श्रीशुक उवाच
क्रीडासक्तेषु गोपेषु तग्दावो दूरचारिणीः । स्वैरं चरंत्यो विविशुस्तृणलोभेन गह्वरम् ।।१।।
अजा गावो महिष्यश्च निर्विशन्त्यो वनाद् वनम् । इषीकाटवीं निर्विविशुः क्रन्दन्त्यो दावतर्षिताः ।।२।।
ते।पश्यन्तः पशून् गोपाः कृष्णरामादयस्तदा । जातानुतापा न विदुर्विचिन्वन्तो गवां गतिम् ।।३।।
तृणैस्तत्खुरदच्छिन्नैर्गोष्पदैरङ्कितैर्गवाम् । मार्गमन्वगमन् सर्वे नष्टाजीव्या विचेतसः ।।४।।
मुञ्जाटव्यां भ्रष्टमार्गं क्रन्दमानं स्वगोधनम् । सम्प्राप्य तृषिताः श्रान्तास्ततस्ते संन्यवर्तयन् ।।५।।
ता आहूता भगवता मेघगम्भीरया गिरा । स्वनाम्नां निनदं श्रुत्वा प्रतिनेदुः प्रहर्षिताः ।।६।।
ततः समन्ताद् वनधूमकेतुर्यदृच्छयाभूत् क्षयकृद् वनौकसाम् । समीरितः सारथिनोल्बणोल्मुकैर्विलेलिहानः स्थिरजङ्गमान् महान् ।।७।।
तमापतन्तं परितो दवाग्निं गोपाश्च गावः प्रसमीक्ष्य भीताः । ऊचुश्च कृष्णं सबलं प्रपन्ना यथा हरिं मृत्युभयार्दिता जनाः ।।८।।
कृष्ण! कृष्ण! महावीर! हे रामामितविक्रम! । दावाग्निना दह्यमानान् प्रपन्नांस्त्रातुमर्हथः ।।९।।
नूनं त्वद्बान्धवाः कृष्ण! न चार्हन्त्यवसीदितुम् । वयं हि सर्वधर्मज्ञा त्वन्नाथास्त्वत्परायणाः ।।१०।।
श्रीशुक उवाच -
वचो निशम्य कृपणं बन्धूनां भगवान् हरिः । निमीलयत मा भैष्ट लोचनानीत्यभाषत ।।११।।
तथेति मीलिताक्षेषु भगवानग्निमुल्बणम् । पीत्वा मुखेन तान् कृ च्छ्राद् योगाधीशो व्यमोचयत् ।।१२।।
ततश्च ते।क्षीण्युन्मील्य पुनर्भाण्डीरमापिताः । निशाम्य विस्मिता आसन्नात्मानं गाश्च मोचिताः ।।१३।।
कृष्णस्य योगवीर्यं तद् योगमायानुभावितम् । दावाग्नेरात्मनः क्षेमं वीक्ष्य ते मेनिरे।मरम् ।।१४।।
गाः सन्निवर्त्य सायाह्ने सहरामो जनार्दनः । वेणुं विरणयन् गोष्ठमगाद् गोपैरभिष्टुतः ।।१५।।
गोपीनां परमानन्द आसीग्दोविंददर्शने । क्षणं युगशतमिव यासां येन विनाभवत् ।।१६।।
इति श्रीमद्बागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे दावाग्निपानं नाम एकोनविंशो।ध्यायः ।।१९।।