ब्रह्मोवाच -
नौमीडय ते।भ्रवपुषे तडिदंबराय गुंजावतंसपरिपिच्छलसन्मुखाय । वन्यस्रजे कवलवेत्रविषाणवेणुलक्ष्मश्रिये मृदुपदे पशुपांगजाय ।।१।।
अस्यापि देव वपुषो मदनुग्रहस्य स्वेच्छामयस्य न तु भूतमयस्य को।पि । नेशे महि त्ववसितुं मनसा।।न्तरेण साक्षात्तवैव किमुतात्मसुखानुभूतेः ।।२।।
ज्ञाने प्रयासमुदपास्य नमन्त एव जीवन्ति सन्मुखरितां भवदीयवार्ताम् । स्थाने स्थिताः श्रुतिगतां तनुवाङ्मनोभिर्ये प्रायशो।जित! जितो।प्यसि तैस्त्रिलोक्याम् ।।३।।
श्रेयःस्रुतिं भक्तिमुदस्य ते विभो! क्लिश्यन्ति ये केवलबोधलब्धये । तेषामसौ क्लेशल एव शिष्यते नान्यद् यथा स्थूलतुषावघातिनाम् ।।४।।
पुरेह भूमन् बहवो।पि योगिनस्त्वदर्पितेहा निजकर्मलब्धया । विबुध्य भक्त्यैव कथोपनीतया प्रपेदिरे।ञ्जो।च्युत! ते गतिं पराम् ।।५।।
तथापि भूमन्! महिमागुणस्य ते विबोद्धुमर्हत्यमलान्तरात्मभिः । अविक्रियात् स्वानुभवादरूपतो ह्यनन्यबोध्यात्मतया न चान्यथा ।।६।।
गुणात्मनस्ते।पि गुणान् विमातुं हितावतीर्णस्य क ईशिरे।स्य । कालेन यैर्वा विमिताः सुकल्पैर्भूपांसवः खे मिहिका द्युभासः ।।७।।
तत्ते।नुकम्पां सुसमीक्षमाणो भुञ्जान एवात्मकृतं विपाकम् । हृद्वाग्वपुर्भिर्विदधन्नमस्ते जीवेत यो मुक्तिपदे स दायभाक् ।।८।।
पश्येश! मे।नार्यमनन्त आद्ये परात्मनि त्वय्यपि मायिमायिनि । मायां वितत्येक्षितुमात्मवैभवं ह्यहं कियानैच्छमिवार्चिरग्नौ ।।९।।
अतः क्षमस्वाच्युत! मे रजोभुवो ह्यजानतस्त्वत्पृथगीशमानिनः । अजावलेपान्धतमो।न्धचक्षुष एषो।नुकम्प्यो मयि नाथवानिति ।।१०।।
क्व हं तमोमहदहंखचराग्निवार्भूसंवेष्टिताण्डघटसप्तवितस्तिकायः । क्वेदृग्विधाविगणिताण्डपराणुचर्यावाताध्वरोमविवरस्य च ते महित्वम् ।।११।।
उत्क्षेपणं गर्भगतस्य पादयोः किं कल्पते मातुरधोक्षजागसे । किमस्तिनास्तिव्यपदेशभूषितं तवास्ति कुक्षेः कियदप्यनन्तः ।।१२।।
जगत्त्रयान्तोदधिसम्प्लवोदे नारायणस्योदरनाभिनालात् । विनिर्गतो।जस्त्विति वाङ् न वै मृषा किं त्वीश्वर त्वन्न विनिर्गतो।स्मि ।।१३।।
नारायणस्त्वं न हि सर्वदेहिनामात्मास्यधीशाखिललोकसाक्षी । नारायणो।ङ्गं नरभूजलायनात्तच्चापि सत्यं न तवैव माया ।।१४।।
तच्चेज्जलस्थं तव सज्जगद्वपुः किं मे न दृष्टं भगवंस्तदैव । किं वा सुदृष्टं हृदि मे तदैव किं नो सपद्येव पुनर्व्यदर्शि ।।१५।।
अत्रैव मायाधमनावतारे ह्यस्य प्रपञ्चस्य बहिः स्फुटस्य । कृत्स्न्स्य चान्तर्जठरे जनन्या मायात्वमेव प्रकटीकृतं ते ।।१६।।
यस्य कुक्षाविदं सर्वं सात्मं भाति यथा तथा । तत्त्वय्यपीह तत् सर्वं किमिदं मायया विना ।।१७।।
अद्यैव त्वदृते।स्य किं मम न ते मायात्वमादर्शित मेको।सि प्रथमं ततो व्रजसुहृद् वत्साः समस्ता अपि । तावन्तो।सि चतुर्भुजास्तदखिलैः साकं मयोपासितास्तावन्त्येव जगन्त्यभूस्तदमितं ब्रह्माद्वयं शिष्यते ।।१८।।
अजानतां त्वत्पदवीमनात्मन्यात्मा।।त्मना भासि वितत्य मायाम् । सृष्टाविवाहं जगतो विधान इव त्वमेषो।न्त इव त्रिनेत्रः ।।१९।।
सुरेष्वृषिष्वीश! तथैव नृष्वपि तिर्यक्षु यादस्स्वपि ते।जनस्य । जन्मासतां दुर्मदनिग्रहाय प्रभो! विधातः सदनुग्रहाय च ।।२०।।
को वेत्ति भूमन्! भगवन्! परात्मन्! योगेश्वरोतीर्भवतस्त्रिलोक्याम् । क्व वा कथं वा कति वा कदेति विस्तारयन् क्रीडसि योगमायाम् ।।२१।।
तस्मादिदं जगदशेषमसत्स्वरूपं स्वप्नाभमस्तधिषणं पुरुदुःखदुःखम् । त्वय्येव नित्यसुखबोधतनावनन्ते मायात उद्यदपि यत् सदिवावभाति ।।२२।।
एकस्त्वमात्मा पुरुषः पुराणः सत्यः स्वयंज्योतिरनन्त आद्यः । नित्यो।क्षरो।जस्रसुखो निरञ्जनः पूर्णो।द्वयो मुक्त उपाधितो।मृतः ।।२३।।
एवंविधं त्वां सकलात्मनामपि स्वात्मानमात्मात्मतया विचक्षते । गुर्वर्कलब्धोपनिषत्सुचक्षुषा ये ते तरन्तीव भवानृताम्बुधिम् ।।२४।।
आत्मानमेवात्मतयाविजानतां तेनैव जातं निखिलं प्रपञ्चितम् । ज्ञानेन भूयो।पि च तत् प्रलीयते रज्ज्वामहेर्भोगभवाभवौ यथा ।।२५।।
अज्ञानसंज्ञाौ भवबन्धमोक्षौ द्वौ नाम नान्यौ स्त ऋतज्ञाभावात् । अजस्रचित्यात्मनि केवले परे विचार्यमाणे तरणाविवाहनी ।।२६।।
त्वामात्मानं परं मत्वा परमात्मानमेव च । आत्मा पुनर्बहिर्मृग्य अहो।ज्ञाजनताज्ञाता ।।२७।।
अन्तर्भवे।नन्त भवन्तमेव ह्यतत्त्यजन्तो मृगयन्ति सन्तः । असन्तमप्यन्त्यहिमन्तरेण सन्तं गुणं तं किमु यन्ति सन्तः ।।२८।।
अथापि ते देव पदाम्बुजद्वयप्रसादलेशानुगृहीत एव हि । जानाति तत्त्वं भगवन् महिम्नो न चान्य एको।पि चिरं विचिन्वन् ।।२९।।
तदस्तु मे नाथ स भूरिभागो भवे।त्र वान्यत्र तु वा तिरश्चाम् । येनाहमेको।पि भवज्जनानां भूत्वा निषेवे तव पादपल्लवम् ।।३०।।
अहो।तिधन्या व्रजगोरमण्यः स्तन्यामृतं पीतमतीव ते मुदा । यासां विभो वत्सतरात्मजात्मना यत्तृप्तये।द्यापि न चालमध्वराः ।।३१।।
अहो भाग्यमहो भाग्यं नन्दगोपव्रजौकसाम् । यन्मित्रं परमानन्दं पूर्णं ब्रह्म सनातनम् ।।३२।।
एषां तु भाग्यमहिमाच्युत तावदास्तामेकादशैव हि वयं बत भूरिभागाः । एतद्धृषीकचषकैरसकृत् पिबामः शर्वादयो।ङ्घ्युदजमध्वमृतासवं ते ।।३३।।
तद् भूरिभाग्यमिह जन्म किमप्यटव्यां यद् गोकुले।पि कतमाङ्घ्रिरजो।भिषेकम् । यज्जीवितं तु निखिलं भगवान् मुकुन्दस्त्वद्यापि यत्पदरजः श्रुतिमृग्यमेव ।।३४।।
एषां घोषनिवासिनामुत भवान् किं देव रातेति नश्चेतो विश्वफलात् फलं त्वदपरं कुत्राप्ययन् मुह्यति । सद्वेषादिव पूतनापि सकुला त्वामेव देवापिता यद्धामार्थसुहृत्प्रियात्मतनयप्राणाशयास्त्वत्कृते ।।३५।।
तावद् रागादयः स्तेनास्तावत् कारागृहं गृहम् । तावन्मोहो।ङ्घ्रिनिगडो यावत् कृष्ण! न ते जनाः ।३६।।
प्रपञ्चं निष्प्रपञ्चो।पि विडम्बयसि भूतले । प्रपन्नजनतानन्दसन्दोहं प्रथितुं प्रभो ! ।।३७।।
जानन्त एव जानन्तु किं बहूक्त्या न मे प्रभो ! । मनसो वपुषो वाचो वैभवं तव गोचरः ।।३८।।
अनुजानीहि मां कृष्ण! सर्वं त्वं वेत्सि सर्वदृक् । त्वमेव जगतां नाथो जगदेतत्तवार्पितम् ।।३९।।
श्रीकृष्ण! वृष्णिकुलपुष्करजोषदायिन्! क्ष्मानिर्जरद्विजपशूदधिवृद्धिकारिन्! । उद्धर्मशार्वरहर क्षितिराक्षसध्रुगाकल्पमार्कमर्हन् भगवन्! नमस्ते ।।४०।।
श्रीशुक उवाच -
इत्यभिष्टूय भूमानं त्रिः परिक्रम्य पादयोः । नत्वाभीष्टं जगद्धाता स्वधाम प्रत्यपद्यत ।।४१।।
ततो।नुज्ञाप्य भगवान् स्वभुवं प्रागवस्थितान् । वत्सान् पुलिनमानिन्ये यथापूर्वसखं स्वकम् ।।४२।।
एकस्मिन्नपि याते।ब्दे प्राणेशं चान्तरा।।त्मनः । कृष्णमायाहता राजन् क्षणार्धं मेनिरे।र्भकाः ।।४३।।
किं किं न विस्मरन्तीह मायामोहितचेतसः । यन्मोहितं जगत् सर्वमभीक्ष्णं विस्मृतात्मकम् ।।४४।।
ऊचुश्च सुहृदः कृष्णं स्वागतं ते।तिरंहसा । नैको।प्यभोजि कवल एहीतः साधु भुज्यताम् ।।४५।।
ततो हसन् हृषीकेशो।भ्यवहृत्य सहार्भकैः । दर्शयंश्चर्माजगरं न्यवर्तत वनाद् व्रजम् ।।४६।।
बर्हप्रसूननवधातुविचित्रिताङ्ग प्रोद्दामवेणुदलशृङ्गरवोत्सवाढयः । वत्सान् गृणन्ननुगगीतपवित्रकीर्तिर्गोपीदृगुत्सवदृशिः प्रविवेश गोष्ठम् ।।४७।।
अद्यानेन महाव्यालो यशोदानन्दसूनुना । हतो।विता वयं चास्मादिति बाला व्रजे जगुः ।।४८।।
राजोवाच -
ब्रह्मन् परोद्बवे कृष्णे इयान् प्रेमा कथं भवेत् । यो।भूतपूर्वस्तोकेषु स्वोद्बवेष्वपि कथ्यताम् ।।४९।।
श्रीशुक उवाच
सर्वेषामपि भूतानां नृप! स्वात्मैव वल्लभः । इतरे।पत्यवित्ताद्यास्तद्वल्लभतयैव हि ।।५०।।
तद् राजेन्द्र! यथा स्नेहः स्वस्वकात्मनि देहिनाम् । न तथा ममतालम्बिपुत्रवित्तगृहादिषु ।।५१।।
देहात्मवादिनां पुंसामपि राजन्यसत्तम! । यथा देहः प्रियतमस्तथा न ह्यनु ये च तम् ।।५२।।
देहो।पि ममताभाक् चेत्तर्ह्यसौ नात्मवत् प्रियः । यज्जीर्यत्यपि देहे।स्मिन् जीविताशा बलीयसी ।।५३।।
तस्मात् प्रियतमः स्वात्मा सर्वेषामपि देहिनाम् । तदर्थमेव सकलं जगदेतच्चराचरम् ।।५४।।
कृष्णमेनमवेहि त्वमात्मानमखिलात्मनाम् । जगद्धिताय सो।प्यत्र देहीवाभाति मायया ।।५५।।
वस्तुतो जानतामत्र कृष्णं स्थास्नु चरिष्णु च । भगवद्रूपमखिलं नान्यद् वस्त्विह किञ्चन ।।५६।।
सर्वेषामपि वस्तूनां भावार्थो भवति स्थितः । तस्यापि भगवान् कृष्णः किमतद्वस्तु रूप्यताम् ।।५७।।
समाश्रिता ये पदपल्लवप्लवं महत्पदं पुण्ययशोमुरारेः । भवाम्बुधिर्वत्सपदं परं पदं पदं पदं यद् विपदां न तेषाम् ।।५८।।
एतत्ते सर्वमाख्यातं यत् पृष्टो।हमिह त्वया । यत् कौमारे हरिकृतं पौगण्डे परिकीर्तितम् ।।५९।।
एतत् सुहृद्बिश्चरितं मुरारेरघार्दनं शाद्वलजेमनं च । व्यक्तेतरद् रूपमजोर्वभिष्टवं शृण्वन् गृणन्नेति नरो।खिलार्थान् ।।६०।।
एवं विहारैः कौमारेः कौमारं जहतुर्व्रजे । निलायनैः सेतुबंधैर्मर्कटोत्प्लवनादिभिः ।।६१।।
इति श्रीमद्बागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे ब्रह्मस्तुतिर्नाम चतुर्दशो।ध्यायः ।।१४।।