अथ विंशो।ध्यायः

श्रीशुक उवाच -
तयोस्तदद्बुतं कर्म दावाग्नेर्मोक्षमात्मनः । गोपाः स्त्रीभ्यः समाचख्युः प्रलम्बवधमेव च ।।१।।

गोपवृद्धाश्च गोप्यश्च तदुपाकर्ण्य विस्मिताः । मेनिरे देवप्रवरौ कृष्णरामौ व्रजं गतौ ।।२।।

ततः प्रावर्तत प्रावृट् सर्वसत्त्वसमुद्बवा । विद्योतमानपरिधिर्विस्फूर्जितनभस्तला ।।३।।

सान्द्रलीलाम्बुदैर्व्योम सविद्युत्स्तनयित्नुभिः । अस्पष्टज्योतिराच्छन्नं ब्रह्मेव सगुणं बभौ ।।४।।

अष्टौ मासान् निपीतं यद् भूम्याश्चोदमयं वसु । स्वगोभिर्मोक्तुमारेभे पर्जन्यः काल आगते ।।५।।

तडित्वन्तो महामेघाश्चण्डश्वसनवेपिताः । प्रीणनं जीवनं ह्यस्य मुमुचुः करुणा इव ।।६।।

तपःकृशा देवमीढा आसीद् वर्षीयसी मही । यथैव काम्यतपसस्तनुः सम्प्राप्य तत्फलम् ।।७।।

निशामुखेषु खद्योतास्तमसा भान्ति न ग्रहाः । यथा पापेन पाखण्डा न हि वेदाः कलौ युगे ।।८।।

श्रुत्वा पर्जन्यनिनदं मण्डूका व्यसृजन् गिरः । तूष्णीं शयानाः प्राग् यद्वद् ब्राह्मणा नियमात्यये ।।९।।

आसन्नुत्पथवाहिन्य क्षुद्रनद्यो।नशुष्यतीः । पुंसो यथा स्वतन्त्रस्य देहद्रविणसम्पदः ।।१०।।

हरिता हरिभिः शष्पैरिन्द्रगोपैश्च लोहिताः । उच्छिलीन्ध्रकृतच्छाया नृणां श्रीरिव भूरभूत् ।।११।।

क्षेत्राणि सस्यसम्पद्बिः कर्षकाणां मुदं ददुः । धनिनामुपतापं च दैवाधीनमजानताम् ।।१२।।

जलस्थलौकसः सर्वे नववारिनिषेवया । अबिभ्रद् रुचिरं रूपं यथा हरिनिषेवया ।।१३।।

सरिद्बिः सङ्गतः सिन्धुश्चुक्षुभे श्वसनोर्मिमान् । अपक्व योगिनश्चितं कामाक्तं गुणयुग् यथा ।।१४।।

गिरयो वर्षधाराभिर्हन्यमाना न विव्यथुः । अभिभूयमाना व्यसनैर्यथाधोक्षचेतसः ।।१५।।

मार्गा बभूवुः सन्दिग्धास्तृणैश्छन्ना ह्यसंस्कृताः । नाभ्यस्यमानाः श्रुतयो द्विजैः कालहता इव ।।१६।।

लोकबन्धुषु मेघेषु विद्युतश्चलसौहृदाः । स्थैर्यं न चक्रु कामिन्यः पुरुषेषु गुणिष्विव ।।१७।।

धनुर्वियति माहेन्द्रं निर्गुणं च गुणिन्यभात् । व्यक्ते गुणव्यतिकरे।गुणवान् पुरुषो यथा ।।१८।।

न रराजोडुपश्छन्नः स्वज्योत्स्नराजितैर्घनैः । अहंमत्या भासितया स्वभासा पुरुषो यथा ।।१९।।

मेघागमोत्सवा हृष्टाः प्रत्यनन्दञ्छिखण्डिनः । गृहेषु तप्ता निर्विण्णा यथाच्युतजनागमे ।।२०।।

पीत्वापः पादपाः पद्बिरासन्नानात्ममूर्तयः । प्राक् क्षामास्तपसा श्रान्ता यथा कामानुसेवया ।।२१।।

सरस्वशान्तरोधस्सु न्यूषुरङ्गापि सारसाः । गृहेष्वशान्तकृत्येषु ग्राम्या इव दुराशयाः ।।२२।।

जलौघैर्निरभिद्यन्त सेतवो वर्षतीश्वरे । पाखण्डिनामसद्वादैर्वेदमार्गाः कलौ यथा ।।२३।।

व्यमुञ्चन् वायुभिर्नुन्ना भूतेभ्यो।थामृतं घनाः । यथा।।शिषो विश्पतयः काले काले द्विजेरिताः ।।२४।।

एवं वनं तद् वर्षिष्ठं पक्व खर्जूरजम्बुमत् । गोगोपालैर्वृतो रन्तुं सबलः प्राविशद्धरिः ।।२५।।

धेनवो मन्दगामिन्य ऊधोभारेण भूयसा । ययुर्भगवता।।हूता द्रुतं प्रीत्या स्नुतस्तनीः ।।२६।।

वनौकसः प्रमुदिता वनराजीर्मधुच्युतः । जलधारा गिरेर्नादानासन्ना ददृशे गुहाः ।।२७।।

क्व चिद् वनस्पतिक्रोडे गुहायां चाभिवर्षति । निर्विश्य भगवान् रेमे कन्दमूलफलाशनः ।।२८।।

दध्योदनं समानीतं शिलायां सलिलान्तिके । सम्भोजनीयैर्बुभुजे गोपैः सङ्कर्षणान्वितः ।।२९।।

शाद्वलोपरि संविश्य चर्वतो मीलितेक्षणान् । तृप्तान् वृषान् वत्सतरान् गाश्च स्वोधोभरश्रमाः ।।३०।।

प्रावृट्श्रियं च तां वीक्ष्य सर्वभूतमुदावहाम् । भगवान् पूजयाञ्चक्रे आत्मशक्त्युपबृंहिताम् ।।३१।।

एवं निवसतोस्तस्मिन् रामकेशवयोर्व्रजे । शरत् समभवद् व्यभ्रा स्वच्छाम्ब्वपरुषानिला ।।३२।।

शरदा नीरजोत्पत्त्या नीराणि प्रकृतिं ययुः । भ्रष्टानामिव चेतांसि पुनर्योगनिषेवया ।।३३।।

व्योम्नो।ब्दं भूतशाबल्यं भुवः पङ्कमपां मलम् । शरज्जहाराश्रमिणां कृष्णे भक्तिर्यथाशुभम् ।।३४।।

सर्वस्वं जलदा हित्वा विरेजुः शुभ्रवर्चसः । यथा त्यक्तैषणाः शान्ता मुनयो मुक्तकिल्बिषाः ।।३५।।

गिरयो मुमुचुस्तोयं क्व चिन्न मुमुचुः शिवम् । यथा ज्ञानामृतं काले ज्ञानिनो ददते न वा ।।३६।।

नैवाविदन् क्षीयमाणं जलं गाधजलेचराः । यथा।।युरन्वहं क्षय्यं नरा मूढाः कुटुम्बिनः ।।३७।।

गाधवारिचरास्तापमविन्दञ्छरदर्कजम् । यथा दरिद्रः कृपणः कुटुम्ब्यविजितेन्द्रियः ।।३८।।

शनैः शनैर्जहुः पङ्कं स्थलान्यामं च वीरुधः । यथाहंममतां धीराः शरीरादिष्वनात्मसु ।।३९।।

निश्चलाम्बुरभूत्तूष्णीं समुद्रः शरदागमे । आत्मन्युपरते सम्यङ्मुनिर्व्युपरतागमः ।।४०।।

केदारेभ्यस्त्वपो।गृन् कर्षका दृढसेतुभिः । यथा प्राणैः स्रवज्ज्ञानं तन्निरोधेन योगिनः ।।४१।।

शरदर्कांशुजांस्तापान् भूतानामुडुपो।हरत् । देहाभिमानजं बोधो मुकुन्दो व्रजयोषिताम् ।।४२।।

खमशोभत निर्मेधं शरद्विमलतारकम् । सत्त्वयुक्तं यथा चित्तं शब्दब्रह्मार्थदर्शनम् ।।४३।।

अखण्डमण्डलो व्योम्नि रराजोडुगणैः शशी । यथा यदुपतिः कृष्णो वृष्णिचक्रावृतो भुवि ।।४४।।

आश्लिष्य समशीतोष्णं प्रसूनवनमारुतम् । जनास्तापं जहुर्गोप्यो न कृष्णहृतचेतसः ।।४५।।

गावो मृगाः खगा नार्यः पुष्पिण्यः शरदाभवन् । अन्वीयमानाः स्ववृषैः फलैरीशक्रिया इव ।।४६।।

उदहृष्यन् वारिजानि सूर्योत्थाने कुमुद् विना । राज्ञा तु निर्भया लोका यथा दस्यून् विना नृप! ।।४७।।

पुरग्रामेष्वाग्रयणैरैन्द्रियैश्च महोत्सवैः । बभौ भूः पक्व सस्याढया कलाभ्यां नितरां हरेः ।।४८।।

वणिङ्मुनिनृपस्नाता निर्गम्यार्थान् प्रपेदिरे । वर्षरुद्धा यथा सिद्धाः स्वपिंडान् काल आगते ।।४९।।

इति श्रीमद्बागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे प्रावृट्शरद्वर्णनं नाम विंशो।ध्यायः ।।२०।।