अथत्रयोविंशो।ध्यायः

गोपा ऊचुः

राम राम महावीर्य! कृष्ण! दुष्टनिवर्हण! । एषा वै बाधते क्षुन्नस्तच्छान्तिं कर्तुमर्हथः ।।१।।

श्रीशुक उवाच -

इति विज्ञापितो गोपैर्भगवान् देवकीसुतः । भक्ताया विप्रभार्यायाः प्रसीदन्निदमब्रवीत् ।।२।।

प्रयात देवयजनं ब्राह्मणा ब्रह्मवादिनः । सत्रमाङ्गिरसं नाम ह्यासते स्वर्गकाम्यया ।।३।।

तत्र गत्वौदनं गोपा याचतास्मद्विसर्जिताः । कीर्तयन्तो भगवत आर्यस्य मम चाभिधाम् ।।४।।

इत्यादिष्टा भगवता गत्वायाचन्त ते तथा । कृताञ्जलिपुटा विप्रान् दण्डवत् पतिता भुवि ।।५।।

हे भूमिदेवाः शृणुत कृष्णस्यादेशकारिणः । प्राप्ताञ्जानीत भद्रं वो गोपान् नो रामचोदितान् ।।६।।

गाश्चारयन्तावविदूर ओदनं रामाच्युतौ वो लषतो बुभुक्षितौ । तयोर्द्विजा ओदनमर्थिनोर्यदि श्रद्धा च वो यच्छत धर्मवित्तमाः ।।७।।

दीक्षायाः पशुसंस्थायाः सौत्रामण्याश्च सत्तमाः । अन्यत्र दीक्षितस्यापि नान्नमश्नन् हि दुष्यति ।।८।।

इति ते भगवद्याच्ञां शृणवन्तो।पि न शुश्रुवुः । क्षुद्राशा भूरिकर्माणो बालिशा वृद्धमानिनः ।।९।।

देशः कालः पृथग् द्रव्यं मन्त्रतन्त्रर्त्विजो।ग्नयः । देवता यजमानश्च क्रतुर्धर्मश्च यन्मयः ।।१०।।

तं ब्रह्म परमं साक्षाद् भगवन्तमधोक्षजम् । मनुष्यदृष्टया दुष्प्रज्ञा मर्त्यात्मानो न मेनिरे ।।११।।

न ते यदोमिति प्रोचुर्न नेति च परंतप! । गोपा निराशाः प्रत्येत्य तथोचुः कृष्णरामयोः ।।१२।।

तदुपाकर्ण्य भगवान् प्रहस्य जगदीश्वरः । व्याजहार पुनर्गोपान् दर्शयँल्लौकिकीं गतिम् ।।१३।।

मां ज्ञापयत पत्नीभ्यः ससंकर्षणमागतम् । दास्यन्ति काममन्नं वः स्न्ग्धिा मय्युषिता धिया ।।१४।।

गत्वाथ पत्नीशालायां दृा।।सीनाः स्वलङ्कृताः । नत्वा द्विजसतीर्गोपाः प्रश्रिता इदमब्रुवन् ।।१५।।

नमो वो विप्रपत्नीभ्यो निबोधत वचांसि नः । इतो।विदूरे चरता कृष्णेनेहेषिता वयम् ।।१६।।

गाश्चारयन् सगोपालैः सरामो दूरमागतः । बुभुक्षितस्य तस्यान्नं सानुगस्य प्रदीयताम् ।।१७।।

श्रुत्वाच्युतमुपायातं नित्यं तद्दर्शनोत्सुकाः । तत्कथाक्षिप्तमनसो बभूवुर्जातसम्भ्रमाः ।।१८।।

चतुर्विधं बहुगुणमन्नमादाय भाजनैः । अभिसस्रुः प्रियं सर्वाः समुद्रमिव निम्नगाः ।।१९।।

निषिध्यमानाः पतिभिर्भ्रातृभिर्बन्धुभिः सुतैः । भगवत्युत्तमश्लोके दीर्घश्रुतधृताशयाः ।।२०।।

यमुनोपवने।शोकनवपल्लवमण्डिते । विचरन्तं वृतं गोपैः साग्रजं ददृशुः स्त्रियः ।।२१।।

श्यामं हिरण्यपरिधिं वनमाल्यबर्हधातुप्रवालनटवेषमनुव्रतांसे ।  विन्यस्तहस्तमितरेण धुनानमब्जं कर्णोत्पलालककपोलमुखाब्जहासम् ।।२२।।

प्रायः श्रुतप्रियतमोदयकर्णपूरैर्यस्मिन् निमग्नमनसस्तमथाक्षिरन्ध्रैः । अन्तः प्रवेश्य सुचिरं परिरभ्य तापं प्राज्ञां यथाभिमतयो विजहुर्नरेन्द्र! ।।२३।।

तास्तथा त्यक्तसर्वाशाः प्राप्ता आत्मदिदृक्षया । विज्ञायाखिलदृग्द्रष्टा प्राह प्रहसिताननः ।।२४।।

स्वागतं वो महाभागा आस्यतां करवाम किम् । यन्नो दिदृक्षया प्राप्ता उपपन्नमिदं हि वः ।।२५।।

नन्वद्धा मयि कुर्वन्ति कुशलाः स्वार्थदर्शनाः । अहैतुक्यव्यवहितां भक्तिमात्मप्रिये यथा ।।२६।।

प्राणबुद्धिमनःस्वात्मदारापत्यधनादयः । यत्सम्पर्कात् प्रिया आसंस्ततः को न्वपरः प्रियः ।।२७।।

तद् यात देवयजनं पतयो वो द्विजातयः । स्वसत्रं पारयिष्यन्ति युष्माभिर्गृहमेधिनः ।।२८।।

पत्न्य ऊचुः -

मैवं विभो।र्हति भवान् गदितुं नृशंसं सत्यं कुरुष्व निगमं तव पादमूलम् । प्राप्ता वयं तुलसिदाम पदावसृष्टं केशैर्निवोढुमतिलङ्घय समस्तबन्धून् ।।२९।।

गृन्ति नो न पतयः पितरौ सुता वा न भ्रातृबन्धुसुहृदः कुत एव चान्ये । तस्माद् भवत्प्रपदयोः पतितात्मनां नो नान्या भवेद् गतिररिन्दम तद् विधेहि ।।३०।।

श्रीभगवानुवाच -

पतयो नाभ्यसूयेरन् पितृभ्रातृसुतादयः । लोकाश्च वो मयोपेता देवा अप्यनुमन्वते ।।३१।।

न प्रीतये।नुरागाय ह्यङ्गसङ्गो नृणामिह । तन्मनो मयि युञ्जाना अचिरान्मामवाप्स्यथ ।।३२।।

श्रीशुक उवाच -

इत्युक्ता द्विजपत्न्यस्ता यज्ञावाटं पुनर्गताः । ते चानसूयवः स्वाभिः स्त्रीभिः सत्रमपारयन् ।।३३।।

तत्रैका विधृता भर्त्रा भगवन्तं यथाश्रुतम् । हृदोपगृह्य विजहौ देहं कर्मानुबन्धनम् ।।३४।।

भगवानपि गोविन्दस्तेनैवान्नेन गोपकान् । चतुर्विधेनाशयित्वा स्वयं च बुभुजे प्रभुः ।।३५।।

एवं लीलानरवपुर्नृलोकमनुशीलयन् । रेमे गोगोपगोपीनां रमयन् रूपवाक्कृतैः ।।३६।।

अथानुस्मृत्य विप्रास्ते अन्वतप्यन् कृतागसः । यद् विश्वेश्वरयोर्याच्ञामहन्म नृविडम्बयोः ।।३७।।

दृा स्त्रीणां भगवती कृष्णे भक्तिमलौकिकीम् । आत्मानं च तया हीनमनुतप्ता व्यगर्हयन् ।।३८।।

धिग्जन्म नस्त्रिवृद् विद्यां धिग् व्रतं धिग् बहुज्ञाताम् । धिक् कुलं धिक् क्रियादाक्ष्यं विमुखा ये त्वधोक्षजे ।।३९।।

नूनं भगवतो माया योगिनामपि मोहिनी । यद् वयं गुरवो नणां स्वार्थे मुह्यामहे द्विजाः ।।४०।।

अहो पश्यत नारीणामपि कृष्णे जगग्दुरौ । दुरन्तभावं यो।विध्यन्मृत्युपाशान् गृहाभिधान् ।।४१।।

नासां द्विजातिसंस्कारो न निवासो गुरावपि । न तपो नात्ममीमांसा न शौचं न क्रियाः शुभाः ।।४२।।

अथापि ह्युत्तमश्लोके कृष्णे योगेश्वरेश्वरे । भक्तिर्दृढा न चास्माकं संस्कारादिमतामपि ।।४३।।

ननु स्वार्थविमूढानां प्रमत्तानां गृहेहया । अहो नः स्मारयामास गोपवाक्यैः सतां गतिः ।।४४।।

अन्यथा पूर्णकामस्य कैवल्याद्याशिषां पतेः । ईशितव्यैः किमस्माभिरीशस्यैतद् विडम्बनम् ।।४५।।

हित्वान्यान् भजते यं श्रीः पादस्पर्शाशया सकृत् । आत्मदोषापवर्गेण तद्याच्ञा जनमोहिनी ।।४६।।

देशः कालः पृथग्द्रव्यं मन्त्रतन्त्रर्त्विजो।ग्नयः । देवता यजमानश्च क्रतुर्धर्मश्च यन्मयः ।।४७।।

स एष भगवान् साक्षाद् विष्णुर्योगेश्वरेश्वरः । जातो यदुष्वित्यशृण्म ह्यपि मूढा न विद्महे ।।४८।।

अहो वयं धन्यतमा येषां नस्तादृशीः स्त्रियः । भक्त्या यासां मतिर्जाता अस्माकं निश्चला हरौ ।।४९।।

नमस्तुभ्यं भगवते कृष्णायाकुण्ठमेधसे । यन्मायामोहितधियो भ्रमामः कर्मवर्त्मसु ।।५०।।

स वै न आद्यः पुरुषः स्वमायामोहितात्मनाम् । अविज्ञातानुभावानां क्षन्तुमर्हत्यतिक्रमम् ।।५१।।

इति स्वाघमनुस्मृत्य कृष्णे ते कृतहेलनाः । दिदृक्षवो।प्यच्युतयोः कंसाद्बीता न चाचलन् ।।५२।।

इति श्रीमद्बागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे यज्ञापत्न्युद्धरणं नाम त्रयोविंशो।ध्यायः ।।२३।।