त्रिसप्ततितमोऽध्यायः

श्रीनारायणमुनिरुवाच - 


भक्तेर्दाढर्यं हरौ यस्य तस्य प्राणेन्द्रियाणि तु । पिण्डीभवेयुर्देहश्च काष्ठवत्स्याद्धि योगिनः ।। १ 

स भक्तिविवशो योगी मदान्ध इव नेन्द्रियैः । ग्रहीतुं स्वस्वविषयाञ्छक्रोत्यानन्दनिर्भृतः ।। २

प्रारब्धवशगो देहस्तस्य भ्रमति भूतले । हरिमेव स सर्वत्र पश्यतिक्वापि नो जगत् ।। ३ 

प्रारब्धान्ते यथा देहं त्यक्त्वा स परमं पदम् । आत्यन्तिकलयेनैव याति तत्प्रोच्यतेऽधुना ।। ४ 

आदौ प्रकाशो हृदये ध्याननिष्ठेन योगिना । दृश्यते ब्रह्मरन्ध्रान्तं मूलाधारादखण्डितः ।। ५ 

ततो विवृद्धं तत्तेजो निर्गच्छद्बहिरीक्षते । इन्द्रियद्वारतो रोमच्छिद्रेभ्यः प्रसरत्स्वयम् ।। ६ 

असङ्खयदीपिकायुक्तान्निशायां काचमन्दिरात् । यथा मयूखा निर्यान्ति तथैतत्तेज आत्मनः ।। ७ 

एकीभवति तत्तेजः शब्दास्तत्रोद्बवन्त्यथ । महाघण्टाघटीयन्त्रदुन्दुभिध्वनिसन्निभाः ।। ८ 

तन्नादश्रवणेनास्य बाह्याभ्यन्तरभावना । नश्यत्येकीभवति च तेजो बाह्यान्तरं ततः ।। ९ 

जाग्रत्स्वप्नसुषुप्तीनां विलयो जायते ततः । स प्रकाशतुरीयात्मा ज्योतिर्लिङ्गं स्वमीक्षते ।। १० 

चतुर्विधान् देहिनोऽपि पुंस्त्रीलिङ्गविवर्जितान् । ज्योतिर्लिङ्गानीक्षतेऽथ तज्ज्योतिश्चैकतां गतम् ।। ११

वर्धमानं च तत्तेजः पृथिव्यादिसमं भवत् । पश्यति व्याप्य ब्रह्माण्डं भिन्ददष्टावृतीरिति ।। १२ 

स्थूले तस्य शरीरे तु कालशक्तया हरेस्तदा । सांवर्तार्काग्निवाय्वब्दसविद्युत्स्तनयित्नवः ।। १३ 

प्रकाशन्ते ततो देहं विराजा सह लीनताम् । प्राप्त इत्यभिजानाति सत्तारूपः स योगवित् ।।१४

सतुरीयप्रकाशोऽथ दिव्यं भागवताभिधम् । देहं स लब्ध्वा परमे भगवद्धाम्नि मोदते ।। १५ 

न तस्य कर्मजन्योऽसौ देहः किन्त्वस्ति चिन्मयः । प्रलये न व्यथामेति न सर्गे च स जायते ।। १६ 

सत्यसङ्कल्पापहतपाप्मत्वादिगुणान्वितः । स मुक्तो वर्तते तत्र सेवमानो हरिं मुदा ।। १७ 

इति ज्ञानं मुने ! तुभ्यमाख्यातं मोक्षसाधनम् । सर्वोपनिषदां सारमाकृष्याज्ञाननाशनम् ।। १८ 

इदं ज्ञानं प्रदातव्यं सद्बक्ताय मुमुक्षवे । जितेन्द्रियाय शान्ताय शुचये स्वहितैषिणे ।। १९ 

अहिंसकायाद्रोहाय निष्कामाय विशेषतः । ग्राम्यसौख्ये विरक्ताय देयमेतच्च सद्धिये ।। २० 

 कामिने क्रोधिने चापि लोभिने निर्दयाय च । एतत्क्वापि न दातव्यं न च देहाभिमानिने ।। २१

विष्णुभक्तिविहीनाय ग्राम्यसौख्यरताय च । नैतद्देयं च हिंस्राय तथा मत्सरिणेऽपि च ।। २२

इदं च शृणुयाद्वा यः पठेत्प्रयत आदरात् । स बुद्धिं प्राप्नुयान्नूनमात्मश्रेयस्करीं पुमान् ।। २३


सुव्रत उवाच – 

इत्युक्तमाश्रुत्य मुनिः स राजन् ! ज्ञानं परं श्रीहरिणाऽतिहृष्टः ।
निःसंशयस्तं भजति स्म नित्यं ब्रह्मात्मना न्राकृतिवासुदेवम् ।। २४ 


इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे चतुर्थप्रकरणे ज्ञानोपदेशे ज्ञानफलनिरूपणनामा त्रिसप्ततितमोरणागऽध्यायः ।। ७३ ।।