षट्षष्टितमोऽध्यायः

श्री नारायणमुनिरुवाच -


मानमूलो महान्दोषः क्रोधाख्योऽत्र प्रवर्तते । यो भस्मासात्करोत्याशु दानव्रततपोयमान् ।। १ 

वाच्यावाच्याविवेकश्च मर्यादाभेदनं यतः । भवत्यवध्यघातश्च स्वात्महत्यापि निश्चितम् ।। २

स्वजनानां गुरूणां च येन नाशः सतामपि । जायतेऽकार्यकारित्वं यतश्चापि दुरुक्तयः ।। ३ 

तथा मानात्सहचरी क्रोधस्येर्ष्यापि जायते । यया भवत्यल्पविदां साम्येच्छाऽपि महागुणैः ।। ४ 

मानादहंमतिर्देहे भवत्यात्मविदामपि । पारुष्यं निर्दयत्वं च दम्भो दर्पश्च मत्सरः ।। ५ 

स्यादन्याये न्यायधीश्च न्यायेऽन्यायमतिस्तथा । साधावसाधुधीर्मानादसाधौ साधुधीर्नृणाम् ।। ६ 

मानाद्वयस्तपोविद्यावृद्धानां ब्रह्मवेदिनाम् । अपमानो भवत्येव पुंसां दोषविदामपि ।। ७ 

अपूज्येऽनीश्वरेऽपि स्वे मानात्पूज्येश्वरत्वधीः । सद्बिर्वादश्च साम्यं च जायते स्तब्धता नृणाम् ।। ८ 

महदग्रोपवेशश्च देवानामप्यवन्दनम् । अपक्षपातो महतां पुंसां भवति मानतः ।। ९ 

अप्रसादः सतां स्वस्मिन्मानाद्बवति निश्चितम् । इत्यादयः सन्ति दोषा महान्तो मानमाश्रिताः ।। १० 

त्यागी जह्यात्ततो मानं विष्णुप्रीत्यमिलाषुकः । यतः स्यात्परमं सौख्यं मुक्तानां च मुमुक्षताम् ।। ११ 

हरिश्चन्द्रश्च कुशिको युधिष्ठिरमुखा नृपाः । मानेनाविकृताः प्रापुगतिं राज्ञां सुदुर्लभाम् ।। १२

अथ मानजयोपाया गुणाः कीर्त्यन्त उत्तमाः । यैरसौ जीयते शत्रुस्त्यागिभिः स्वल्पकालतः ।। १३ 

क्षेत्रक्षेत्रज्ञायो रूपे सम्यक्साङ्खयाविचारतः । निश्चित्य मानो हातव्यः क्षेत्रज्ञात्मधिया बुधैः ।। १४ 

त्यागिभिर्वा गृहस्थैर्वा प्रोक्तं वाक्यमरुन्तुदम् । अपि त्यागी सहेतैव तिरस्कारांश्च तत्कृतान् ।। १५ 

वयोज्ञानतपोयोगैः स्वतुल्यस्यापि मानवैः । कृते महति सन्माने नेर्ष्यया क्षोभमाप्नुयात् ।। १६ 

सुभोज्यं स्वकनिष्ठाय स्वस्मै दद्याञ्च नीरसम् । कश्चिद्बोजनपौ चेत्तेन न क्रोधमाप्नुयात् ।। १७ 

स्वतुल्यायापि चेद्दद्यात्सर्वपूज्याधिकारिताम् । गुरुः स्वस्मै तु पदवीं कनिष्ठां तर्हि नोत्तपेत् ।। १८ 

सर्वथा मानमीर्ष्यां च त्यक्त्वा सेवेत यः सतः । साधुः स एव कथितस्त्यागी भक्तः श्रियः पतेः ।। १९ 

महतीं पदवीं प्राप्ताः पूर्वं ये साधवो जनाः । मानत्यागेनैव ते च विनयेन महात्मसु ।। २० 

मानोऽसौ पापरूपो हि गृहिणामपि नोचितः । दुर्योधनो रावणाद्या नेशुर्येन सबान्धवाः ।। २१

त्याज्यस्त्यागिजनैर्मानः सर्वथेति विचारतः । पालने ब्रह्मचर्यादेर्मानस्त्याज्यो न कर्हिचित् ।। २२

अन्यत्र तु त्यक्तमानो लोकैरज्ञौरुपद्रुतः । धूल्यादिभिरपि त्यागी प्राप्नुयान्नैव विक्रियाम् ।। २३ 

आक्रोशितस्ताडितोऽन्यैस्तान्नाक्रोशेन्न ताडयेत् । वाच्या न त्यागिना दुर्वाग्वादः कार्यो न केनचित् ।। २४ 

न वाच्यमनृतं क्वापि सत्यं च परदुःखकृत् । वपुषा मनसा वाचा द्रोहः कार्यो न कस्यचित् ।। २५ 

न छिन्द्याद्धरितं त्यागी स्वार्थं तृणमपि क्वचित् । त्यागिनं गृहिणं वान्यं तृणेनापि न भीषयेत् ।। २६

मिथ्यापवादं कस्मिंश्चित्पुरुषे वापि योषिति । नारोपयेच्च न व्यङ्गं व्यङ्गशब्देन भाषयेत् ।। २७ 

यथा परमहंसः प्रागार्षभो भरतो मुने ! । अवर्तत तथा वृत्यं साधुना त्यागशालिना ।। २८ 

त्यागिना पृथिवीवच्च क्षमाशीलेन नित्यदा । भवितव्यं देवगुरुसच्छास्त्रानिन्दकेन च ।। २९ 

आत्मनिष्ठाभिमानेन प्रायशस्त्यागिनो जनाः । धर्मक्रियास्त्यजन्तीति न तत् कुर्यात्तु मच्छ्रितः ।। ३० 

ब्राह्मे मुहूर्त उत्थाय कुर्यान्नित्यविधिं स्वकम् । स तु प्रागेव कथितः पृच्छते ते मया मुने ! ।। ३१ 

न दिवा शयनं कुर्याद्रोगाद्यापदमन्तरा । न च सूर्यास्तसमये नैव सूर्योदये तथा ।। ३२

श्रवणं कीर्तनं विष्णोर्ध्यानं वन्दनमर्चनम् । विना कालो वृथा नैव नेतव्यस्त्यागिना क्वचित् ।। ३३

यथाशक्ति च कर्तव्याः श्रीकृष्णस्य व्रतोत्सवाः । त्यागिना चान्वहं कार्यः सच्छास्त्राभ्यास आदरात् ।। ३४ 

एतेषु नियमेषु स्याद्यस्य यस्य च विच्युतिः । प्रायश्चित्तं तस्य तस्य त्यागी कुर्यादतन्द्रितः ।। ३५

स्वाङ्गेन वापि दण्डाद्यैस्ताडने यस्य कस्यचित् । सकृत्कृतेऽपि सामान्यादेकं दिनमभोजनम् ।। ३६ 

शोफे जाते ताडितस्य निर्गतेऽसृजि वाङ्गतः । प्रहर्तोपवसेत्त्यागी मुने ! दिनचतुष्टयम् ।। ३७ 

प्रहतस्याङ्गभङ्गे तु कुर्यात्पाराकमुत्तमम् । दद्याच्च यावतीर्गालीत्सत्सङ्खयाहेष्वभोजनम् ।। ३८ 

क्रोधव्याप्तशरीरः सन्वदेद्वाक्यामरुन्तुदम् । यदा तदा तूपवसेत्त्यागवानेकवासरम् ।। ३९

प्रायश्चित्ते तु हिंसाया विशेषोऽस्ति च विस्तृतः । धर्मशास्त्रात्स तु ज्ञोयो दिङ्मात्रमिह सूच्यते ।। ४०

मत्कुणं मक्षिकां यूकां शलभं तत्समं च वा । जीवमन्यं तु हिंस्च्चेत्क्वचित्त्यागिजनो धिया ।। ४१ 

अष्टाक्षरं तदा मन्त्रं जपेदष्टोत्तरं शतम् । एतदन्याल्पजन्तोस्तु नाशे नामोच्चरेद्धरेः ।। ४२

चटकाखुद्विरेफादिस्थूलजन्तोस्तु हिंसने । अज्ञानादपि सञ्जाते कार्यमेकमुपोषणम् ।। ४३ 

इत्थं जीवेषु निश्चित्य तारतम्यं ततः पुमान् । यथार्हं वर्धयेत्त्यागी हिंसानिष्कृत्युपोषणम् ।। ४४ 

सूर्योदये च दिवसे सूर्यस्यास्तमये तथा ।निद्रायाच्चेत्प्रमादेन कुर्यादेकमुपोषणम् ।। ४५ 

एतेषां त्यागिनां मध्ये ये स्युरात्मनिवेदिनः । तेषां धर्मविशेषो यस्तं मुने ! कथयामि ते ।। ४६ 

रूपव्यक्तयावयोव्यक्तया सह स्त्रीमुखदर्शने । अज्ञानतोऽपि सञ्जाते कर्तव्यं तैरुपोषणम् ।। ४७ 

अध्वयाने मलोत्सर्गे स्नानकालेऽन्नयाचने । अज्ञानात्स्त्रीमुखेक्षायां नास्ति तेषामुपोषणम् ।। ४८ 

फलं पत्रं जलं वापि तैस्तु कृष्णानिवेदितम् ।न भक्ष्यं नैव पेयं च तेषामित्यधिकं मतम् ।।४९

बालवृद्धार्तपथिकहरिमन्दिरकर्मणाम् । एकमुक्तदिवास्वापनियमस्त्यागिनां न हि ।। ५० 

इति मानजयोपाया यथावत्परिकीर्तिताः । सत्सङ्गविष्णुभक्तिभ्यां सहैते स्युः फलप्रदाः ।। ५१ 

लोभादिपञ्चकस्येत्थं दोषास्तन्नाशनस्य च । उपाया ये च ते सर्वे कथिताः शिष्टसम्मताः ।। ५२ 

प्रायश्चित्तमनुक्तं स्याद्यस्यास्तु नियमच्युतेः । तस्या यथोचितं कार्यं सतः पृष्टैव वैष्णवान् ।। ५३ 

प्रायश्चित्तोपवासेषु न प्राश्यमितरज्जलात् । अनातुरोऽसकृन्नैव पिबेद्वार्यपि पूरुषः ।। ५४ 

शुद्ध्यर्थ उपवासश्चेदेकादश्याद्युपोषणे । प्राप्तः स्यात्तर्हि तं कुर्यात्तृतीये वासरे पृथक् ।। ५५

एवं द्वित्रोपवासेषु प्रायश्चित्तार्थकेष्वपि । व्रतोपवासो नो गण्यः कार्यः स त्यागिना पृथक् ।। ५६ 

प्रायश्चित्तोपवासे च क्रियमाणे पुनर्यदि । आपतेदुपवासोऽन्यः कुर्यात्तन्त्रेण तं तदा ।। ५७ 

भुक्तेरनन्तरं जाते वीक्षणादौ तु योषितः । नाममन्त्रं जपेद्विष्णोः स्पर्शे तु स्नानमाचरेत् ।। ५८

प्रायश्चित्तेन शुद्धं यः पुरुषं तदघाङ्कितम् । क्वचिद्ब्र्रूयात्स तु चरेद्दिनमेकमुपोषणम् ।। ५९ 

वैष्णवैर्नियमा ह्येते यावद्देहस्मृतिर्भवेत् । त्यक्तव्या त्यागिभिर्नैव तावत्कालमतन्द्रितैः ।। ६०

य एतैर्नियमैः पञ्च न नियच्छन्त्यरीनमून् । निरयेष्वेव पच्यन्ते मृत्वा ते त्यागिनः किल ।। ६१ 

आर्तनादान्प्रकुर्वन्तो मुक्त्वा ते यातना भृशम् ।श्वानः खरा वा जायन्ते भुवि वानरादयः ।। ६२

एतानाश्रित्य सद्धर्माज्ज्ञानवैराग्यसंयुतान् । भजेयुर्ये वासुदेवं प्रोक्ता एकान्तिनो हि ते ।। ६३ 

प्रोक्ताः परमहंसास्ते ज्ञानिभक्ताश्च सात्त्वताः । महाभागवताः सन्तः साधवो ब्रह्मवेदिनः ।। ६४ 

तेषां देहस्तु पञ्चत्वे गन्धपुष्पाद्यलङकृतः ।स्थापनीयो गिरेर्दयां महारण्येऽथवा जनैः ।। ६५ 

अम्बुवाहोऽग्निदाघो वा देशकालानुसारतः । कर्तव्यो रोदनं नैव कार्यं प्राकृतजीववत् ।। ६६ 

भक्तिर्नारायणे तैश्च धर्मज्ञानविरक्तिभिः । सहानन्यैव कर्तव्या त्यागिभिर्नित्यमादरात् ।। ६७ 

तत्रोदितास्ते मुनिवर्य ! धर्मा ये त्यागिनां भक्तिमतां हितास्ते ।
वदाम्यथो उद्धवसंश्रुतानि ज्ञानादिलक्ष्माण्यपि संविभज्य ।। ६८


इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे चतुर्थप्रकरणे त्यागिधर्मेषु मानदोषतज्जयोपायनिरूपणनामा षट्षष्टितमोऽध्यायः ।।६६