सप्तदशो।ध्यायः

राजोवाच
नागालयं रमणकं कस्मात्तत्याज कालियः । कृतं किं वा सुपर्णस्य तेनैकेनासमंजसम् ।।१।।

श्रीशुक उवाच
उपहार्यैः सर्पजनैर्मासि मासीह यो बलिः । वानस्पत्यो महाबाहो नागानां प्राङ्निरूपितः ।।२।।

स्वं स्वं भागं प्रयच्छन्ति नागाः पर्वणि पर्वणि । गोपीथायात्मनः सर्वे सुपर्णाय महात्मने ।।३।।

विषवीर्यमदाविष्टः काद्रवेयस्तु कालियः । कदर्थीकृत्य गरुडं स्वयं तं बुभुजे बलिम् ।।४।।

तच्छ्रुत्वा कुपितो राजन्! भगवान् भगवत्प्रियः । विजिघांसुर्महावेगः कालियं समुपाद्रवत् ।।५।।

तमापतन्तं तरसा विषायुधः प्रत्यभ्ययादुच्छ्रितनैकमस्तकः । दद्बिः सुपर्णं व्यदशद् ददायुधः करालजिह्वोच्छ्वसितोग्रलोचनः ।।६।।

तं तार्क्ष्यपुत्रः स निरस्य मन्युमान् प्रचण्डवेगो मधुसूदनासनः । पक्षेण सव्येन हिरण्यरोचिषा जघान कद्रूसुतमुग्रविक्रमः ।।७।।

सुपर्णपक्षाभिहतः कालियो।तीव विह्वलः । ह्रदं विवेश कालिन्द्यास्तदगम्यं दुरासदम् ।।८।।

तत्रैकदा जलचरं गरुडो भक्ष्यमीप्सितम् । निवारितः सौभरिणा प्रसह्य क्षुधितो।हरत् ।।९।।

मीनान् सुदुःखितान् दृा दीनान् मीनपतौ हते । कृपया सौभरिः प्राह तत्रत्यक्षेममाचरन् ।।१०।।

अत्र प्रविश्य गरुडो यदि मत्स्यान् स खादति । सद्यः प्राणैर्वियुज्येत सत्यमेतद् ब्रवीम्यहम् ।।११।।

तं कालियः परं वेद नान्यः कश्चन लेलिहः । अवात्सीद् गरुडाद् भीतः कृष्णेन च विवासितः ।।१२।।

कृष्णं ह्रदाद् विनिष्क्रान्तं दिव्यस्रग्गन्धवाससम् । महामणिगणाकीर्णं जाम्बूनदपरिष्कृतम् ।।१३।।

उपलभ्योत्थिताः सर्वे लब्धप्राणा इवासवः । प्रमोदनिभृतात्मानो गोपाः प्रीत्याभिरेभिरे ।।१४।।

यशोदा रोहिणी नन्दो गोप्यो गोपाश्च कौरव! । कृष्णं समेत्य लब्धेहा आसँल्लब्धमनोरथाः ।।१५।।

रामश्चाच्युतमालिङ्ग्य जहासास्यानुभाववित् । नगा गावो वृषा वत्सा लेभिरे परमां मुदम् ।।१६।।

नन्दं विप्राः समागत्य गुरवः सकलत्रकाः । ऊचुस्ते कालियग्रस्तो दिष्टया मुक्तस्तवात्मजः ।।१७।।

देहि दानं द्विजातीनां कृष्णनिर्मुक्तिहेतवे । नन्दः प्रीतमना राजन्! गाः सुवर्णं तदादिशत् ।।१८।।

यशोदापि महाभागा नष्टलब्धप्रजा सती । परिष्वज्याङ्कमारोप्य मुमोचाश्रुकलां मुहुः ।।१९।।

तां रात्रिं तत्र राजेन्द्र क्षुत्तृड्भ्यां श्रमकर्शिताः । ऊषुर्व्रजौकसो गावः कालिन्द्या उपकूलतः ।।२०।।

तदा शुचिवनोद्बूतो दावाग्निः सर्वतो व्रजम् । सुप्तं निशीथ आवृत्य प्रदग्धुमुपचक्रमे ।।२१।।

तत उत्थाय सम्भ्रान्ता दह्यमाना व्रजौकसः । कृष्णं ययुस्ते शरणं मायामनुजमीश्वरम् ।।२२।।

कृष्ण! कृष्ण! महाभाग! हे रामामितविक्रम! । एष घोरतमो वह्निस्तावकान् ग्रसते हि नः।।२३।।

सुदुस्तरान्नः स्वान् पाहि कालाग्नेः सुहृदः प्रभो । न शक्नुमस्त्वच्चरणं संत्यक्तुमकुतोभयम् ।।२४।।

इत्थं स्वजनवैक्लव्यं निरीक्ष्य जगदीश्वरः । तमग्निमपिबत्तीव्रमनंतो।नन्तशक्तिधृक् ।।२५।।

इति श्रीमद्बागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे दावाग्निमोचनं नाम सप्तदशो।ध्यायः ।।१।।