त्रिंशो।ध्यायः

श्रीशुकउवाच 

अंतर्हिते भगवति सहसैव व्रजांगनाः । अतप्यंस्तमचक्षाणाः करिण्यः एव यूथपम् ।।१

गत्यानुरागस्मितविभ्रमेक्षितैर्मनोरमालापविहारविभ्रमैः । आक्षिप्तचित्ताः प्रमदा रमापतेस्तास्ता विचेष्टा जगृहुस्तदात्मिकाः ।।२।।

गतिस्मितप्रेक्षणभाषणादिषु प्रियाः प्रियस्य प्रतिरूढमूर्तयः । असावहं त्वित्यबलास्तदात्मिका न्यवेदिषुः कृष्णविहारविभ्रमाः ।।३।।

गायन्त्य उच्चैरमुमेव संहता विचिक्युरुन्मत्तकवद् वनाद् वनम् । पप्रच्छुराकाशवदन्तरं बहिर्भूतेषु सन्तं पुरुषं वनस्पतीन् ।।४।।

दृष्टो वः कच्चिदश्वत्थ प्लक्ष न्यग्रोध नो मनः । नन्दसूनुर्गतो हृत्वा प्रेमहासावलोकनैः ।।५।।

कच्चित् कुरबकाशोकनागपुन्नागचम्पकाः । रामानुजो मानिनीनामितो दर्पहरस्मितः ।।६।।

कच्चित्तुलसि कल्याणि गोविन्दचरणप्रिये । सह त्वालिकुलैर्बिभ्रद् दृष्टस्ते।तिप्रियो।च्युतः ।। ૭।।

मालत्यदर्शि वः कच्चिन्मल्लिके जातियूथिके । प्रीतिं वो जनयन् यातः करस्पर्शेन माधवः ।।८।।

चूतप्रियालपनसासनकोविदारजम्ब्वर्कबिल्वबकुलाम्रकदम्बनीपाः । ये।न्ये परार्थभवका यमुनोपकूलाः शंसन्तु कृष्णपदवीं रहितात्मनां नः ।।९।।

किं ते कृतं क्षिति तपो बत केशवाङ्घ्रिस्पर्शोत्सवोत्पुलकिताङ्गरुहैर्विभासि । अप्यङ्घ्रिसम्भव उरुक्रमविक्रमाद् वा आहो वराहवपुषः परिरम्भणेन ।।१०।।

अप्येणपत्न्युपगतः प्रिययेह गात्रैस्तन्वन् दृशां सखि सुनिर्वृतिमच्युतो वः । कान्ताङ्गसङ्गकुचकुङ्कुमरञ्जितायाः कुन्दस्रजः कुलपतेरिह वाति गन्धः ।।११।।

बाहुं प्रियांस उपधाय गृहीतपद्मो रामानुजस्तुलसिकालिकुलैर्मदान्धैः । अन्वीयमान इह वस्तरवः प्रणामं किं वाभिनन्दति चरन् प्रणयावलोकैः ।।१२।।

पृच्छतेमा लता बाहूनप्याश्लिष्टा वनस्पतेः । नूनं तत्करजस्पृष्टा बिभ्रत्युत्पुलकान्यहो ।।१३।। 

इत्युन्मत्तवचो गोप्यः कृष्णान्वेषणकातराः । लीला भगवतस्तास्ता ह्यनुचक्रुस्तदात्मिकाः ।।१४।।

कस्याश्चित् पूतनायन्त्याः कृष्णायन्त्यपिबत् स्तनम् । तोकायित्वा रुदत्यन्या पदाहञ्छकटायतीम् ।।१५।।

दैत्यायित्वा जहारान्यामेका कृष्णार्भभावनाम् । रिङ्गयामास काप्यङ्घ्री कर्षन्ती घोषनिःस्वनैः ।।१६।।

कृष्णरामायिते द्वे तु गोपायन्त्यश्च काश्चन । वत्सायतीं हन्ति चान्या तत्रैका तु बकायतीम् ।।१७।।

आहूय दूरगा यद्वत् कृष्णस्तमनुकुर्वतीम् । वेणुं क्व णन्तीं क्रीडन्तीमन्याः शंसन्ति साध्विति ।।१८।।

कस्यांचित् स्वभुजं न्यस्य चलन्त्याहापरा ननु । कृष्णो।हं पश्यत गतिं ललितामिति तन्मनाः ।।१९।।

मा भैष्ट वातवर्षाभ्यां तत्त्राणां विहितं मया । इत्युक्त्वैकेन हस्तेन यतन्त्युन्निदधे।म्बरम् ।।२०।।

आरुह्यैका पदा।।क्रम्य शिरस्याहापरां नृप । दुष्टाहे गच्छ जातो।हं खलानां ननु दण्डधृक् ।।२१।।

तत्रैकोवाच हे गोपा दावाग्निं पश्यतोल्बणम् । चक्षूंष्याश्वपिदध्वं वो विधास्ये क्षेममञ्जसा ।।२२।।

बद्धान्यया स्रजा काचित्तन्वी तत्र उलूखले । भीता सुदृक् पिधायास्यं भेजे भीतिविडम्बनम् ।।२३।।

एवं कृष्णं पृच्छमाना वृन्दावनलतास्तरून् । व्यचक्षत वनोद्देशे पदानि परमात्मनः ।।२४।।

पदानि व्यक्तमेतानि नन्दसूनोर्महात्मनः । लक्ष्यन्ते हि ध्वजाम्भोजवज्राङ्कुशयवादिभिः ।।२५।।

तैस्तैः पदैस्तत्पदवीमन्विच्छन्त्यो।ग्रतो।बलाः । वध्वाः पदैः सुपृक्तानि विलोक्यार्ताः समब्रुवन् ।।२६।।

कस्याः पदानि चैतानि याताया नन्दसूनुना । अंसन्यस्तप्रकोष्ठायाः करेणोः करिणा यथा ।।२७।।

अनया।।राधितो नूनं भगवान् हरिरीश्वरः । यन्नो विहाय गोविन्दः प्रीतो यामनयद् रहः ।।२८।।

धन्या अहो अमी आल्यो गोविन्दाङ्घ्रयब्जरेणवः । यान् ब्रह्मेशो रमा देवी दधुर्मुर्ध्न्यघनुत्तये ।।२९।।

तस्या अमूनि नः क्षोभं कुर्वन्त्युच्चैः पदानि यत् । यैकापहृत्य गोपीनां रहो भुङ्क्ते।च्युताधरम् ।।३०।।

न लक्ष्यन्ते पदान्यत्र तस्या नूनं तृणाङ्कुरैः । खिद्यत्सुजाताङ्घ्रितलामुन्निन्ये प्रेयसीं प्रियः ।।३१।।

इमान्यधिकमग्नानि पदानि वहतो वधूम् । गोप्यः पश्यत कृष्णस्य भाराक्रान्तस्य कामिनः ।।३२।।

अत्रावरोपिता कान्ता पुष्पहेतोर्महात्मना । अत्र प्रसूनावचयः प्रियार्थे प्रेयसा कृतः । प्रपदाक्रमणे एते पश्यतासकले पदे ।।३३।।

केशप्रसाधनं त्वत्र कामिन्याः कामिना कृतम् । तानि चूडयता कान्तामुपविष्टमिह ध्रुवम् ।।३४।।

रेमे तया चात्मरत आत्मारामो।प्यखण्डितः । कामिनां दर्शयन् दैन्यं स्त्रीणां चैव दुरात्मताम् ।।३५।।

इत्येवं दर्शयन्त्यस्ताश्चेरुर्गोप्यो विचेतसः । यां गोपीमनयत् कृष्णो विहायान्याः स्त्रियो वने ।।३६।।

सा च मेने तदा।।त्मानं वरिष्ठं सर्वयोषिताम् । हित्वा गोपीः कामयाना मामसौ भजते प्रियः ।।३७ ।।

ततो गत्वा वनोद्देशं दृप्ता केशवमब्रवीत् । न पारये।हं चलितुं नय मां यत्र ते मनः ।।३८।।

एवमुक्तः प्रियामाह स्कन्ध आरुह्यतामिति । ततश्चान्तर्दधे कृष्णः सा वधूरन्वतप्यत ।।३९।।

हा नाथ रमण प्रेष्ठ क्व सि क्व सि महाभुज । दास्यास्ते कृपणाया मे सखे दर्शय सन्निधिम् ।।४०।।

अन्विच्छन्त्यो भगवतो मार्गं गोप्यो।विदूरतः । ददृशुः प्रियविश्लेषमोहितां दुःखितां सखीम् ।।४१।।

तया कथितमाकर्ण्य मानप्राप्तिं च माधवात् । अवमानं च दौरात्म्याद् विस्मयं परमं ययुः ।।४२।।

ततो।विशन् वनं चन्द्रज्योत्स्न यावद् विभाव्यते । तमः प्रविष्टमालक्ष्य ततो निववृतुः स्त्रियः ।।४३।।

तन्मनस्कास्तदालापास्तद्विचेष्टास्तदात्मिकाः । तग्दुणानेव गायन्त्यो नात्मागाराणि सस्मरुः ।।४४।।

पुनः पुलिनमागत्य कालिन्द्याः कृष्णभावनाः । समवेता जगुः कृष्णं तदागमनकाङ्क्षिताः ।।४५।।

इति श्रीमद्बागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे रासक्रीडायां कृष्णान्वेषणं नाम त्रिंशो।ध्यायः ।।३०।।