श्रीशुक उवाच
विलोक्य दूषितां कृष्णां कृष्णः कृष्णाहिना बिभुः । तस्या विशुद्धिमन्विच्छन् सर्पं तमुदवासयत् ।।१।।
राजोवाच
कथमन्तर्जले।गाधे न्यगृाद् भगवानहिम् । स वै बहुयुगावासं यथा।।सीद् विप्र कथ्यताम् ।।२।।
ब्रह्मन्! भगवतस्तस्य भूम्नः स्वच्छन्दवर्तिनः । गोपालोदारचरितं कस्तृप्येतामृतं जुषन् ।।३।।
श्रीशुक उवाच
कालिन्द्यां कालियस्यासीद्ध्रदः कश्चिद् विषाग्निना । श्रप्यमाणपया यस्मिन् पतन्त्युपरिगाः खगाः ।।४।।
विप्रुष्मता विषोदोर्मिमारुतेनाभिमर्शिताः । म्रियन्ते तीरगा यस्य प्राणिनः स्थिरजङ्गमाः ।।५।।
तं चण्डवेगविषवीर्यमवेक्ष्य तेन दुष्टां नदीं च खलसंयमनावतारः । कृष्णः कदम्बमधिरुह्य ततो।तितुङ्गमास्फोटय गाढरशनो न्यपतद् विषोदे ।।६।।
सर्पह्रदः पुरुषसारनिपातवेगसंक्षोभितोरगविषोच्छ्वसिताम्बुराशिः । पर्यक्प्लुतो विषकषायविभीषणोर्मिर्धावन् धनुःशतमनन्तबलस्य किं तत् ।।७।।
तस्य ह्रदे विहरतो भुजदण्डघूर्णवार्घोषमङ्ग! वरवारणविक्रमस्य । आश्रुत्य तत् स्वसदनाभिभवं निरीक्ष्य चक्षुःश्रवा समसरत्तदमृष्यमाणः ।।८।।
तं प्रेक्षणीयसुकुमारघनावदातं श्रीवत्सपीतवसनं स्मितसुन्दरास्यम् । क्रीडन्तमप्रतिभयं कमलोदराङ्घ्रिं सन्दश्य मर्मसु रुषा भुजया चछाद ।।९।।
तं नागभोगपरिवीतमदृष्टचेष्टमालोक्य तत्प्रियसखाः पशुपा भृशार्ताः । कृष्णे।र्पितात्मसुहृदर्थकलत्रकामा दुःखानुशोकभयमूढधियो निपेतुः ।।१०।।
गावो वृषा वत्सतर्यः क्रन्दमानाः सुदुःखिताः । कृष्णे न्यस्तेक्षणा भीता रुदत्य इव तस्थिरे ।।११।।
अथ व्रजे महोत्पातास्त्रिविधा ह्यतिदारुणाः । उत्पेतुर्भुवि दिव्यात्मन्यासन्नभयशंसिनः ।।१२।।
तानालक्ष्य भयोद्विग्ना गोपा नन्दपुरोगमाः । विना रामेण गाः कृष्णं ज्ञात्वा चारयितुं गतम् ।।१३।।
तैर्दुर्निमितैर्निधनं मत्वा प्राप्तमतद्विदः । तत्प्राणास्तन्मनस्कास्ते दुःखशोकभयातुराः ।।१४।।
आबालवृद्धवनिताः सर्वे।ङ्ग! पशुवृत्तयः । निर्जग्मुर्गोकुलाद् दीनाः कृष्णदर्शनलालसाः।।१५।।
तांस्तथा कातरान् वीक्ष्य भगवान् माधवो बलः । प्रहस्य किञ्चिन्नोवाच प्रभावज्ञो।नुजस्य सः ।।१६।।
ते।न्वेषमाणा दयितं कृष्णं सूचितया पदैः । भगवल्लक्षणैर्जग्मुः पदव्या यमुना तटम् ।।१७।।
ते तत्र तत्राब्जयवाङ्कुशाशनिध्वजोपपन्नानि पदानि विश्पतेः । मार्गे गवामन्यपदान्तरान्तरे निरीक्षमाणा ययुरङ्ग! सत्वराः ।।१८।।
अन्तर्ह्रदे भुजगभोगपरीतमारात् कृष्णं निरीहमुपलभ्य जलाशयान्ते । गोपांश्च मूढधिषणान् परितः पशूंश्च संक्रन्दतः परमकश्मलमापुरार्ताः ।।१९।।
गोप्यो।नुरक्तमनसो भगवत्यनन्ते तत्सौहृदस्मितविलोकगिरः स्मरन्त्यः । ग्रस्ते।हिना प्रियतमे भृशदुःखतप्ताः शून्यं प्रियव्यतिहृतं ददृशुस्त्रिलोकम् ।।२०।।
ताः कृष्णमातरमपत्यमनुप्रविष्टां तुल्यव्यथाः समनुगृह्य शुचः स्रवन्त्यः । तास्ता व्रजप्रियकथाः कथयन्त्य आसन् कृष्णानने।र्पितदृशो मृतकप्रतीकाः ।।२१।।
कृष्णप्राणान्निर्विशतो नन्दादीन् वीक्ष्य तं ह्रदम् । प्रत्यषेधत् स भगवान् रामः कृष्णानुभाववित् ।।२२।।
इत्थं स्वगोकुलमनन्यगतिं निरीक्ष्य सस्त्रीकुमारमतिदुःखितमात्महेतोः । आज्ञाय मर्त्यपदवीमनुवर्तमानः स्थित्वा मुहूर्तमुदतिष्ठदुरङ्गबन्धात् ।।२३।।
तत्प्रथ्यमानवपुषा व्यथितात्मभोगस्त्यक्त्वोन्नमय्य कुपितः स्वफणान् भुजङ्गः । तस्थौ श्वसञ्छ्वसनरन्ध्रविषाम्बरीषस्तब्धेक्षणोल्मुकमुखो हरिमीक्षमाणः ।।२४।।
तं जिह्वया द्विशिखया परिलेलिहानं द्वे सृक्किणी ह्यतिकरालविषाग्निदृष्टिम् । क्रीडन्नमुं परिससार यथा खगेन्द्रो बभ्राम सो।प्यवसरं प्रसमीक्षमाणः ।।२५।।
एवं परिभ्रमहतौजसमुन्नतांसमानम्य तत्पृथुशिरः स्वधिरूढ आद्यः । तन्मूर्धरत्ननिकरस्पर्शातिताम्रपादाम्बुजो।खिलकलादिगुरुर्ननर्त ।।२६।।
तं नर्तुमुद्यतमवेक्ष्य तदा तदीयगन्धर्वसिद्धसुरचारणदेववध्वः । प्रीत्या मृदङ्गपणवानकवाद्यगीतपुष्पोपहारनुतिभिः सहसोपसेदुः ।।२७।।
यद् यच्छिरो न नमते।ङ्ग शतैकशीर्ष्णस्तत्तन् ममर्द खरदण्डधरो।ङ्घ्रिपातैः । क्षीणायुषो भ्रमत उल्बणमास्यतो।सृङ् नस्तो वमन् परमकश्मलमाप नागः ।।२८।।
तस्याक्षिभिर्गरलमुद्वमतः शिरस्सु यद् यत् समुन्नमति निःश्वसतो रुषोच्चैः । नृत्यन् पदानुनमयन् दमयाम्बभूव पुष्पैः प्रपूजित इवेह पुमान् पुराणः ।।२९।।
तच्चित्रताण्डवविरुग्णफणातपत्रो रक्तं मुखैरुरु वमन् नृप! भग्नगात्रः । स्मृत्वा चराचरगुरुं पुरुषं पुराणं नारायणं तमरणं मनसा जगाम ।।३०।।
कृष्णस्य गर्भजगतो।तिभरावसन्नं पार्ष्णिप्रहारपरिरुग्णफणातपत्रम् । दृाहिमाद्यमुपसेदुरमुष्य पत्न्य आर्ताः श्लथद्वसनभूषणकेशबन्धाः ।।३१।।
तास्तं सुविग्नमनसो।थ पुरस्कृतार्भाः कायं निधाय भुवि भूतपतिं प्रणेमुः । साध्व्यः कृताञ्जलिपुटाः शमलस्य भर्तुर्मोक्षेप्सवः शरणदं शरणं प्रपन्नाः ।।३२।।
नागपत्न्य ऊचुः -
न्याय्यो हि दण्डः कृतकिल्बिषे।स्मिंस्तवावतारः खलनिग्रहाय । रिपोः सुतानामपि तुल्यदृष्टेर्धत्से दमं फलमेवानुशंसन् ।।३३।।
अनुग्रहो।यं भवतः कृतो हि नो दण्डो।सतां ते खलु कल्मषापहः । यद् दन्दशूकत्वममुष्य देहिनः क्रोधो।पि ते।नुग्रह एव सम्मतः ।।३४।।
तपः सुतप्तं किमनेन पूर्वं निरस्तमानेन च मानदेन । धर्मो।थ वा सर्वजनानुकम्पया यतो भवांस्तुष्यति सर्वजीवः ।।३५।।
कस्यानुभावो।स्य न देव विद्महे तवाङ्घ्रिरेणुस्पर्शाधिकारः । यद्वाञ्छया श्रीर्ललना।।चरत्तपो विहाय कामान् सुचिरं धृतव्रता ।।३६।।
न नाकपृष्ठं न च सार्वभौमं न पारमेष्ठयं न रसाधिपत्यम् । न योगसिद्धीरपुनर्भवं वा वाञ्छन्ति यत्पादरजःप्रपन्नाः ।।३७।।
तदेष नाथाप दुरापमन्यैस्तमोजनिः क्रोधवशो।प्यहीशः । संसारचक्रे भ्रमतः शरीरिणो यदिच्छतः स्याद् विभवः समक्षः ।।३८।।
नमस्तुभ्यं भगवते पुरुषाय महात्मने । भूतावासाय भूताय पराय परमात्मने ।।३९।।
ज्ञानविज्ञाननिधये ब्रह्मणे।नन्तशक्तये । अगुणायाविकाराय नमस्ते।प्राकृताय च ।।४०।।
कालाय कालनाभाय कालावयवसाक्षिणे । विश्वाय तदुपद्रष्ट्रे तत्कर्त्रे विश्वहेतवे ।।४१।।
भूतमात्रेन्द्रियप्राणमनोबुद्धयाशयात्मने । त्रिगुणेनाभिमानेन गूढस्वात्मानुभूतये ।।४२।।
नमो।नन्ताय सूक्ष्माय कूटस्थाय विपश्चिते । नानावादानुरोधाय वाच्यवाचकशक्तये ।।४३।।
नमः प्रमाणमूलाय कवये शास्त्रयोनये । प्रवृत्ताय निवृत्ताय निगमाय नमो नमः ।।४४।।
नमः कृष्णाय रामाय वसुदेवसुताय च । प्रद्युम्नायानिरुद्धाय सात्वतां पतये नमः ।।४५।।
नमो गुणप्रदीपाय गुणात्मच्छादनाय च । गुणवृत्त्युपलक्ष्याय गुणद्रष्ट्रे स्वसंविदे ।।४६।।
अव्याकृतविहाराय सर्वव्याकृतसिद्धये । हृषीकेश नमस्ते।स्तु मुनये मौनशीलिने ।।४७।।
परावरगतिज्ञाय सर्वाध्यक्षाय ते नमः । अविश्वाय च विश्वाय तद्द्रष्ट्रे।स्य च हेतवे ।।४८।।
त्वं ह्यस्य जन्मस्थितिसंयमान् प्रभो! गुणैरनीहो।कृत कालशक्तिधृक् । तत्तत्स्वभावान् प्रतिबोधयन् सतः समीक्षयामोघविहार ईहसे ।।४९।।
तस्यैव ते।मूस्तनवस्त्रिलोक्यां शान्ता अशान्ता उत मूढयोनयः । शान्ताः प्रियास्ते ह्यधुनावितुं सतां स्थातुश्च ते धर्मपरीप्सयेहतः ।।५०।।
अपराधः सकृद् भर्त्रा सोढव्यः स्वप्रजाकृतः । क्षन्तुमर्हसि शान्तात्मन् मूढस्य त्वामजानतः ।।५१।।
अनुगृह्णीष्व भगवन् प्राणांस्त्यजति पन्नगः । स्त्रिणां नः साधुशोच्यानां पतिः प्राणः प्रदीयताम् ।।५२।।
विधेहि ते किङ्करीणामनुष्ठेयं तवाज्ञाया । यच्छ्रद्धयानुतिष्ठन् वै मुच्यते सर्वतोभयात् ।।५३।।
श्रीशुक उवाच -
इत्थं स नागपत्नीभिर्भगवान् समभिष्टुतः । मूर्च्छितं भग्नशिरसं विससर्जाङ्घ्रिकुट्टनैः ।।५४।।
प्रतिलब्धेन्द्रियप्राणः कालियः शनकैर्हरिम् । कृच्छ्रात् समुच्छ्वसन् दीनः कृष्णं प्राह कृताञ्जलिः।।५५।।
कालिय उवाच -
वयं खलाः सहोत्पत्त्या तामसा दीर्घमन्यवः । स्वभावो दुस्त्यजो नाथ लोकानां यदसद्ग्रहः । ।।५६।।
त्वया सृष्टमिदं विश्वं धातर्गुणविसर्जनम् । नानास्वभाववीर्यौजोयोनिबीजाशयाकृति ।।५७।।
वयं च तत्र भगवन् सर्पा जात्यरुमन्यवः । कथं त्यजामस्त्वन्मायां दुस्त्यजां मोहिताः स्वयम् ।।५८।।
भवान् हि कारणं तत्र सर्वज्ञो जगदीश्वरः । अनुग्रहं निग्रहं वा मन्यसे तद् विधेहि नः ।।५९।।
श्रीशुक उवाच
इत्याकर्ण्य वचः प्राह भगवान् कार्यमानुषः । नात्र स्थेयं त्वया सर्प समुद्रं याहि मा चिरम् । स्वज्ञात्यपत्यदाराढयो गोनृभिर्भुज्यतां नदी ।।६०।।
य एतत् संस्मरेन्मर्त्यस्तुभ्यं मदनुशासनम् । कीर्तयन्नुभयोः सन्ध्योर्न युष्मद् भयमाप्नुयात् ।।६१।।
यो।स्मिन् स्नत्वा मदाक्रीडे देवादींस्तर्पयेज्जलैः । उपोष्य मां स्मरन्नर्चेत् सर्वपापैः प्रमुच्यते ।।६२।।
द्वीपं रमणकं हित्वा ह्रदमेतमुपाश्रितः । यद्बयात् स सुपर्णस्त्वां नाद्यान्मत्पादलाञ्छितम् ।।६३।।
श्रीशुक उवाच -
एवमुक्तो भगवता कृष्णेनाद्बुतकर्मणा । तं पूजयामास मुदा नागपत्न्यश्च सादरम् ।।६४।।
दिव्याम्बरस्रङ्मणिभिः परार्ध्यैरपि भूषणैः । दिव्यगन्धानुलेपैश्च महत्योत्पलमालया ।।६५।।
पूजयित्वा जगन्नाथं प्रसाद्य गरुडध्वजम् । ततः प्रीतो।भ्यनुज्ञातः परिक्रम्याभिवन्द्य तम् ।।६६।।
सकलत्रसुहृत्पुत्रो द्वीपमब्धेर्जगाम ह । तदैव सामृतजला यमुना निर्विषाभवत् । अनुग्रहाद्बगवतः क्रीडामानुषरूपिणः ।।६७।।
इति श्रीमद्बागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे कालियमोक्षणं नाम षोडशो।ध्यायः ।।१६।।