सप्तविंशो।ध्यायः

श्रीशुक उवाच

गोवर्धने धृते शैल आसाराद् रक्षिते व्रजे । गोलोकादाव्रजत्कृष्णं सुरभिः शक्र एव च ।।१।।

विविक्त उपसङ्गम्य व्रीडितः कृतहेलनः । पस्पर्श पादयोरेनं किरीटेनार्कवर्चसा ।।२।।

दृष्टश्रुतानुभावो।स्य कृष्णस्यामिततेजसः । नष्टत्रिलोकेशमद इन्द्र आह कृताञ्जलिः ।।३।।

इन्द्र उवाच -

विशुद्धसत्त्वं तव धाम शान्तं तपोमयं ध्वस्तरजस्तमस्कम् । मायामयो।यं गुणसम्प्रवाहो न विद्यते ते।ग्रहणानुबन्धः ।।४।।

कुतो नु तद्धेतव ईश तत्कृता लोभादयो ये।बुधलिङ्गभावाः । तथापि दण्डं भगवान् विभर्ति धर्मस्य गुप्त्यै खलनिग्रहाय ।।५।।

पिता गुरुस्त्वं जगतामधीशो दुरत्ययः काल उपात्तदण्डः । हिताय स्वेच्छातनुभिः समीहसे मानं विधुन्वञ्जगदीशमानिनाम् ।।६।।

ये मद्विधाज्ञा जगदीशमानिनस्त्वां वीक्ष्य काले।भयमाशु तन्मदम् । हित्वा।।र्यमार्गं प्रभजन्त्यपस्मया ईहा खलानामपि ते।नुशासनम् ।।७।।

स त्वं ममैश्वर्यमदप्लुतस्य कृतागसस्ते।विदुषः प्रभावम् । क्षन्तुं प्रभो।थार्हसि मूढचेतसो मैवं पुनर्भून्मतिरीश मे।सती ।।८।।

तवावतारो।यमधोक्षजेह स्वयम्भराणामुरुभारजन्मनाम् । चमूपतीनामभवाय देव भवाय युष्मच्चरणानुवर्तिनाम् ।।९।।

नमस्तुभ्यं भगवते पुरुषाय महात्मने । वासुदेवाय कृष्णाय सात्वतां पतये नमः ।।१०।।

स्वच्छन्दोपात्तदेहाय विशुद्धज्ञानमूर्तये । सर्वस्मै सर्वबीजाय सर्वभूतात्मने नमः ।।११।।

मयेदं भगवन्! गोष्ठनाशायासारवायुभिः । चेष्टितं विहते यज्ञो मानिना तीव्रमन्युना ।।१२।।

त्वयेशानुगृहीतो।स्मि ध्वस्तस्तम्भो वृथोद्यमः । ईश्वरं गुरुमात्मानं त्वामहं शरणं गतः ।।१३।।

श्रीशुक उवाच -
एवं सङ्कीर्तितः कृष्णो मघोना भगवानमुम् । मेघगम्भीरया वाचा प्रहसन्निदमब्रवीत् ।।१४।।

श्रीभगवानुवाच -
मया ते।कारि मघवन्! मखभङ्गो।नुगृता । मदनुस्मृतये नित्यं मत्तस्येन्द्र! श्रिया भृशम् ।।१५।।

मामैश्वर्यश्रीमदान्धो दण्डपाणिं न पश्यति । तं भ्रंशयामि सम्पद्भ्यो यस्य चेच्छाम्यनुग्रहम् ।।१६।।

गम्यतां शक्र! भद्रं वः क्रियतां मे।नुशासनम् । स्थीयतां स्वाधिकारेषु युक्तैर्वः स्तम्भवर्जितैः।।१७।।

अथाह सुरभिः कृष्णमभिवन्द्यमनस्विनी । स्वसन्तानैरुपामन्त्र्य गोपरूपिणमीश्वरम् ।।१८।।

सुरभिरुवाच -

कृष्ण कृष्ण महायोगिन्! विश्वात्मन्! विश्वसम्भव! । भवता लोकनाथेन सनाथा वयमच्युत! ।।१९।।

त्वं नः परमकं दैवं त्वं न इन्द्रो जगत्पते! । भवाय भव गोविप्रदेवानां ये च साधवः ।।२०।।

इन्द्रं नस्त्वाभिषेक्ष्यामो ब्रह्मणा नोदिता वयम् । अवतीर्णो।सि विश्वात्मन्! भूमेर्भारापनुत्तये 

श्रीशुक उवाच -

एवं कृष्णमुपामन्त्र्य सुरभिः पयसा।।त्मनः । जलैराकाशगङ्गाया ऐरावतकरोद्धृतैः ।।२२।।

इन्द्रः सुरर्षिभिः साकं नोदितो देवमातृभिः । अभ्यषिञ्चत दाशार्हं गोविन्द इति चाभ्यधात् ।।२३।।

तत्रागतास्तुम्बुरुनारदादयो गन्धर्वविद्याधरसिद्धचारणाः । जगुर्यशो लोकमलापहं हरेः सुराङ्गनाः संननृतुर्मुदान्विताः ।।२४।।

तं तुष्टुवुर्देवनिकायकेतवो व्यवाकिरंश्चाद्बुतपुष्पवृष्टिभिः । लोकाः परां निर्वृतिमाप्नुवंस्त्रयो गावस्तदा गामनयन् पयोद्रुताम् ।।२५।।

नानारसौघाः सरितो वृक्षा आसन् मधुस्रवाः । अकृष्टपच्यौषधयो गिरयो।बिभ्रदुन्मणीन् ।।२६।।

कृष्णो।भिषिक्त एतानि सत्त्वानि कुरुनन्दन! । निर्वैराण्यभवंस्तात क्रूराण्यपि निसर्गतः ।।२७।।

इति गोगोकुलपतिं गोविंदमभिषिच्य सः । अनुज्ञातो ययौ शक्रो वृतोदेवादिभिर्दिवम् ।।२८।।

इति श्रीमद्बागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे इन्द्रस्तुतिर्नाम सप्तविंशो।ध्यायः ।।२।।