सप्तमोऽध्यायः

श्री नारायणमुनिरुवाच - 

श्रीमद्बागवतस्याथ विधिं दानस्य वच्मि ते । सम्पूर्णं स्यात्फलं येन भुवि तद्दानकारिणाम् ।। १

पौर्णमासी प्रौष्ठपदी मुख्यः कालोऽत्र कीर्तितः । पौर्णमास्योऽखिला वापि व्रतोत्सवादिनान्यपि ।। २

पुस्तकं लेखयेदादौ श्रीमद्बागवतस्य तु । दृढपत्रं स्पष्टवर्णमसम्मिश्रितपंक्ति च ।। ३

नवीनं शोधयित्वा तन्नूत्नैः फलकवेष्टनैः । निबध्य स्थापनीयं च लक्षणं तस्य ते ब्रुवे ।। ४

वेदान्तसूत्रैर्गायत्र्या परब्रह्मनिरूपकैः । यस्यारम्भो भवेज्ज्ञोयं श्रीमद्बागवतं हि तत् ।। ५

वृत्रासुरबधो यत्र वर्णितः स्यात्सविस्तरम् । यच्च प्रोक्तं शुकेनैव श्रीमद्बागवतं च तत् ।। ६

अष्टादशसहस्राणि श्लोका यस्य च कीर्तिताः । ब्राह्मवाराहपाद्मानां कल्पानां यत्र सत्कथाः ।। ७

आदिमध्यावसानेषु वैराग्याख्यानसंयुतम् । हरिलीलाकथाव्रातामृतानन्दितसत्सुरम् ।। ८

वासुदेवपरं तद्वै श्रीमद्बागवतं नृप ! । हैमे सिंहासने रम्ये स्थापयेद्दानवासरे ।। ९

पुरा राजा परीक्षित्तु हैमं सिंहासनं महत् । अमूल्यं रत्ननिचितं पुस्तकार्थमचीकरत् ।। १०

श्रीमद्बागवतं तस्मिन्निधाय भगवाञ्छुकः । वाचयित्वा सप्तमेऽह्नि श्वेतद्वीपं जगाम ह ।। ११

निर्लोभे निःस्पृहे तस्मिञ्छुकदेवे गते ततः । आनर्च हेमपीठस्थं तच्छ्रीभागवतं नृपः ।। १२

कृपाचार्याय तत्प्रादात्ततो राजा च दक्षिणाम् । लक्षमेकं सुवर्णानां दत्त्वा वैकुण्ठमाप सः ।। १३

तथा कर्तुमशक्तस्तु स्वस्य शक्त्यानुसारतः । हैमं सिंहासनं रम्यं कारयेच्छाठयवर्जितः ।। १४

कुर्याद्धैमं पत्रमेकमल्पवित्तस्तु मानवः । पलत्रयोन्मितं तत्र पुस्तकं स्थापयेत्तु तत् ।। १५

कुर्यादत्यल्पवित्तस्तु पलार्धस्वर्णपत्रकम् । सिंह चित्रं तत्र कृत्वा स्थापयेत्पुस्तकं पुमान् ।। १६

ततः पूर्वोदितैर्मन्त्रैर्गीतवाद्यपुरः सरम् । उपचारैर्यथालब्धैः पूजयेत्तदुदारधीः ।। १७

ततः प्रतिग्रहीतारं पूजयेद्ब्राह्मणं नरः । श्रीमद्बागवतस्न्ग्धिं हरेर्भक्तं जितेन्द्रियम् ।। १८

वस्त्रार्नवीनैः कौशेयैः स्वर्णमुक्तादिभूषणैः । गन्धपुष्पोपहारैस्तं सम्पूज्य प्रणमेत्पुमान् ।। १९

निषीदेत्पाङ्मुखो दाता ग्रहीतोदङ्गमुखस्तथा । सङ्कल्प्य दद्यात्तदधोमन्त्रानेतानुदीरयन् ।। २०

अनेककोटिजन्मोत्थं कृष्णभक्त्यन्तरायकृत् । दुरितं नाशमायातु दानेनानेन मेऽखिलम् ।। २१

श्रीमद्बागवतं दिव्यं पुराणं वेदसम्मितम् । ददामि विप्रवर्याय वासुदेवः प्रसीदतु ।। २२

मास्तु कृष्णवियोगे मे मा वियोगोऽस्तु तत्सताम् । दानेनानेन सुप्रीतो हरिर्दत्तां मदीप्सितम् ।। २३

इत्युच्चार्य स तद्दत्वा ततो दद्याच्च दक्षिणाम् । सुवर्णानां शतं वापि शतं वा रूप्यमुद्रिकाः ।। २४

अष्टादश द्वयं वापि शक्त्या दधात्तु दक्षिणाम् । दक्षिणायाश्चानुरूपं भोजयेद्ब्राह्मणांस्ततः ।। २५

य एतेन विधानेन दधाद्बागवतं पुमान् । स भास्वता विमानेन वैकुण्ठं प्रतिपद्यते ।। २६

मनोभिवाञ्छितांस्तत्र भोगान् प्राप्नोति सर्वशः । नाप्राप्यं विद्यते किञ्चित्तस्य कृष्णप्रसादतः ।। २७

अपुत्रः प्राभुयात्पुत्रं निर्धनो धनमाप्नुयात् । श्रीभागवतदानेन विद्यां विद्यार्थ्यवाप्नुयात् ।। २८

इति दानविधिर्मयोदितस्ते नृपते ! भागवतस्य शास्त्रदृष्टः ।
यमिहाचरतां न कापि वाञ्छा भुवि चामुत्र च शिष्यते दुरापा ।। २९ ।।

इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे चतुर्थप्रकरणे पुराणश्रवणोत्सवे श्रीमद्बागवतदानविधिनिरूपणनामा सप्तमोऽध्यायः ।।७।।