श्रीशुक उवाच
अथ कृष्णः परिवृतो ज्ञातिभिर्मुदितात्मभिः । अनुगीयमानो न्यविशद्व्रजं गोकुलमण्डितम् ।।१।।
व्रजे विक्रीडतोरेवं गोपालच्छद्ममायया । ग्रीष्मो नामर्तुरभवन्नातिप्रेयाञ्छरीरिणाम् ।।२।।
स च वृन्दावनगुणैर्वसन्त इव लक्षितः । यत्रास्ते भगवान् साक्षाद् रामेण सह केशवः ।।३।।
यत्र निर्झरनिर्ह्रादनिवृत्तस्वनझिल्लिकम् । शश्वत्तच्छीकरर्जीषद्रुममण्डलमण्डितम् ।।४।।
सरित्सरःप्रस्रवणोर्मिवायुना कह्लारकञ्जोत्पलरेणुहारिणा । न विद्यते यत्र वनौकसां दवो निदाघवहन्यर्कभवो।तिशाद्वले ।।५।।
अगाधतोयहृदिनीतटोर्मिभिर्द्रवत्पुरीष्याः पुलिनैः समन्ततः । न यत्र चण्डांशुकरा विषोल्बणा भुवो रसं शाद्वलितं च गृते ।।६।।
वनं कुसुमितं श्रीमन्नदच्चित्रमृगद्विजम् । गायन्मयूरभ्रमरं कूजत्कोकिलसारसम् ।।७।।
क्रीडिष्यमाणस्तत् कृष्णो भगवान् बलसंयुतः । वेणुं विरणयन् गोपैर्गोधनैः संवृतो।विशत् ।।८।।
प्रवालबर्हस्तबकस्रग्धातुकृतभूषणाः । रामकृष्णादयो गोपा ननृतुर्युयुधुर्जगुः ।।९।।
कृष्णस्य नृत्यतः केचिज्जगुः केचिदवादयन् । वेणुपाणितलैः शृङ्गैः प्रशशंसुरथापरे ।।१०।।
गोपजातिप्रतिच्छन्नौ देवा गोपालरूपिणः । ईडिरे कृष्णरामौ च नटा इव नटं नृप! ।।११।।
भ्रामणैर्लङ्घनैः क्षेपैरास्फोटनविकर्षणैः । चिक्रीडतुर्नियुद्धेन काकपक्षधरौ क्व चित् ।।१२।।
क्व चिन्नृत्यत्सु चान्येषु गायकौ वादकौ स्वयम् । शशंसतुर्महाराज साधु साध्विति वादिनौ ।।१३।।
क्व चिद् बिल्वैः क्व चित् कुम्भैः क्व चामलकमुष्टिभिः । अस्पृश्यनेत्रबन्धाद्यैः क्व चिन्मृगखगेहया ।।१४।।
क्व चिच्च दर्दुरप्लावैर्विविधैरुपहासकैः । कदाचित् स्पन्दोलिकया कर्हिचिन्नृपचेष्टया ।।१५।।
एवं तौ लोकसिद्धाभिः क्रीडाभिश्चेरतुर्वने । नद्यद्रिद्रोणिकुञ्जेषु काननेषु सरस्सु च ।।१६।।
पशूंश्चारयतोर्गौपैस्तद्वने रामकृष्णयोः । गोपरूपी प्रलम्बो।गादसुरस्तज्जिहीर्षया ।।१७।।
तं विद्वानपि दाशार्हो भगवान् सर्वदर्शनः । अन्वमोदत तत्सख्यं वधं तस्य विचिन्तयन् ।।१८।।
तत्रोपाहूय गोपालान् कृष्णः प्राह विहारवित् । हे गोपा! विहरिष्यामो द्वन्द्वीभूय यथायथम् ।।१९।।
तत्र चक्रुः परिवृढौ गोपा रामजनार्दनौ । कृष्णसंघट्टिनः केचिदासन् रामस्य चापरे ।।२०।।
आचेरुर्विविधाः क्रीडा वाह्यवाहकलक्षणाः । यत्रारोहन्ति जेतारो वहन्ति च पराजिताः ।।२१।।
वहन्तो वाह्यमानाश्च चारयन्तश्च गोधनम् । भाण्डीरकं नाम वटं जग्मुः कृष्णपुरोगमाः ।।२२।।
रामसङ्घट्टिनो यर्हि श्रीदामवृषभादयः । क्रीडायां जयिनस्तांस्तानूहुः कृष्णादयोनृप! ।।२३।।
उवाह कृष्णो भगवान् श्रीदामानं पराजितः । वृषभं भद्रसेनस्तु प्रलम्बो रोहिणीसुतम् ।।२४।।
अविषह्यं मन्यमानः कृष्णं दानवपुङ्गवः । वहन् द्रुततरं प्रागादवरोहणतः परम् ।।२५।।
तमुद्वहन् धरणिधरेन्द्रगौरवं महासुरो विगतरयो निजं वपुः । स आस्थितः पुरटपरिच्छदो बभौ तडिद्दयुमानुडुपतिवाडिवाम्बुदः ।।२६।।
निरीक्ष्य तद्वपुरलमम्बरे चरत् प्रदीप्तदृग् भ्रुकुटितटोग्रदंष्ट्रकम् । ज्वलच्छिखं कटककिरीटकुण्डलत्विषाद्बुतं हलधर ईषदत्रसत् ।।२७।।
अथागतस्मृतिरभयो रिपुं बलो विहायसार्थमिव हरन्तमात्मनः । रुषाहनच्छिरसि दृढेन मुष्टिना सुराधिपो गिरिमिव वज्ररंहसा ।।२८।।
स आहतः सपदि विशीर्णमस्तको मुखाद् वमन् रुधिरमपस्मृतो।सुरः । महारवं व्यसुरपतत् समीरयन् गिरिर्यथा मघवत आयुधाहतः ।।२९।।
दृा प्रलम्बं निहतं बलेन बलशालिना । गोपाः सुविस्मिता आसन् साधु साध्विति वादिनः ।।३०।।
आशिषो।भिगृणन्तस्तं प्रशशंसुस्तदर्हणम् । प्रेत्यागतमिवालिङ्ग्य प्रेमविह्वलचेतसः ।।३१।।
पापे प्रलम्बे निहते देवाः परमनिर्वृताः । अभ्यवर्षन् बलं माल्यैः शशंसुःसाधुसाध्विति ।।३२।।
इति श्रीमद्बागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे प्रलम्बवधो नामाष्टादशो।ध्यायः ।।१८।।