गोप्य ऊचुः
जयति ते।धिकं जन्मना व्रजः श्रयत इंदिरा शश्वदत्र हि । दयित दृश्यतां दिक्षु तावकास्त्वयि धृतासवस्त्वां विचिन्वते ।।१।।
शरदुदाशये साधुजातसत् सरसिजोदरश्रीमृषा दृशा । सुरतनाथ ते।शुल्कदासिका वरद निघ्नतो नेह किं वधः ।।२।।
विषजलाप्ययाद् व्यालराक्षसाद् वर्षमारुताद् वैध्रुतानलात् । वृषमयात्मजाद् विश्वतोभयादृषभ ते वयं रक्षिता मुहुः ।।३।।
न खलु गोपिकानन्दनो भवानखिलदेहिनामन्तरात्मदृक् । विखनसार्थितो विश्वगुप्तये सख उदेयिवान् सात्वतां कुले ।।४।।
विरचिताभयं वृष्णिधुर्य ते चरणमीयुषां संसृतेर्भयात् । करसरोरुहं कान्त कामदं शिरसि धेहि नः श्रीकरग्रहम् ।।५।।
व्रजजनार्तिहन् वीर योषितां निजजनस्मयध्वंसनस्मित । भज सखे भवत्किङ्करीः स्म नो जलरुहाननं चारु दर्शय ।।६।।
प्रणतदेहिनां पापकर्शनं तृणचरानुगं श्रीनिकेतनम् । फणिफणार्पितं ते पदाम्बुजं कृणु कुचेषु नः कृन्धि हृच्छयम् ।।७।।
मधुरया गिरा वल्गुवाक्यया बुधमनोज्ञाया पुष्करेक्षण । विधिकरीरिमा वीर मुह्यतीरधरसीधुना।।प्याययस्व नः ।।८।।
तव कथामृतं तप्तजीवनं कविभिरीडितं कल्मषापहम् । श्रवणमङ्गलं श्रीमदाततं भुवि गृणन्ति ते भूरिदा जनाः ।।९।।
प्रहसितं प्रिय प्रेमवीक्षणं विहरणं च ते ध्यानमङ्गलम् । रहसि संविदो या हृदिस्पृशः कुहक नो मनः क्षोभयन्ति हि ।।१०।।
चलसि यद् व्रजाच्चारयन् पशून् नलिनसुन्दरं नाथ ते पदम् । शिलतृणाङ्कुरैः सीदतीति नः कलिलतां मनः कान्त गच्छति ।।११।।
दिनपरिक्षये नीलकुन्तलैर्वनरुहाननं बिभ्रदावृतम् । घनरजस्वलं दर्शन् मुहुर्मनसि नः स्मरं वीर यच्छसि ।।१२।।
प्रणतकामदं पद्मजार्चितं धरणिमण्डनं ध्येयमापदि । चरणपङ्कजं शन्तमं च ते रमण नः स्तनेष्वर्पयाधिहन् ।।१३।।
सुरतवर्धनं शोकनाशनं स्वरितवेणुना सृष्ठु चुम्बितम् । इतररागविस्मारणं नृणां वितर वीर नस्ते।धरामृतम् ।।१४।।
अटति यद् भवानह्नि काननं त्रुटिर्युगायते त्वामपश्यताम् । कुटिलकुन्तलं श्रीमुखं च ते जड उदीक्षतां पक्ष्मकृद् दृशाम् ।।१५।।
पतिसुतान्वयभ्रातृबान्धवानतिविलङ् घ्य ते।न्त्यच्युतागताः । गतिविदस्तवोग्दीतमोहिताः कितव योषितः कस्त्यजेन्निशि ।।१६।।
रहसि संविदं हृच्छयोदयं प्रहसिताननं प्रेमवीक्षणम् । बृहदुरः श्रियो वीक्ष्य धाम ते मुहुरतिस्पृहा मुह्यते मनः ।।१७।।
व्रजवनौकसां व्यक्तिरङ्ग ते वृजिनहन्त्र्यलं विश्वमङ्गलम् । त्यज मनाक् च नस्त्वत्स्पृहात्मनां स्वजनहृद्रुजां यन्निषूदनम् ।।१८।।
यत्ते सुजातचरणांबुरुहं स्तनेषु भीताः शनैः प्रिय दधीमहि कर्कशेषु । तेनाटवीमटसि तद् व्यथते न किंस्वित् कूर्पादिभिर्भ्रमति धीर्भवदायुषां नः ।।१९।।
इति श्रीमद्बागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे रासक्रीडायां गोपीगीतं नामैकत्रिंशो।ध्यायः ।।३१।।