत्र गजेन्द्रलीलः ।।२४।।

ततश्च कृष्णोपवने जलस्थलप्रसूनगन्धानिलजुष्टदिक्तटे । चचार भृङ्गप्रमदागणावृतो यथा मदच्युद् द्विरदः करेणुभिः ।।२५।।

एवं शशाङ्कांशुविराजिता निशाः स सत्यकामो।नुरताबलागणः । सिषेव आत्मन्यवरुद्धसौरतः सर्वाः शरत्काव्यकथारसाश्रयाः ।।२६।।

राजोवाच

संस्थापनाय धर्मस्य प्रशमायेतरस्य च । अवतीर्णो हि भगवानंशेन जगदीश्वरः ।।२७।।

स कथं धर्मसेतूनां वक्ता कर्ताभिरक्षिता । प्रतीपमाचरद् ब्रह्मन् परदाराभिमर्शनम् ।।२८।।

आप्तकामो यदुपतिः कृतवान् वै जुगुप्सितम् । किमभिप्राय एतं नः संशयं छिन्धि सुव्रत ।।२९।।

श्रीशुक उवाच

धर्मव्यतिक्रमो दृष्ट ईश्वराणां च साहसम् । तेजीयसां न दोषाय वह्नेः सर्वभुजो यथा ।।३०।।

नैतत् समाचरेज्जातु मनसापि ह्यनीश्वरः । विनश्यत्याचरन् मौढयाद्यथारुद्रो।ब्धिजं विषम् ।।३१।।

ईश्वराणां वचः सत्यं तथैवाचरितं क्व चित् । तेषां यत् स्ववचोयुक्तं बुद्धिमांस्तत् समाचरेत् ।।३२।।

कुशलाचरितेनैषामिह स्वार्थो न विद्यते । विपर्ययेण वानर्थो निरहंकारिणां प्रभो ।।३३।।

किमुताखिलसत्त्वानां तिर्यङ्मर्त्यदिवौकसाम् । ईशितुश्चेशितव्यानां कुशलाकुशलान्वयः ।।३४।।

यत्पादपङ्कजपरागनिषेवतृप्ता योगप्रभावविधुताखिलकर्मबन्धाः स्वैरं चरन्ति मुनयो।पि न नह्यमानास्तस्येच्छया।।त्तवपुषः कुत एव बन्धः ।।३५।।

गोपीनां तत्पतीनां च सर्वेषामेव देहिनाम् । यो।न्तश्चरति सो।ध्यक्षः क्रीडनेनेह देहभाक् ।।३६।।

अनुग्रहाय भूतानां मानुषं देहमास्थितः । भजते तादृशीः क्रीडा याः श्रुत्वा तत्परो भवेत् ।।३७।।

नासूयन् खलु कृष्णाय मोहितास्तस्य मायया । मन्यमानाः स्वपार्श्वस्थान् स्वान् स्वान् दारान् व्रजौकसः ।।३८।।

ब्रह्मरात्र उपावृत्ते वासुदेवानुमोदिताः । अनिच्छन्त्यो ययुर्गोप्यः स्वगृहान् भगवत्प्रियाः ।।३९।।

विक्रीडितं व्रजवधूभिरिदं च विष्णोः श्रद्धान्वितो।नुशृणुयादथ वर्णयेद्यः । भक्तिं परां भगवति प्रतिलभ्य कामं हृद्रोगमाश्वपहिनोत्यचिरेण धीरः ।।४०।।

इति श्रीमद्बागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे रासक्रीडावर्णनं नाम त्रयस्त्रिंशो।ध्यायः ।।३३।।