पञ्चदशो।ध्यायः

श्रीशुक उवाच
ततश्च पौगंडवयः श्रितौ व्रजे बभूवतुस्तौ पशुपालसम्मतौ । गाश्चारयन्तौ सखिभिः समं पदैर्वृन्दावनं पुण्यमतीव चक्रतुः ।।१।।

तन्माधवो वेणुमुदीरयन् वृतो गोपैर्गृणद्बिः स्वयशो बलान्वितः । पशून् पुरस्कृत्य पशव्यमाविशद् विहर्तुकामः कुसुमाकरं वनम् ।।२।।

तन्मञ्जुघोषालिमृगद्विजाकुलं महन्मनः प्रख्यपयः सरस्वता । वातेन जुष्टं शतपत्रगन्धिना निरीक्ष्य रन्तुं भगवान् मनो दधे ।।३।।

स तत्र तत्रारुणपल्लवश्रिया फलप्रसूनोरुभरेण पादयोः । स्पृशच्छिखान् वीक्ष्य वनस्पतीन् मुदा स्मयन्निवाहाग्रजमादिपुरुषः ।।४।।

श्री भगवानुवाच -
अहो अमी देववरामरार्चितं पाजाम्बुजं ते सुमनःफलार्हणम् । नमन्त्युपादाय शिखाभिरात्मनस्तमो।पहत्यै तरुजन्म यत्कृतम् ।।५।।

एते।लिनस्तव यशो।खिललोकतीर्थं गायन्त आदिपुरुषानुपदं भजन्ते । प्रायो अमी मुनिगणा भवदीयमुख्या गूढं वने।पि न जहत्यनघात्मदैवम् ।।६।।

नृत्यन्त्यमी शिखिन ईडय मुदा हरिण्यः कुर्वन्ति गोप्य इव ते प्रियमीक्षणेन । सूक्तैश्च कोकिलगणा गृहमागताय धन्या वनौकस इयान् हि सतां निसर्गः ।।७।।

धन्येयमद्य धरणी तृणवीरुधस्त्वत्पादस्पृशो द्रुमलताः करजाभिमृष्टाः । नद्यो।द्रयः खगमृगाः सदयावलोकैर्गोप्यो।न्तरेण भुजयोरपि यत्स्पृहा श्रीः ।।८।।

श्रीशुक उवाच
एवं वृन्दावनं श्रीमत् कृष्णः प्रीतमनाः पशून् । रेमे सञ्चारयन्नद्रेः सरिद्रोधस्सु सानुगः ।।९।।

क्व चिद् गायति गायत्सु मदान्धालिष्वनुव्रतैः । उपगीयमानचरितः स्रग्वी सङ्कर्षणान्वितः।।१०।।

क्व चिच्च कलहंसानामनुकूजति कूजितम् । अभिनृत्यति नृत्यन्तं बर्हिणं हासयन् क्व चित् ।।११।।

मेघगम्भीरया वाचा नामभिर्दूरगान् पशून् । क्व चिदाह्वयति प्रीत्या गोगोपालमनोज्ञाया ।।१२।।

चकोरक्रौञ्चक्राह्वभारद्वाजांश्च बर्हिणः । अनुरौति स्म सत्त्वानां भीतवद् व्याघ्रसिंहयोः ।।१३।।

क्व चित् क्रीडापरिश्रान्तं गोपोत्सङ्गोपबर्हणम् । स्वयं विश्रमयत्यार्यं पादसंवाहनादिभिः ।।१४।।

नृत्यतो गायतः क्वापिवल्गतो युध्यतो मिथः । गृहीतहस्तौ गोपालान् हसन्तौ प्रशशंसतुः ।।१५।।

क्व चित् पल्लवतल्पेषु नियुद्धश्रमकर्शितः । वृक्षमूलाश्रयः शेते गोपोत्सङ्गोपबर्हणः ।।१६।।

पादसंवाहनं चक्रुः केचित्तस्य महात्मनः । अपरे हतपाप्मानो व्यजनैः समवीजयन् ।।१७।।

अन्ये तदनुरूपाणि मनोज्ञानि महात्मनः । गायन्ति स्म महाराज! स्नेह्क्लिन्नधियः शनैः ।।१८।।

एवं निगूढात्मगतिः स्वमायया गोपात्मजत्वं चरितैर्विडम्बयन् । रेमे रमालालितपादपल्लवो ग्राम्यैः समं ग्राम्यवदीशचेष्टितः ।।१९।।

श्रीदामा नाम गोपालो रामकेशवयोः सखा । सुबलस्तोककृष्णाद्या गोपाः प्रेम्णेदमब्रुवन् ।।२०।।

राम! राम! महाबाहो! कृष्ण! दुष्टनिबर्हण । इतो।विदूरे सुमहद् वनं तालालिसङ्कृलम् ।।२१।।

फलानि तत्र भूरीणि पतन्ति पतितानि च । सन्ति किंत्ववरुद्धानि धेनुकेन दुरात्मना ।।२२।।

सो।तिवीर्यो।सुरो राम हेकृष्ण! खररूपधृक् । आत्मतुल्यबलैरन्यैर्ज्ञातिभिर्बहुभिर्वृतः ।।२३।।

तस्मात् कृतनराहाराद् भीतैर्नृभिरमित्रहन् । न सेव्यते पशुगणैः पक्षिसङ्घैर्विवर्जितम् ।।२४।।

विद्यन्ते।भुक्तपूर्वाणि फलानि सुरभीणि च । एष वै सुरभिर्गन्धो विषूचीनो।वगृह्यते ।।२५।।

प्रयच्छ तानि नः कृष्ण गन्धलोभितचेतसाम् । वाञ्छास्ति महती राम गम्यतां यदि रोचते ।।२६।।

एवं सुहृद्वचः श्रुत्वा सुहृत्प्रियचिकीर्षया । प्रहस्य जग्मतुर्गोपैर्वृतौ तालवनं प्रभू ।।२७।।

बलः प्रविश्य बाहुभ्यां तालान् सम्परिकम्पयन् । फलानि पातयामास मतङ्गज इवौजसा ।।२८।।

फलानां पततां शब्दं निशम्यासुररासभः । अभ्यधावत् क्षितितलं सनगं परिकम्पयन् ।।२९।।

समेत्य तरसा प्रत्यग् द्वाभ्यां पद्भ्यां बलं बली । निहत्योरसि काशब्दं मुञ्चन् पर्यसरत् खलः ।।३०।।

पुनरासाद्य संरब्ध उपक्रोष्टा पराक् स्थितः । चरणावपरौ राजन्! बलाय प्राक्षिपद् रुषा ।।३१।।

स तं गृहीत्वा प्रपदोर्भ्रामयित्वैकपाणिना । चिक्षेप तृणराजाग्रे भ्रामणत्यक्तजीवितम् ।।३२।। 

तेनाहतो महातालो वेपमानो बृहच्छिराः । पार्श्वस्थंकम्पयन् भग्नः स चान्यं सो।पि चापरम् ।।३३।।

बलस्य लीलयोत्सृष्टखरदेहहताहताः । तालाश्चकम्पिरे सर्वे महावातेरिता इव ।।३४।।

नैतच्चित्रं भगवति ह्यनन्ते जगदीश्वरे । ओतप्रोतमिदं यस्मिंस्तन्तुष्वङ्ग! यथा पटः ।।३५।।

ततः कृष्णं च रामं च ज्ञातयो धेनुकस्य ये । क्रोष्टारो।भ्यद्रवन् सर्वे संरब्धा हतबान्धवाः ।।३६।।

तांस्तानापततः कृष्णो रामश्च नृप! लीलया । गृहीतपश्चाच्चरणान् प्राहिणोत्तृणराजसु ।।३७।।

फलप्रकरसङ्कीर्णं दैत्यदेहैर्गतासुभिः । रराज भूः सतालाग्रैर्घनैरिव नभस्तलम् ।।३८।।

तयोस्तत् सुमहत् कर्म निशाम्य विबुधादयः । मुमुचुः पुष्पवर्षाणि चक्रुर्वाद्यानि तुष्टुवुः ।।३९।।

अथ तालफलान्यादन् मनुष्या गतसाध्वसाः । तृणं च पशवश्चेरुर्हतधेनुककानने ।।४०।।

कृष्णः कमलपत्राक्षः पुण्यश्रवणकीर्तनः । स्तूयमानो।नुगैर्गोपैः साग्रजो व्रजमाव्रजत् ।।४१।।

तं गोरजश्छुरितकुन्तलबद्धबर्हवन्यप्रसूनरुचिरेक्षणचारुहासम् । वेणुं क्व णन्तमनुगैरनुगीतकीर्िंत गोप्यो दिदृक्षितदृशो।भ्यगमन् समेताः ।।४२।।

पीत्वा मुकुन्दमुखसारघमक्षिभृङ्गैस्तापं जहुर्विरहजं व्रजयोषितो।ह्नि । तत्सत्कृतिं समधिगम्य विवेश गोष्ठं सव्रीडहासविनयं यदपाङ्गमोक्षम् ।।४३।।

तयोर्यशोदारोहिण्यौ पुत्रयोः पुत्रवत्सले । यथाकामं यथाकालं व्यधत्तां परमाशिषः ।।४४।।

गताध्वानश्रमौ तत्र मज्जनोन्मर्दनादिभिः । नीवीं वसित्वा रुचिरां दिव्यस्रग्गन्धमण्डितौ ।।४५।।

जनन्युपहृतं प्राश्य स्वाद्वन्नमुपलालितौ । संविश्य वरशय्यायां सुखं सुषुपतुर्व्रजे ।।४६।।

एवं स भगवान् कृष्णो वृन्दावनचरः क्व चित् । ययौ राममृते राजन्! कालिन्दीं सखिभिर्वृतः।।४७।।

अथ गावश्च गोपाश्च निदाघातपपीडिताः । दुष्टं जलं पपुस्तस्यास्तृषार्ता विषदूषितम् ।।४८।। 

विषाम्भस्तदुपस्पृश्य दैवोपहतचेतसः । निपेतुर्व्यसवः सर्वे सलिलान्ते कुरुद्वह! ।।४९।।

वीक्ष्य तान् वै तथा भूतान् कृष्णो योगेश्वरेश्वरः । ईक्षयामृतवर्षिण्या स्वनाथान् समजीवयत् ।।५०।।

ते सम्प्रतीतस्मृतयः समुत्थाय जलान्तिकात् । आसन् सुविस्मिताः सर्वे वीक्षमाणाः परस्परम् ।।५१।।

अन्वमंसत तद्राजन्! गोविंदानुग्रहेक्षितम् । पीत्वा विषं परेतस्य पुनरुत्थानमात्मनः ।।५२।।

इति श्रीमद्बागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे धेनुकवधो नाम पञ्चदशो।ध्यायः ।।१५।।