श्रीनारायणमुनिरुवाच -
एतेन साङ्खयज्ञानेन कारणादिवपुस्त्रयात् । स्वात्मा ज्ञोयः पृथक्चेशोऽव्याकृतादिवपुस्त्रयात् ।। १
तादात्म्येन ततश्चैक्यं ब्रह्मणा स्वस्य भावयेत् । ब्रह्मभूतस्ततो भक्तया वासुदेवं भजेत्पुमान् ।। २
वर्णाश्रमोचितं धर्मं स्वाधिकारानुसारिणम् । यावद्देहस्मृतिस्तावत्पालयंस्तं भजेत्सदा ।। ३
आश्रमाणां च वर्णानामितरेषां च योषिताम् । धर्मशास्त्रेऽखिला धर्माः प्रोक्ता ज्ञोयास्तु ते ततः ।। ४
वासुदेवो हि भगवान्साक्षान्नारायणः प्रभुः । मुमुक्षूणामुपास्योऽस्ति नान्य इत्यस्ति निश्चयः ।। ५
स देवदेवोऽस्ति हिर्रण्यवर्णो ह्यशेषसौन्दर्यनिकेतमूर्तिः ।
एकैककेऽङ्गं विधुकोटिकोटिप्रकाशतुल्योज्ज्वलकान्तिमाली ।। ६
सदा किशोरो वयसातिरम्यः पीताम्बरो दिक्प्रसरत्सुगन्धः ।
दोर्भ्यो मुखाग्रे मुरलीं च धृत्वा निनादयन्नूपुरशोभिपादः ।। ७
किरीटकाञ्चीवलयाङ्गदाद्यैर्विभूषणैर्भूषित इन्दुवक्त्रः ।
श्रीवत्सलक्ष्माङ्गविशालवक्षाः सरोजपत्रायतचारुनेत्रः ।। ८
महार्हवस्त्राभरणैश्च पौष्पैर्हारैस्तथा केसरचन्दनाद्यैः ।
सम्पूजितो राधिकया च लक्ष्म्या पश्यन्स्वभक्तं करुणार्द्रदृष्टया ।। ९
इत्थंभूतो वासुदेवः स्वकीयहृदयाम्बुजे । मुमुक्षुणा चिन्तनीयः स्मयमानमुखाम्बुजः ।। १०
हृदये मानसैरेव कर्तव्यं तस्य पूजनम् । उपचारैर्बहुविधैः पुराणप्रथितैः शुभैः ।। ११
प्रतिमायां तु हृदये ध्यातमावाह्य तं पुमान् । यथालब्धोपचारैश्च प्रसिद्धैः पूजयेत्प्रभुम् ।। १२
पूजनान्ते यथाशक्ति स्वस्थचित्तः स पूजकः । अष्टाक्षरं कृष्णमन्त्रं जपेद्धयायन्हरिं हृदि ।। १३
श्रवणं कीर्तनं चैव स्मरणं पादसेवनम् । अर्चनं वन्दनं दास्यं सख्यमात्मनिवेदनम् ।। १४
एतैः प्रकारैर्नवभिः सेवते यस्तमादरात् । तस्य गाढं भवेत्प्रेम तस्मिन्नारायणे विभौ ।। १५
तस्य पुंसो भगवति प्राणेन्द्रियमनोधियाम् । निरोधो जायतेऽथासौ सर्वत्रापि तमीक्षते ।। १६
ततश्च स ब्रह्मरूपमखण्डं शुद्धमक्षरम् । समीक्षतेऽथ तत्रैव विलसन्तं च तं प्रभुम् ।। १७
यथा पृथ्व्यादितत्त्वानामाधारोऽस्ति नभस्तथा । नित्यजीवेशप्रकृतिपुरुषाणां हि तद्ब्रृहत् ।। १८
सर्वाधारे तदाधारस्तस्मिन् ब्रह्मणि चाक्षरे । दिव्यमूर्तिः स भगवान्वर्तते पुरुषोत्तमः ।। १९
यथावर्त्तत्स्वरूपं च ज्योतीरूपं स पश्यति । तमसौ भजते भक्तो ब्रह्मरूपश्च वीक्षते ।। २०
भक्तिमेतां परासंज्ञां प्राहुः साङ्खयविचक्षणाः । इममर्थं च गीतायां कृष्णः प्राहार्जुनं प्रति ।। २१
ब्रह्मभृतः प्रसन्नात्मा न शोचति न काति । समः सर्वेषु भूतेषु मद्बक्तिं लभते पराम् ।। २२
भक्तयानयैव परया गुणातीता स्थितिर्भवेत् । शान्तिश्च सर्वथा पुंसस्तस्मादेतां श्रयेत्सुधीः ।। २३
साङ्खयशास्त्रस्य गूढार्थ एष उद्धाटय दर्शितः । मयाऽन्ये त्वेवमज्ञात्वा सिद्धान्तं प्राहुरन्यथा ।। २४
अभेदमाहुर्जीवस्य ते परब्रह्मणश्च वै । वासुदेवाः स्वयं भूत्वा यथेष्टं कुर्वते क्रियाः ।। २५
एकमेवेत्यादिश्रुतस्तात्पर्यमनवाप्य च । प्रमाणत्वेन तां प्राहुः स्वमते लोकवञ्चकाः ।। २६
तन्मतं न ग्रहीतव्यं संसृतेर्मुक्तिमिच्छता । सेव्य उद्धवसिद्धान्तस्तेन त्वेष मयोदितः ।। २७
भेदोऽस्ति वास्तवो नूनं जीवेशब्रह्मणां हरेः । नित्यानां नित्य इत्यादिश्रुतिभिः प्रतिपादितः ।।२८
ब्रह्मवित्परमाप्नोतीत्येभ्यो श्रुतिरपि स्फुटम् । उपास्यं हि परं ब्रह्म वदति ब्रह्मवेदिनाम् ।। २९
आत्मा शरीरं यस्यास्ति नैवात्मा वेत्ति यं तथा । य आन्तरो यमयति ह्यात्मानष्टमृतः प्रभुः ।। ३०
शरीरमक्षरं यस्य नैव यं वेत्ति चाक्षरम् । आन्तरो यो यमयति ह्यक्षरं सोऽमृतः प्रभुः ।। ३१
इत्याद्यर्थाः श्रुतिगणास्त्वक्षरब्रह्मणोऽपि च । परब्रह्मशरीरत्वं प्राहुर्नतु तदेकताम् ।। ३२
स्वरूपमक्षरस्यास्य श्रीमद्बागवते स्फुटम् । मैत्रेयो विदुरं प्रोचे वासस्थानतया हरेः ।। ३३
विकारैः सहितो युक्तैर्विशषेषादिभिरावृतः । । आण्डकोशो बहिरयं पञ्चाशत्कोटिविस्तृतः ।। ३४
दशोत्तराधिकैर्यत्र प्रविष्टः परमाणुवत् । लक्ष्यतेऽन्तर्गताश्चान्ये कोटिशो ह्यण्डराशयः ।। ३५
तदादृरक्षरं ब्रह्म सर्वकारणकारणम् । विष्णोर्धाम परं साक्षात्पुरुषस्य महात्मनः ।। ३६
अस्य चेदीदृशस्यापि न परब्रह्मरुपता । कुतस्तरां तदेशस्य जीवस्य तु कुतस्तमाम् ।। ३७
एकत्वन यञ्च वेदेऽस्ति ब्रह्मणस्तत्तु कीर्तितम् । निर्विकल्पसमाधिस्थदृष्टयैव न तुवस्तुतः ।। ३८
लोकालोकाचलारूढानराः पश्यन्ति भूतलम् । एकं यथा न चाधःस्थान् सर्वानपि नगान्युमान् ।। ३९
तथैव ते महामुक्ता निर्विकल्पसमाधयः । ब्रह्मैकमेव वीक्षन्ते जीवेशादीन्पृथग्न तु ।। ४०
ये तु नैवं स्थितिं प्राप्ता ब्रह्मैक्यं शास्त्रमात्रतः ।बुध्वा यथेष्टाचरणं कुर्वते ते पतन्त्यधः ।। ४१
अनेककोटिब्रह्माण्डनियन्तुः परमात्मनः । अतोऽभेदो न जीवानामिति ज्ञोयो हि निश्चयः ।। ४२
जीवानामीश्वराणां च भक्तयोपास्यः स एव हि । श्रीवासुदेवो भगवानेक एवास्ति नापरः ।। ४३
ब्रह्मस्वरूपेण ततो भजेत्तं स्वेनात्मनैवात्र मुने ! मुमुक्षुः ।
तेनैव यायात्परमं समाधिं ततो हरेर्धाम परात्परं च ।। ४४
इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे चतुर्थप्रकरणे ज्ञानोपदेशे साङ्खयसिद्धान्तनिरूपणनामा द्विसप्ततितमोऽध्यायः ।। ७२