सुव्रत उवाच -
एकदाऽथ हरिं राजन्नित्यानन्दो महामुनिः । तदग्र उपविष्टसतं नत्वापृच्छत्कृताञ्जलिः ।। १
नित्यानन्द उवाच -
ऋते ज्ञानान्न मुक्तिः स्यादित्यस्ति भगवज्चछ्रुतिः । ज्ञानं तत्कृपया मह्यं वक्तुमर्हसि निश्चितम् ।। २
सुव्रत उवाच -
इति पृष्टः स भगवान्मुनिना तेन भूपते ! । कथयामासं तं ज्ञानं साङ्खयशास्त्रविनिश्चितम् ।। ३
श्रीनारायणमुनिरुवाच -
ब्रह्माण्डसर्गद्वारा ते वदामि ज्ञानमञ्जसा । येन मुक्तिर्भवेन्नणां शृणु त्वं मुनिसत्तम् ! ।। ४
आत्यन्तिके लये पूर्वं भगवानेक एव हि । आसीत्स्वयं वासुदेवः स्वकीयेऽक्षरधामनि ।। ५
महापुमान्महामाया सहैवानन्तकोटिभिः । प्रधानपुरुषैस्तस्य प्रकाशेऽस्वपितां तदा ।। ६
स श्रीकृष्णो दिव्यमूर्तिः प्रोच्यते पुरुषोत्तमः । परमात्मा परंब्रह्म विष्णुर्नारायणश्च सः ।। ७
ज्योतीरूपोऽक्षरातीतो हरिश्च परमः पुमान् । प्रोक्तः स एव वेदेषु पुराणेषु च भारते ।। ८
सिसृक्षाऽभूघर्दिा तस्य ब्रह्माण्डानां तदा स तु । प्राबोधयत्स्वेक्षणेन महाकालाख्यपूरुषम् ।। ९
यं जीवं चाक्षरं ब्रह्म प्रवदन्ति नरं मुने ! । अनेककोटिब्रह्माण्डजन्मस्थित्यन्तकारणम् ।। १०
पुरुषेणात्मभूतेन महामायां च तेन सः । प्राबोधयद्वासुदेवो वीक्षयाण्डसिसृक्षया ।। ११
प्रबुद्धया तया साकं प्रभोस्तस्येच्छयैव सः । बहुकालं स्म रमते महाकालो हि पूरुषः ।। १२
स तस्यां गर्भमाधत्त बहुकालं दधौ च सा । ततः प्रधानपुरुषान्प्रासूतानेककोटिशः ।। १३
प्रधानानां तथा पुंसां योगेनैवाण्डकोटयः । इच्छया वासुदेवस्य जायन्ते स्म ह्यनेकशः ।। १४
रमणस्य श्रमेणैव स्वेदाम्बु पुरुषाङ्गतः । बभूव नारसंज्ञां यद्ब्रह्माण्डोघाश्रयं विदुः ।। १५
प्रकाशानन्दरूपं तद्यस्यैकेनापि बिन्दुना । जीवेशाः सुखिनः सन्ति नैकब्रह्माण्डवासिनः ।। १६
स्वाङ्गोत्पन्ने जले तस्मिन्नशेत स नरस्ततः । आपो नारा इति श्रुत्या नारायण इतीर्यते ।। १७
कूटस्थश्चाक्षरात्मासावव्यक्तः प्रकृतेः परः । अप्रमेयश्च विबुधैर्महापुरुष उच्यते ।। १८
शयानस्य प्रभोस्तस्य पादसंवाहनं तदा । दिव्यमूर्तिर्महामाया करोति प्रीणयन्त्यमुम् ।। १९
वासुदेवः स च स्वाभिः सत्यज्ञानादिशक्तिभिः । तेषु सर्वेष्वन्वितोऽस्ति व्यतिरिक्तोऽस्ति च स्वतः । २०
ब्रह्माण्डानां समुत्पत्तिर्भवत्येवं हरीच्छया । उत्पत्तिरीतिं कथये तत्रैकस्यादितो मुने ! ।। २१
अधिष्ठाता प्रधानस्य पुरुषो योऽक्षरोद्बवः । अनादिनिधनो देव ईश्वरेशः स उच्यते ।। २२
योऽन्वयव्यतिरेकाभ्यां देहेष्वव्याकृतादिषु । ईश्वराद्याख्यपुरुषेऽधिष्ठितेऽवस्थितोऽस्ति च ।। २३
सगुणब्रह्मसंज्ञोऽसौ सिसृक्षुः पुरुषो जगत् । कालं कर्म स्वभावं च प्राप्नोत्यादौ हरीच्छया ।। २४
ईक्षणं वीर्यमाधत्ते महापुरुषवीक्षितः । पुरुषः स प्रधानाख्यप्रकृतौ तैः समन्वितः ।। २५
पुरुषाधिष्ठितेनाथ प्रधाने त्रिगुणात्मके । प्राप्नुवन्ति गुणाः क्षोभं कालेनैवादितस्त्रयः ।। २६
परिणामः स्वभावेन ततस्तेषां च जायते । महत्तत्त्वस्य जननं जायते तेन कर्मणा ।। २७
शुद्धं गुणत्रयं ह्येतत्प्रोच्यतेऽव्याकृताभिधम् । अव्यूढकरपादादि वपुरीशस्य चादिमम् ।। २८
तदात्मा पुरुषो यश्च स ईश्वर इतीर्यते । विस्तरेणैव सम्प्रोक्तः श्रीमद्बागवते त्वसौ ।। २९
उद्बद्धशुद्धसत्त्वादित्रिगुणा प्रकृतिस्तु सा । तदा सत्त्वगुणद्वारा महत्तत्त्वं प्रसूयते ।। ३०
प्रकाशरूपं शान्तं च कूटस्थं जगदंकुरम् । ज्ञानक्रियाभ्यां शक्तिभ्यां चित्तं सूत्रं च यद्विदुः ।। ३१
पदं साक्षाद्बगवतः शान्तं सत्त्वगुणं शुचि । अविकारीति च प्रोक्तं वृत्तिभिश्चित्तलक्षणम् ।। ३२
अनुप्राणन्ति यं प्राणाः प्राणन्तं सर्वजन्तुषु । स महाप्राण इत्याहुर्यत्तत्सूत्रमिहोदितम् ।। ३३
अथ मायाकाल कर्मस्वभावैश्च विकुर्वतः । महत्तत्त्वादहङ्कारः सह रुद्रेण जायते ।। ३४
ज्ञानशक्तिः क्रियाशक्तिर्द्रव्यशक्तिश्च स त्रिधा । वैकारिकस्तैजसश्च तामसश्चेति कथ्यते ।। ३५
त्रिगुणोऽसावङ्कारस्तत्त्वेन महता सह । सूत्राभिधानमीशस्य । द्वितीयं वपुरुच्यते ।। ३६
ईश्वरोऽव्याकृतात्मा च वपुषस्तस्य योगतः । हिरण्यगर्भ इत्याख्यां द्वितीयां लभते पुनः ।। ३७
सर्वेषामपि जीवानां शरीरे सूक्ष्मकारणे । सूत्राख्येऽत्रेशवपुषि विलीने भवतस्तदा ।। ३८
खवाय्वग्न्यप्पृथिव्यश्च लीनास्तस्मिंस्तदा स्थिताः । शब्दः स्पर्शो रूपरसौ गन्ध इत्यपि पञ्च स ।। ३९
यदैतत्क्षोभमाप्नोति कालशक्तयादिभिर्हरेः । तदा तत्र स्थिता जीवाः सच्चितानादिकर्मणाम् ।। ४०
परिपक्वदशां प्राप्य स्वस्वकर्मानुसारतः । तिष्ठन्त्यंकुरितास्तात्र विराजोऽथ जनिं ब्रुवे ।। ४१
अव्याकृतात्मा पुरुषो यथा सूत्रात्मयोगतः । हिरण्यगर्भ इत्याख्यां लभतेऽसौ तथा मुने ! ।। ४२
हिरण्यगर्भो यद्योगाद्वैश्वानर इतीर्यते । एतावता न तद्बेदो यतोऽसावेक एव हि ।। ४३
ब्रह्माण्डसर्गस्त्रिगुणात्मकाद्वै तस्माद्यथाऽभूत्त्रिगुणात्मकोऽसौ ।
तथैव तुभ्यं मुनिवर्य ! तत्त्वलक्ष्मोक्तिपूर्वं कथयामि बुद्धयै ।। ४४
इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे चतुर्थप्रकरणे ज्ञानोपदेशे पारुषसर्गनिरूपणनामाऽष्टषष्टितमोऽध्यायः ।। ६८