सप्तषष्टितमोऽध्यायः

श्रीनारायणमुनिरुवाच -


नानादुःखविकाराढयो योऽयं देहोऽस्ति देहिनाम् । आत्मा ततोऽस्ति भिन्नो वै निर्विकारः सुखात्मकः ।। १ 

अच्छेद्योऽसावमेद्यश्च नित्योऽजः शाश्वतोऽक्षरः देहेन्द्रियान्तः करणदेवतासुप्रकाशकः ।। २

न क्लिद्यने जलेनासौ दह्यते न च वह्निना । न शुष्यते वायुनापि निलेपश्चाचलो मतः ।। ३ 

य आत्मनि गुणाः सन्ति देहादौ ते न सन्ति हि । देहादौ ये च दोषास्ते न सन्त्यात्मनि कर्हिचित् ।। ४ 

एवंभूतं स्वमात्मानं ज्ञात्वा तस्याक्षरेण तु । सच्चिदानन्दरूपेण ब्रह्मणैक्यं विभावयेत् ।। ५ 

एषात्मनिष्ठा सुदृढा ज्ञानमित्युपवर्णितम् । वैराग्यस्याथ वक्ष्यामि लक्षणं साधुसम्मतम् ।। ६

स्वरूपमादौ देहस्य ज्ञोयं स्वस्य परस्य च । चर्मपेशी मलैरेव निभृताऽस्तीति तत्त्वतः ।। ७ 

त्वङयांसरुधिरस्नायुमेदोमज्जास्थिखण्डकैः । मलमूत्रजरारोगैर्जुष्टे देहेऽत्र किं शुभम् ? ।। ८ 

कृमिविङ्भस्मसंज्ञाऽस्ति राजनाम्नोऽपि यस्य च । तस्मिन्सक्ता लभन्ते वै मुहुर्देहांश्चतुर्विधान् ।। ९ 

शुभाशुभानि कृत्वाऽत्र देहैः कर्माणि मानवाः । उपर्यधो वा मध्ये वा संसरन्ति पुनः पुनः ।। १०

यातना नारकीस्तीव्रा लभन्तेऽशुभकर्मणा । पशुपक्ष्यल्पकीटादिगर्ह्यजन्मानि चावशाः ।। ११

शुभेन कर्मण क्व पि लभन्ते भूमिपालताम् । क्व पि पातालसौख्यानि स्वर्गसौख्यानि च क्व चित् ।। १२

सुखान्येतानि सर्वाणि वर्तन्ते नश्वराणि हि । कामलोभभयेर्ष्यारुट्स्पर्धाद्यैर्निभृतानि च ।। १३

दिने ब्रह्मण एकस्मिंश्चतुर्दश सुराधिपाः । नश्यन्ति क्षीयते सोऽपि सविराट् प्राकृते लये ।। १४ 

यत्किञ्चिदस्ति प्रकृतिपुरुषाभ्यां समुग्दतम् । स्थावरं जङ्गमं वा तद्बक्ष्यं कालस्य विद्यते ।। १५ 

क्षयिष्णुत्वं सदुःखत्वमित्थं ज्ञात्वाऽखिलस्य च । अनासक्तिः स्वदेहादौ या तद्वैराग्यमुच्यते ।। १६ 

वासुदेवावतारेऽथ माहात्म्यज्ञानपूर्विका । स्नेहेन सेवावृत्तिर्या सा भक्तिरिति कथ्यते ।। १७ 

श्वेतद्वीपे ब्रह्मपुरे गोलोकेऽपि च धामनि । वैकुण्ठादौ यदैश्वर्यं दिव्यं दिव्याश्च पार्षदाः ।। १८ 

स्वेच्छया मनुजाकारे हरौ तद्विद्यतेऽखिलम् । दिव्यभावेनेति बधो माहात्म्यज्ञानमुच्यते ।। १९

इति ज्ञात्वैव नवभिः प्रकारैः श्रवणादिभिः । सेवनं तस्य यत्प्रेम्णा तत्प्रोक्तं भक्तिलक्षणम् ।। २०

ज्ञानवैराग्यसहितां भक्तिमेवंविधां तु ये । हरौ कुर्युः स्वधर्मस्यास्ते तु भक्तोत्तमा मताः ।। २१ 

सन्तो य ईदृशा लोके प्रोक्ताः सग्दुवो हि ते । येषां दर्शनमात्रेण नश्यते सर्वपातकैः ।। २२

तेषामेवाश्रयात्पुंसः कर्मभिर्भ्राम्यतो भवे । निःश्रेयसं भवेदेव भक्तानां धर्मचारिणाम् ।। २३ 

एत एव ततः सन्तः सेवनीया मुमुक्षुणा । पूजा चैषां विधातव्या सग्दुरूणां महात्मनाम् ।। २४

प्रवृत्तश्च निवृत्तश्च धर्मो हि द्विविधो मतः द्वयोऽपि विष्णुसम्बन्धाद्बवत्येकान्तसंज्ञिातः ।। २५ 

निवृत्तधर्मैकान्तित्वं प्रापुर्हि सनकादयः । प्रवृत्तधर्मैकान्तित्वं मरीच्याद्यास्तथाऽप्नुवन् ।। २६ 

एकान्तेनैव धर्मेण मुक्तिरात्यन्तिकी मता । न केवलं निवृत्तेन धर्मेणापीतरेण वा ।। २७

स्वरूपमस्य धर्मस्य कथ्यते चाधुना स्फुटम् । विद्वद्बिरपि दुर्ज्ञोयं विना हरिसमाश्रयम् ।। २८ 

आन्तराणां च बाह्यानां करणानां स्वभावतः । नैरन्तर्येण सक्ताः स्युर्विष्णावखिलवृत्तयः ।। २९

ततः पुमान्प्रवृत्तं वा निवृत्तं कर्म वैदिकम् । कुर्यादहिंसं निष्कामं ज्ञानवैराग्ययुक्तु यत् ।। ३०

स एवैकान्त इत्युक्तो धर्मो निःश्रेयसप्रदः । तद्वन्तः पुरुषा ये ते प्रोक्ता एकान्तिका बुधैः ।। ३१ 

स्वधर्मादियुतानन्यभगवद्बक्तिलक्षणः । एष धर्मो हि भवतीत्यल्पसत्त्वैः सुदुर्धरः ।। ३२ 

धारकाः स्युर्यदा त्वस्य तदा प्रादुर्भवत्यसौ । न भवन्ति यदा ते च तिरोभवति वै तदा ।। ३३ 

साक्षाद्बगवतः सङ्गात्तद्बक्तानां च वेदृशाम् । धर्मो ह्येकान्त एषोऽत्र प्राप्यते नान्यथा क्व चित् ।। ३४ 

भवेदेष यदा यत्र तदा तत्र कृतं युगम् । भवेदेव न तु त्रेता द्वापरो न कलिर्न च ।। ३५ 

तमेव धर्ममाश्रित्य गृहभिर्यजनं हरेः । द्रव्ययज्ञौरहिंसैस्तु विधातव्यं यथाविधि ।। ३६

एकान्तरधर्ममाश्रित्य यष्टव्यस्त्यागिभिर्हरिः । ब्रह्मयज्ञौस्तपोयज्ञौर्योगयज्ञादिभिर्भुवि ।। ३७

तेषु यज्ञोषु ये देवास्तदीयत्वेन तेऽखिलाः । भावयित्वाभ्यर्चनीया न तु कार्या पृथग्मतिः ।। ३८ 

एकान्तिनो वैष्णवा ये ते त्यक्त्वा भौतिकानिह । देहान्लब्ध्वा दिव्यतनूर्गोलोकं धाम यान्ति हि ।। ३९ 

इत्येकान्तस्य धर्मस्य लक्षणं कथितं स्फुटम् । तपांस्युग्राणि यत्प्रास्यै चक्रुः पर्वं महर्षयः ।। ४० 

तस्मान्मुमुक्षुरिच्छेद्यः श्रेय आत्यन्तिकं स तु । एकान्तधर्मे सेवेत मुक्तः स्यात्संसृतेस्ततः ।। ४१ 

पुरापि ये ये सम्प्राप्ता मुक्तिमात्यन्तिकीं जनाः । तेप्यनेनैव धर्मेण प्राप्ता नत्वन्यसाधनैः ।। ४२ 

पालयंस्त्वमिमं धर्मं त्यागिनोऽन्यान्मदाश्रितान् । तथैव वर्तयेः सर्वान् समर्थोऽसि यतो मुने ! ।। ४३ 

धर्मामृतमिदं पुण्यं सेवेरन् येऽत्र सज्जनाः । कालसर्पभयं तेषां संसृतिः स्यान्न कर्हिचित् ।। ४४

इति परमपवित्रं सर्वदा सेवनीयं निपुणमतिमहद्बिः सर्वसन्तापहृधे । 

सरसमिह पिबन्ति त्यागिधर्मामृतं ते जनिमृतिभयमुक्ता धाम यान्त्येव विष्णोः ।। ४५ 


सुव्रत उवाच - 

इत्युक्तमाश्रुत्य स साधुधर्मवृन्दं सदीशेन मुनिः प्रसन्नः ।
स्वयं तथैवानघ ! वर्तमानो ह्यवीवृतत्त्यागिजनांश्च सर्वान् ।। ४६ 


इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे चतुर्थप्रकरणे त्यागिधर्मेषु ज्ञानादिलक्षणनिरूपणनामा सप्तषष्टितमोऽध्यायः ।। ६७