श्रीशुकउवाच
इति गोप्यः प्रगायन्त्यः प्रलपंत्यश्च चित्रधा । रुरुदुः सुस्वरं राजन् कृष्णदर्शनलालसाः ।।१।।
तासामाविरभूच्छौरिः स्मयमानमुखाम्बुजः । पीताम्बरधरः स्रग्वी साक्षान्मन्मथमन्मथः ।।२।।
तं विलोक्यागतं प्रेष्ठं प्रीत्युत्फुल्लदृशो।बलाः । उत्तस्थुर्युगपत् सर्वास्तन्वः प्राणमिवागतम् ।।३।।
काचित् कराम्बुजं शौरेर्जगृहे।ञ्जलिना मुदा । काचिद् दधार तद्बाहुमंसे चन्दनरूषितम् ।।४।।
काचिदञ्जलिनागृात्तन्वी ताम्बूलचर्वितम् । एका तदङ्घ्रिकमलं सन्तप्ता स्तनयोरधात् ।।५।।
एका भ्रुकुटिमाबध्य प्रेमसंरम्भविह्वला । घ्नतीवैक्षत् कटाक्षेपैः संदष्टदशनच्छदा ।।६।।
अपरानिमिषद्दृग्भ्यां जुषाणा तन्मुखाम्बुजम् । आपीतमपि नातृप्यत् सन्तस्तच्चरणं यथा ।।७।।
तं काचिन्नेत्ररन्ध्रेण हृदि कृत्य निमील्य च । पुलकाङ्ग्युपगुह्यास्ते योगीवानन्दसम्प्लुता ।।८।।
सर्वास्ताः केशवालोकपरमोत्सवनिर्वृताः । जहुर्विरहजं तापं प्राज्ञां प्राप्य यथा जनाः ।।९।।
ताभिर्विधूतशोकाभिर्भगवानच्युतो वृतः । व्यरोचताधिकं तात पुरुषः शक्तिभिर्यथा ।।१०।।
ताः समादाय कालिन्द्या निर्विश्य पुलिनं विभुः । विकसत्कुन्दमन्दारसुरभ्यनिलषट्पदम् ।।११।।
शरच्चन्द्रांशुसन्दोहध्वस्तदोषातमः शिवम् । कृष्णाया हस्ततरलाचितकोमलवालुकम् ।।१२।।
तद्दर्शनाह्लादविधूतहृद्रुजो मनोरथान्तं श्रुतयो यथा ययुः । स्वैरुत्तरीयैः कुचकुङ्कुमाङ्कितैरचीक्लृपन्नासनमात्मबन्धवे ।।१३।।
तत्रोपविष्टो भगवान् स ईश्वरो योगेश्वरान्तर्हृदि कल्पितासनः । चकास गोपीपरिषग्दतो।र्चितस्त्रैलोक्यलक्ष्म्येकपदं वपुर्दधत् ।।१४।।
सभाजयित्वा तमनङ्गदीपनं सहासलीलेक्षणविभ्रमभ्रुवा । संस्पर्शनेनाङ्ककृताङ्घ्रिहस्तयोः संस्तुत्य ईषत्कुपिता बभाषिरे ।।१५।।
गोप्य ऊचुः
भजतो।नुभजन्त्येक एक एतद्विपर्ययम् । नोभयांश्च भजन्त्येक एतन्नो ब्रूहि साधु भोः ।।१६।।
श्रीभगवानुवाच
मिथो भजन्ति ये सख्यः स्वार्थैकान्तोद्यमा हि ते । न तत्र सौहृदं धर्मः स्वार्थार्थं तद्धि नान्यथा ।।१७।।
भजन्त्यभजतो ये वै करुणाः पितरो यथा । धर्मो निरपवादो।त्र सौहृदं च सुमध्यमाः ।।१८।।
भजतो।पि न वै केचिद् भजन्त्यभजतः कुतः । आत्मारामा ह्याप्तकामा अकृतज्ञा गुरुद्रुहः ।।१९।।
नाहं तु सख्यो भजतो।पि जन्तून् भजाम्यमीषामनुवृत्तिवृत्तये । यथाधनो लब्धधने विनष्टे तच्चिन्तयान्यन्निभृतो न वेद ।।२०।।
एवं मदर्थोज्झितलोकवेदस्वानां हि वो मय्यनुवृत्तये।बलाः । मया परोक्षं भजता तिरोहितं मासूयितुं मार्हथ तत् प्रियं प्रियाः ।।२१।।
न पारये।हं निरवद्यसंयुजां स्वसाधुकृत्यं विबुधायुषापि वः । या माभजन् दुर्जरगेहशृङ्खलाः संवृश्च्य तद् वः प्रतियातु साधुना ।।२२।।
इति श्रीमद्बागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे रासक्रीडायां गोपीसान्त्वनं नाम द्वात्रिंशो।ध्यायः ।।३२।।