श्रीशुक उवाच
भगवानपि तत्रैव बलदेवेन संयुतः । अपश्यन्निवसन् गोपानिन्द्रयागकृतोद्यमान् ।।१।।
तदभिज्ञो।पि भगवान् सर्वात्मा सर्वदर्शनः । प्रश्रयावनतो।पृच्छद् वृद्धान् नन्दपुरोगमान् ।।२।।
कथ्यतां मे पितः को।यं सम्भ्रमो व उपागतः । किं फलं कस्य चोद्देशः केन वा साध्यते मखः ।।३।।
एतद् ब्रूहि महान् कामो मह्यं शुश्रूषवे पितः । न हि गोप्यं हि साधूनां कृत्यं सर्वात्मनामिह ।।४।।
अस्त्यस्वपरदृष्टीनाममित्रोदास्तविद्विषाम् । उदासीनो।रिवद् वर्ज्य आत्मवत् सुहृदुच्यते ।।५।।
ज्ञात्वाज्ञात्वा च कर्माणि जनो।यमनुतिष्ठति । विदुषः कर्मसिद्धिः स्यात्तथा नाविदुषो भवेत् ।।६।।
तत्र तावत् क्रियायोगो भवतां किं विचारितः । अथवा लौकिकस्तन्मे पृच्छतः साधु भण्यताम् ।।७।।
नन्द उवाच
पर्जन्यो भगवानिन्द्रो मेघास्तस्यात्ममूर्तयः । ते।भिवर्षन्ति भूतानां प्रीणनं जीवनं पयः ।।८।।
तं तात वयमन्ये च वार्मुचां पतिमीश्वरम् । द्रव्यैस्तद्रेतसा सिद्धैर्यजन्ते क्रतुभिर्नराः ।।९।।
तच्छेषेणोपजीवन्ति त्रिवर्गफलहेतवे । पुंसां पुरुषकाराणां पर्जन्यः फलभावनः ।।१०।।
य एवं विसृजेद् धर्मं पारम्पर्यागतं नरः । कामाल्लोभाद् भयाद् द्वेषात् स वै नाप्नोति शोभनम् ।।११।।
श्रीशुक उवाच -
वचो निशम्य नन्दस्य तथान्येषां व्रजौकसाम् । इन्द्राय मन्युं जनयन् पितरं प्राह केशवः ।।१२।।
श्रीभगवानुवाच -
कर्मणा जायते जन्तुः कर्मणैव विलीयते । सुखं दुःखं भयं क्षेमं कर्मणैवाभिपद्यते ।।१३।।
अस्ति चेदीश्वरः कश्चित् फलरूप्यन्यकर्मणाम् । कर्तारं भजते सो।पि न ह्यकर्तुः प्रभुर्हि सः ।।१४।।
किमिन्द्रेणेह भूतानां स्वस्वकर्मानुवर्तिनाम् । अनीशेनान्यथा कर्तुं स्वभावविहितं नृणाम् ।।१५।।
स्वभावतन्त्रो हि जनः स्वभावमनुवर्तते । स्वभावस्थमिदं सर्वं सदेवासुरमानुषम् ।।१६।।
देहानुच्चावचाञ्जन्तुः प्राप्योत्सृजति कर्मणा । शत्रुर्मित्रमुदासीनः कर्मैव गुरुरीश्वरः ।।१७।।
तस्मात् सम्पूजयेत् कर्म स्वभावस्थः स्वकर्मकृत् । अञ्जसा येन वर्तेत तदेवास्य हि दैवतम् ।।१८।।
आजीव्यैकतरं भावं यस्त्वन्यमुपजीवति । न तस्माद् विन्दते क्षेमं जारं नार्यसती यथा ।।१९।।
वर्तेत ब्रह्मणा विप्रो राजन्यो रक्षया भुवः । वैश्यस्तु वार्तया जीवेच्छूद्रस्तु द्विजसेवया ।।२०।।
कृषिवाणिज्यगोरक्षा कुसीदं तुर्यमुच्यते । वार्ता चतुर्विधा तत्र वयं गोवृत्तयो।निशम् ।।२१।।
सत्त्वं रजस्तम इति स्थित्युत्पत्त्यन्तहेतवः । रजसोत्पद्यते विश्वमन्योन्यं विविधं जगत् ।।२२।।
रजसा चोदिता मेघा वर्षन्त्यम्बूनि सर्वतः । प्रजास्तैरेव सिद्धयन्ति महेन्द्रः किं करिष्यति ।।२३।।
न नः पुरो जनपदा न ग्रामा न गृहा वयम् । नित्यं वनौकसस्तात वनशैलनिवासिनः ।।२४।।
तस्माद् गवां ब्राह्मणानामद्रेश्चारभ्यतां मखः । य इन्द्रयागसम्भारास्तैरयं साध्यतां मखः ।।२५।।
पच्यन्तां विविधाः पाकाः सूपान्ताः पायसादयः । संयावापूपशष्कुल्यः सर्वदोहश्च गृह्यताम् ।।२६।।
हूयन्तामग्नयः सम्यग् ब्राह्मणैर्ब्रह्मवादिभिः । अन्नं बहुविधं तेभ्यो देयं वो धेनुदक्षिणाः ।।२७।।
अन्येभ्यश्चाश्वचाण्डालपतितेभ्यो यथार्हतः । यवसं च गवां दत्वा गिरये दीयतां बलिः ।।२८।।
स्वलङ्कृता भुक्तवन्तः स्वनुलिप्ताः सुवाससः । प्रदक्षिणं च कुरुत गोविप्रानलपर्वतान् ।।२९।।
एतन्मम मतं तात क्रियतां यदि रोचते । अयं गोब्राह्मणाद्रीणां मह्यं च दयितो मखः ।।३०।।
श्रीशुक उवाच -
कालात्मना भगवता शक्रदर्पं जिघांसता । प्रोक्तं निशम्य नन्दाद्याः साध्वगृन्त तद्वचः ।।३१।।
तथा च व्यदधुः सर्वं यथा।।ह मधुसूदनः । वाचयित्वा स्वस्त्ययनं तद् द्रव्येण गिरिद्विजान् ।।३२।।
उपहृत्य बलीन् सर्वानादृता यवसं गवाम् । गोधनानि पुरस्कृत्य गिरिं चक्रुः प्रदक्षिणम् ।।३३।।
अनांस्यनडुद्युक्तानि ते चारुह्य स्वलङ्कृताः । गोप्यश्च कृष्णवीर्याणि गायन्त्यः सद्विजाशिषः ।।३४।।
कृष्णस्त्वन्यतमं रूपं गोपविश्रम्भणं गतः । शैलो।स्मीति ब्रुवन् भूरि बलिमादद्बृहद्वपुः ।।३५।।
तस्मै नमो व्रजजनैः सह चक्रे।।त्मना।।त्मने । अहो पश्यत शैलो।सौ रूपी नो।नुग्रहं व्यधात् ।।३६।।
एषो।वजानतो मर्त्यान् कामरूपी वनौकसः । हन्ति ह्यस्मै नमस्यामः शर्मणे आत्मनो गवाम् ।।३७।।
इत्यद्रिगोद्विजमखं वासुदेवप्रणोदिताः ।। यथा विधाय ते गोपाः सहकृष्णा व्रजम् ययुः ।।३८।।
इति श्रीमद्बागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे चतुर्विंशो।ध्यायः ।।२४।।