पञ्चविंशो।ध्यायः

श्रीशुकउवाच

इन्द्र्रस्तदा।।त्मनः पूजां विज्ञाय विहतां नृप! । गोपेभ्यः कृष्णनाथेभ्यो नंदादिभ्यश्चुकोप सः ।।१।।

गणं सांवर्तकं नाम मेघानां चान्तकारिणाम् । इन्द्रः प्राचोदयत् क्रुद्धो वाक्यं चाहेशमान्युत ।।२।।

अहो श्रीमदमाहात्म्यं गोपानां काननौकसाम् । कृष्णं मर्त्यमुपाश्रित्य ये चक्रुर्देवहेलनम् ।।३।।

यथादृढैः कर्ममयैः क्रतुभिर्नामनौनिभैः । विद्यामान्वीक्षिकीं हित्वा तितीर्षन्ति भवार्णवम् ।।४।।

वाचालं बालिशं स्तब्धमज्ञां पण्डितमानिनम् । कृष्णं मर्त्यमुपाश्रित्य गोपा मे चक्रुरप्रियम् ।।५।।

एषां श्रियावलिप्तानां कृष्णेनाध्मायितात्मनाम् । धुनुत श्रीमदस्तम्भं पशून् नयत संक्षयम् ।।६।।

अहं चैरावतं नागमारुह्यानुव्रजे व्रजम् । मरुग्दणैर्महावीर्यैर्नन्दगोष्ठजिघांसया ।।

श्रीशुक उवाच

इत्थं मघवता।।ज्ञाप्ता मेघा निर्मुक्तबन्धनाः । नन्दगोकुलमासारैः पीडयामासुरोजसा ।।८।।

विद्योतमाना विद्युद्बिः स्तनन्तः स्तनयित्नुभिः । तीव्रैर्मरुग्दणैर्नुन्ना ववृषुर्जलशर्कराः ।।९।।

स्थूणास्थूला वर्षधारा मुञ्चत्स्वभ्रेष्वभीक्ष्णशः । जलौधैः प्लाव्यमाना भूर्नादृश्यत नतोन्नतम् ।।१०।।

अत्यासारातिवातेन पशवो जातवेपनाः । गोपा गोप्यश्च शीतार्ता गोविन्दं शरणं ययुः ।।११।।

शिरः सुतांश्च कायेन प्रच्छाद्यासारपीडिताः । वेपमाना भगवतः पादमूलमुपाययुः ।।१२।।

कृष्ण कृष्ण महाभाग! त्वन्नाथं गोकुलं प्रभो! । त्रातुमर्हसि देवान्नः कुपिताद् भक्तवत्सल! ।।१३।।

शिलावर्षनिपातेन हन्यमानमचेतनम् । निरीक्ष्य भगवान् मेने कुपितेन्द्रकृतं हरिः ।।१४।।

अपर्त्त्वत्युल्बणं वर्षमतिवातं शिलामयम् । स्वयागे विहते।स्माभिरिन्द्रो नाशाय वर्षति ।।१५।।

तत्र प्रतिविधिं सम्यगात्मयोगेन साधये । लोकेशमानिनां मौढयाद्धरिष्ये श्रीमदं तमः ।।१६।।

न हि सद्बावयुक्तानां सुराणामीशविस्मयः । मत्तो।सतां मानभङ्गः प्रशमायोपकल्पते ।।१७।।

तस्मान्मच्छरणं गोष्ठं मन्नाथं मत्परिग्रहम् । गोपाये स्वात्मयोगेन सो।यं मे व्रत आहितः ।।१८।।

इत्युक्त्वैकेन हस्तेन कृत्वा गोवर्धनाचलम् । दधार लीलया कृष्णश्छत्राकमिव बालकः ।।१९।।

अथाह भगवान् गोपान् हे।म्ब तात व्रजौकसः । यथोपजोषं विशत गिरिगर्तं सगोधनाः ।।२०।।

न त्रास इह वः कार्यो मद्धस्ताद्रिनिपातने । वातवर्षभयेनालं तत्त्राणं विहितं हि वः ।।२१।।

तथा निर्विविशुर्गर्तं कृष्णाश्वासितमानसाः । यथावकाशं सधनाः सव्रजाः सोपजीविनः ।।२२।।

क्षुत्तृड्व्यथां सुखापेक्षां हित्वा तैर्व्रजवासिभिः । वीक्ष्यमाणो दधावद्रिं सप्ताहं नाचलत् पदात् ।।२३।।

कृष्णयोगानुभावं तं निशाम्येन्द्रो।तिविस्मितः । निःस्तम्भो भ्रष्टसङ्कल्पः स्वान् मेधान् संन्यवारयत् ।।२४।।

खं व्यभ्रमुदितादित्यं वातवर्षं च दारुणम् । निशाम्योपरतं गोपान् गोवर्धनधरो।ब्रवीत् ।।२५।।

निर्यात त्यजत त्रासं गोपाः सस्त्रीधनार्भकाः । उपारतं वातवर्षं व्युदप्रायाश्च निम्नगाः ।।२६।।

ततस्ते निर्ययुर्गोपाः स्वं स्वमादाय गोधनम् । शकटोढोपकरणं स्त्रीबालस्थविराः शनैः ।।२७।।

भगवानपि तं शैलं स्वस्थाने पूर्ववत् प्रभुः । पश्यतां सर्वभूतानां स्थापयामास लीलया ।।२८।।

तं प्रेमवेगान्निभृता व्रजौकसो यथा समीयुः परिरम्भणादिभिः । गोप्यश्च सस्नेह्मपूजयन् मुदा दध्यक्षताद्बिर्युयुजुः सदाशिषः ।।२९।।

यशोदा रोहिणी नन्दो रामश्च बलिनां वरः । कृष्णमालिङ्ग्य युयुजुराशिषः स्नेह्कातराः ।।३०।।

दिवि देवगणाः साध्याः सिद्धगन्धर्वचारणाः । तुष्टुवुर्मुमुचुस्तुष्टाः पुष्पवर्षाणि पार्थिव! ।।३१।।

शङ्खदुन्दुभयो नेदुर्दिवि देवप्रणोदिताः । जगुर्गन्धर्वपतयस्तुम्बुरुप्रमुखा नृप! ।।३२।।

ततो।नुरक्तैः पशुपैः परिश्रितो राजन्! स गोष्ठं सबलो।व्रजद्धरिः । तथाविधान्यस्य कृतानि गोपिका गायन्त्य ईयुर्मुदिता हृदिस्पृशः ।।३३।।

इति श्रीमद्बागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे पञ्चविंशो।ध्यायः ।। २५ ।।