अथाष्टाविंशो।ध्यायः

श्रीशुक उवाच

एकादश्यां निराहारः समभ्यर्च्य जनार्दनम् । स्नतुं नंदस्तु कालिंद्या द्वादश्यां जलमाविशत् ।।१।।

तं गृहीत्वानयद् भृत्यो वरुणस्यासुरो।न्तिकम् । अविज्ञायासुरीं वेलां प्रविष्टमुदकं निशि ।।२।।

चुक्रुशुस्तमपश्यन्तः कृष्ण! रामेति गोपकाः । भगवांस्तदुपश्रुत्य पितरं वरुणाहृतम् । तदन्तिकं गतो राजन्! स्वानामभयदो विभुः ।।३।।

प्राप्तं वीक्ष्य हृषीकेशं लोकपालः सपर्यया । महत्या पूजयित्वा।।ह तद्दर्शनमहोत्सवः ।।४।।

वरुण उवाच

अद्य मे निभृतो देहो।द्यैवार्थो।धिगतः प्रभो! । त्वत्पादभाजो भगवन्नवापुः पारमध्वनः ।।५।।

नमस्तुभ्यं भगवते ब्रह्मणे परमात्मने । न यत्र श्रूयते माया लोकसृष्टिविकल्पना ।।६।।

अजानता मामकेन मूढेनाकार्यवेदिना । आनीतो।यं तव पिता तद् भवान् क्षन्तुमर्हति ।।७।। 

ममाप्यनुग्रहं कृष्ण! कर्तुमर्हस्यशेषदृक् । गोविन्द! नीयतामेष पिता ते पितृवत्सल! ।।८।।

श्रीशुक उवाच

एवं प्रसादितः कृष्णो भगवानीश्वरेश्वरः । आदायागात् स्वपितरं बन्धूनां चावहन् मुदम् ।।९।।

नन्दस्त्वतीन्द्रियं दृा लोकपालमहोदयम् । कृष्णे च सन्नतिं तेषां ज्ञातिभ्यो विस्मितो।ब्रवीत् ।।१०।।

ते त्वौत्सुक्यधियो राजन्! मत्वा गोपास्तमीश्वरम् । अपि नः स्वगतिं सूक्ष्मामुपाधास्यदधीश्वरः।।११।।

इति स्वानां स भगवान् विज्ञायाखिलदृक् स्वयम् । सङ्कल्पसिद्धये तेषां कृपयैतदचिन्तयत् ।।१२।।

जनो वै लोक एतस्मिन्नविद्याकामकर्मभिः । उच्चावचासु गतिषु न वेद स्वां गतिं भ्रमन्! ।।१३।।

इति सञ्चिन्त्य भगवान् महाकारुणिको हरिः । दर्शयामास लोकं स्वं गोपानां तमसः परम् ।।१४।।

सत्यं ज्ञानमनन्तं यद् ब्रह्म ज्योतिः सनातनम् । यद्धि पश्यन्ति मुनयो गुणापाये समाहिताः ।।१५।।

ते तु ब्रह्महृदं नीता मग्नाः कृष्णेन चोद्धृताः । ददृशुब्रह्मणो लोकं यत्राक्रूरो।ध्यगात् पुरा ।।१६।।

नंदादयस्तु तं द्दृष्ट्वा परमानंदनिर्वृताः । कृष्णं च तत्र छन्दोभिः स्तूयमानं सुविस्मिताः ।।१७।।

इति श्रीमद्बागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे अष्टाविंशो।ध्यायः ।।२८।।