श्रीशुक उवाच
हेमंते प्रथमे मासि नंदव्रजकुमारिकाः । चेरुर्हविष्यं भुञ्जानाः कात्यायन्यर्चनव्रतम् ।।१।।
आप्लुत्याम्भसि कालिन्द्या जलान्ते चोदिते।रुणे । कृत्वा प्रतिकृतिं देवीमानर्चुर्नृप सैकतीम् ।।२।।
गन्धैर्माल्यैः सुरभिभिर्बलिभिर्धूपदीपकैः । उच्चावचैश्चोपहारैः प्रवालफलतण्डुलैः ।।३।।
कात्यायनि महामाये महायोगिन्यधीश्वरि । नन्दगोपसुतं देवि पतिं मे कुरु ते नमः । इति मन्त्रं जपन्त्यस्ताः पूजां चक्रुः कुमारिकाः ।।४।।
एवं मासं व्रतं चेरुः कुमार्यः कृष्णचेतसः । भद्रकालीं समानर्चुर्भूयान्नन्दसुतः पतिः ।।५।।
उषस्युत्थाय गोत्रैः स्वैरन्योन्याबद्धबाहवः । कृष्णमुच्चैर्जगुर्यान्त्यः कालिन्द्यां स्नतुमन्वहम् ।।६।।
नद्यां कदाचिदागत्य तीरे निक्षिप्य पूर्ववत् । वासांसि कृष्णं गायन्त्यो विजह्रुः सलिले मुदा ।।७।।
भगवांस्तदभिप्रेत्य कृष्णो योगेश्वरेश्वरः । वयस्यैरावृतस्तत्र गतस्तत्कर्मसिद्धये ।।८।।
तासां वासांस्युपादाय नीपमारुह्य सत्वरः । हसद्बिः प्रहसन् बालैः परिहासमुवाच ह ।।९।।
अत्रागत्याबलाः कामं स्वं स्वं वासः प्रगृह्यताम् । सत्यं ब्रवाणि नो नर्म यद् यूयं व्रतकर्शिताः ।।१०।।
न मयोदितपूर्वं वा अनृतं तदिमे विदुः । एकैकशः प्रतीच्छध्वं सहैवोत सुमध्यमाः ।।११।।
तस्य तत् क्ष्वेलितं दृा गोप्यः प्रेमपरिप्लुताः । व्रीडिताः प्रेक्ष्य चान्योन्यं जातहासा न निर्ययुः ।।१२।।
एवं ब्रुवति गोविन्दे नर्मणा।।क्षिप्तचेतसः । आकण्ठमग्नाः शीतोदे वेपमानास्तमब्रुवन् ।।१३।।
मा।नयं भोः कृथास्त्वां तु नन्दगोपसुतं प्रियम् । जानीमो।ङ्ग! व्रजश्लाघ्यं देहि वासांसि वेपिताः।।१४।।
श्यामसुन्दर! ते दास्यः करवाम तवोदितम् । देहि वासांसि धर्मज्ञा! नो चेद् राज्ञो ब्रुवामहे ।।१५।।
श्रीभगवानुवाच -
भवत्यो यदि मे दास्यो मयोक्तं वा करिष्यथ । अत्रागत्य स्ववासांसि प्रतीच्छन्तु शुचिस्मिताः ।।१६।।
ततो जलाशयात् सर्वा दारिकाः शीतवेपिताः । पाणिभ्यां योनिमाच्छाद्य प्रोत्तेरुः शीतकर्शिताः।।१७।।
भगवानाह ता वीक्ष्य शुद्धभावप्रसादितः । स्कन्धे निधाय वासांसि प्रीतः प्रोवाच सस्मितम् ।।१८।।
यूयं विवस्त्रा यदपो धृतव्रता व्यगाहतैतत्तदु देवहेलनम् । बद्ध्वाञ्जलिं मूर्धन्यपनुत्तयें।हसः कृत्वा नमो।धो वसनं प्रगृह्यताम् ।।१९।।
इत्यच्युतेनाभिहितं व्रजाबला मत्वा विवस्त्राप्लवनं व्रतच्युतिम् । तत्पूर्तिकामास्तदशेषकर्मणां साक्षात्कृतं नेमुरवद्यमृग् यतः ।।२०।।
तास्तथावनता दृा भगवान् देवकीसुतः । वासांसि ताभ्यः प्रायच्छत् करुणस्तेन तोषितः ।।२१।।
दृढं प्रलब्धास्त्रपया च हापिताः प्रस्तोभिताः क्रीडनवच्च कारिताः । वस्त्राणि चैवापहृतान्यथाप्यमुं ता नाभ्यसूयन् प्रियसङ्गनिर्वृताः ।।२२।।
परिधाय स्ववासांसि प्रेष्ठसङ्गमसज्जिताः । गृहीतचित्ता नो चेलुस्तस्मिँल्लज्जायितेक्षणाः ।।२३।।
तासां विज्ञाय भगवान् स्वपादस्पर्शकाम्यया । धृतव्रतानां संकल्पमाह दामोदरो।बलाः ।।२४।।
संकल्पो विदितः साध्व्यो भवतीनां मदर्चनम् । मयानुमोदितः सो।सौ सत्यो भवितुमर्हति ।।२५।।
न मय्यावेशितधियां कामः कामाय कल्पते । भर्जिता क्व थिता धाना प्रायो बीजाय नेष्यते ।।२६।।
याताबला व्रजं सिद्धा मयेमा रंस्यथ क्षपाः । यदुद्दिश्य व्रतमिदं चेरुरार्यार्चनं सतीः ।।२७।।
श्रीशुक उवाच -
इत्यादिष्टा भगवता लब्धकामाः कुमारिकाः । ध्यायन्त्यस्तत्पदाम्भोजं कृच्छ्रान्निर्विविशुर्व्रजम् ।।२८।।
अथ गोपैः परिवृतो भगवान् देवकीसुतः । वृन्दावनाद् गतो दूरं चारयन् गाः सहाग्रजः ।।२९।।
निदाघार्कातपे तिग्मे छायाभिः स्वाभिरात्मनः । आतपत्रायितान् वीक्ष्य द्रुमानाह व्रजौकसः ।।३०।।
हे स्तोककृष्ण! हे अंशो श्रीदामन् सुबलार्जुन! । विशालर्षभ तेजस्विन् देवप्रस्थ वरूथप ।।३१।।
पश्यतैतान् महाभागान् परार्थैकान्तजीवितान् । वातवर्षातपहिमान् सहन्तो वारयन्ति नः ।।३२।।
अहो एषां वरं जन्म सर्वप्राण्युपजीवनम् । सुजनस्येव येषां वै विमुखा यान्ति नार्थिनः ।।३३।।
पत्रपुष्पफलच्छायामूलवल्कलदारुभिः । गन्धनिर्यासभस्मास्थितोक्मैः कामान् वितन्वते ।।३४।।
एतावज्जन्मसाफल्यं देहिनामिह देहिषु । प्राणैरर्थैर्धिया वाचा श्रेय एवाचरेत् सदा ।।३५।।
इति प्रवालस्तबकफलपुष्पदलोत्करैः । तरूणां नम्रशाखानां मध्येन यमुनां गतः ।।३६।।
तत्र गाः पाययित्वापः सुमृष्टाः शीतलाः शिवाः । ततो नृप! स्वयं गोपाः कामं स्वादु पपुर्जलम् ।।३७।।
तस्या उपवने कामं चारयंतः पशून्नृप ! । कृष्णरामावुपागम्य क्षुधार्ता इदमब्रुवन् ।।३८।।
इति श्रीमद्बागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे गोपीवस्त्रापहारो नाम द्वाविंशो।ध्यायः ।।२२।।