सुव्रत उवाच -
अथ तं सुखमासीनं पञ्चम्यां भोजनोत्तरम् । पुत्रावुपेत्य नत्वा च तत्समीपे निषेदतुः ।। १
आशीर्भिरभिनन्द्याथ तावुवाच हरिर्नृप ! । प्रष्टव्यं यदि किञ्चिद्वां भवेत्तर्ह्यद्य पृच्छतम् ।। २
इत्युक्तौ तेन तौ हृष्टौ तं पप्रच्छतुरीश्वर ! । शिष्या मुमुक्षवः कार्या इत्याज्ञा तेऽस्ति नौ प्रभो ! ।। ३
इच्छावः श्रोतुमखिलं त्वत्तो दीक्षाविधिं ततः । तं नौ ब्रूहि यथावत्त्वं शिष्यान् कुर्याव नस्ततः ।। ४
सुव्रत उवाच -
इति पृष्टो विनीताभ्यां पुत्राभ्यां भगवान् हरिः । कृष्णं गुरुं च संस्मृत्य भूपते ! प्रत्युवाच तौ ।। ५
श्री नारायणमुनिरुवाच -
धाम्नि स्वीयेऽक्षराख्ये विलसति भगवांस्तत्पुमांसं च मायां,
सत्यज्ञानादिभिर्यः प्रकृतिपुरुषजं शक्तिभिर्व्याप्य विश्वम् ।
तेजोभिः शक्तिभिः स्वैरनल इव जगद्व्याप्य लोके पृथक् स्वे,
वार्भिः पाशीव चास्ते भुवि धृतनृतनुः श्रेयसे सोऽस्तु कृष्णः ।। ६
श्रीमच्छारदपूर्णचन्द्रवदनः पद्मच्छदाभेक्षणो, द्योतग्दैरवपुर्विशालहृदयश्चाजानुबाहुद्वयः ।
कारुण्यार्द्रतनुः सिताम्बरधरो दोष्णा च पद्मं दधद्
रामानन्दमुनिः करोतु भविकं भुव्युद्धवः सद्गुरुः ।। ७
सभक्तिधर्मावनतत्परेण सुतौ ! स्वसौख्यावहचेष्टितेन ।
तेनैव मह्यं गदितं युवाभ्यां दीक्षाविधिं भागवतं वदामि ।। ८
आचार्यैरौद्धवाध्वस्थैदींक्षा भागवती यथा । सामान्या सविशेषा च पुम्भ्यो देयोच्यते तथा ।। ९
दीप्तं ज्ञानं प्रदद्याच्च क्षयं कुर्यात्तथैनसाम् । तस्माद्दीक्षेति सम्प्रोक्ता देशिकैस्तन्प्रवेदिभिः ।। १०
श्रीकृष्णो वासुदेवो वै गोलोकाधिपतिः स्वयम् । उपास्या देवता ह्यस्यां दीक्षायां भवति प्रभुः ।। ११
स्वोपास्यदेवसम्बन्धाद्दीक्षानामोच्यते यतः । औद्धवे सम्प्रदाये तद्वासुदेवीति सोच्यते ।। १२
द्विविधा सा तु विज्ञोया मुमुक्षूणां हितावहा । सामान्या महती चेति दीक्षा भवविमोचनी ।। १३
तद्याद्यां प्राप्नुयुर्ये ते प्रोक्ताः सत्सङ्गिसंज्ञाकाः । अन्ये त्वात्मनिवेद्याख्यास्तत्राद्यादौ निरूप्यते ।। १४
क्षणिकत्वात्स्वदेहस्य वैषम्याद्देशकालयोः ।तथाधिकारभेदाच्च दीक्षा साधारणोदिता ।। १५
नास्ति कालस्य नियमो न देशनियमस्तथा । सामान्यायां हि दीक्षायां न जातिनियमोऽपि च ।। १६
उत्पन्नं स्यान्मुमुक्षाया अङ्कुरो यस्य चेतसि । सच्छास्त्राद्वा सतां सङ्गात्सोऽधिकार्यत्र मानवः ।। १७
न तिथिर्न व्रतं नार्चा नोपवासादिका क्रिया । दुर्लभे सद्गुरूणां हि सकृत्सङ्ग उपस्थिते ।। १८
सदसद्व्यक्तिविच्छ्राद्धः स्वश्रेयः साधनोद्यतः । सच्छास्त्रेषु सुशीलेषु सत्सु च प्रीतिमान्सुधीः ।। १९
आस्तिको धर्मनिष्ठश्च यमाद्बीतश्च संसृतेः । समाश्रयेङ्गुरुं भक्तया धर्मवंशसमुद्बवम् ।। २०
स्वासन्नसम्बन्धभिन्नस्त्रीभाषास्पर्शवर्जितम् । स्वीयेतरासु च स्त्रीषु मातृस्वसृसुताधियम् ।। २१
स्वधर्मनियमैर्जुष्टं स्थितमुद्धववर्त्मनि । हरेर्भक्तं च तस्याग्र उपविष्टं कृताह्निकम् ।। २२
संपन्नोऽपि गुणैः सर्वैर्धर्मवंश्यो न चेत्तु यः । स गुरुर्नैव कर्तव्यः संसृतेर्मुक्तिमिच्छता ।। २३
स्नतो धौताम्बरधरः कृतपौर्वाकिक्रियः । फलं करे गृहीत्वैव मुमुक्षुस्तमुपाव्रजेत् ।। २४
निधायाग्रे फलं तस्य प्रणम्य प्राञ्जलिर्वदेत् । भगवन्पाहि मां भीतं संसृतेस्त्वामुपागतम् ।। २५
इत्थं प्रपन्नाय गुरुस्तस्मा अभयमादितः । दत्त्वा ततश्च सामान्यां सद्यो दीक्षां ददीत सः ।। २६
कालमायापापकर्मयमदूतभयादहम् । श्रीकृष्णदेवं शरणं प्रपन्नोऽस्मि स पातु माम् ।। २७
सङ्कल्पं कारयित्वेत्थं श्रीकृष्णस्य प्रसादिना । सकेसरादिगन्धेन स गोपीचन्दनेन वा ।। २८
कारयित्वोर्ध्वपुण्ड्रं च सम्प्रदायानुसारतः । हर्यङ्घिस्पर्शिते दद्यात्तस्मै तुलसिकास्रजौ ।। २९
बध्नीयात्कण्ठदेशे ते माले शिष्यस्ततो गुरुः । अष्टाक्षरं कृष्णमन्त्रं श्रवणे त्रिरुपादिशेत् ।। ३०
गुणाक्षरं ततो मन्त्रं जप्तुं सर्वत्र सर्वदा । उपादिशेद्गुरुस्तस्मै पापजालनिकृन्तनम् ।। ३१
दक्षकर्णे द्विजातीनामुपदेश्यो मनुर्मतः । तथा तुरीयवर्णानां वामकर्णे च दूरतः ।। ३२
ततो वदेच्च माहात्म्यं शिष्यं कृष्णस्य देशिकः । शिष्य ! त्वं वासुदेवस्य भक्तो जातोऽसि साम्प्रतम् ३३
स हि नारायणः स्वामी धाम्नः स्वादक्षरात्परात् । आविर्बभूव भूलोके न्राकृतिः श्रेयसे नृणाम् ।। ३४
रक्षार्थं च स्वाश्रययोर्दुष्टेभ्यो भक्तिधर्मयोः । जातस्य तस्य कारुण्यं को वा वक्तुं क्षमो भवेत् ।। ३५
द्वेषाच्चिन्तयतोऽपि स्वं सुरामांसाशिनोऽसुरान् निन्ये स्वकीयं धामैव कारुण्येनाततायिनः ।। ३६
स्मरतां वैरभावेन स्वमित्थं द्विषतामपि । गुणग्राही स भगवान् नागृादगुणान् हृदि ।। ३७
यद्येवं तर्हि भक्तया ये भजेयुः स्वमनन्यया । तेभ्यः प्रसन्नः करुणः स स्यात्किं वाच्यमत्र तु ।। ३८
सर्वेषां हितकर्तारं तमद्य स्वामिनं भवान् । प्राप्तोस्ति शरणं तेन मुक्तं संसृतिबन्धनात् ।। ३९
श्रीकृष्णमेव शरणं यः प्रपद्येत स ध्रुवम् । मायाया मुच्यते नान्यस्तस्यैवात्र वचः शृणु ।। ४०
दैवी ह्येषा गुणमयी मम माया दुरत्यया । मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ।। ४१
तस्मात्त्वं सर्वभावेन धर्मान्स्वविहिताञ्छ्रयन् । भजेथाः श्रीवासुदेवं भक्तिधर्मावनोद्बवम् ।। ४२
इत्थं श्रीकृष्णदेवस्य माहात्म्यं शास्त्रसम्मतम् । कथयन्तं वदेच्छिष्यः प्रहृष्टस्तं प्रणम्य सः ।। ४३
कालमायाभयाद्धोरान्मुक्तः संसृतिबन्धनात् । श्रीकृष्णस्याद्य भक्तोऽहं गुरो ! जातोऽस्मि निर्भयः ।। ४४
इत्थं च ब्रुवते तस्मै श्रीकृष्णप्रतिमां गुरुः । ददीत तदमीष्टां वै पूजनायानुवासरम् ।। ४५
ततश्चोपदिशेद्धर्माञ्छिष्य ! धर्मे सदाऽचरेः । धर्मेण धार्यते विश्वं ब्रह्माण्डं सेश्वरं यतः ।। ४६
प्रातः स्नानं चोर्घ्वपुण्ड्रं स्वकीयं नित्यकर्म च । कृष्णस्य पूजनं कुर्या बहिरन्तस्त्वमन्वहम् ।। ४७
कृष्णमन्त्रस्य च जपो नियमाच्छुचिनात्वया । निजशक्तयनुसारेण कार्योऽह्नि निशि चान्वहम् ।। ४८
एकादश्यस्त्वयोपोष्या हरेर्जन्मदिनानि च । तत्र तत्रोत्सवाः कार्याः स्वस्य शक्तयनुसारतः ।। ४९
मद्यं मांसं पारदार्यं स्तेयं स्वपरहिंसनम् । सर्वथैव त्वया त्याज्यं वर्णसङ्करकर्म च ।। ५०
भङ्गागञ्जाहिफेनानि तमालं मादकं च यत् । भक्षणीयं न तत्क्व पि यच्च लोके विगर्हितम् ।। ५१
अगालितं जलं क्षीरं न पेयं च कदाचन । अपशब्दा न वक्तव्याः सत्यं च स्वपरार्तिदम् ।। ५२
स्वासन्नसम्बन्धवतीः स्त्रीर्विनाऽन्यास्तु योषितः । न स्पृशेर्विधवाः क्व पि बुद्धिपूर्वमनापदि ।। ५३
तत्स्पर्शेऽज्ञानतो जाते स्नातव्यं बुद्धिपूर्वकम् । तत्स्पर्शने कृते कार्ये दिनमेकमुपोषणम् ।। ५४
कामाद्बुद्धया तु तत्स्पर्शे दिनद्वयमुपोषणम् । तादृक्स्पर्शे जनैर्बुद्धे कुर्याच्चान्द्रायणं व्रतम् ।। ५५
कार्य आवश्यके प्राप्ते प्राप्तायां क्व पि चापदि । बुद्धिपूर्वेऽपि तत्स्पर्शे जाते दोषो न विद्यते ।। ५६
स्त्रैणानामतिलुब्धानां कौलनास्तिकपापिनाम् । शुष्कज्ञानवतां चापि सङ्गः कार्यो न कुत्रचित् ।। ५७
सच्छास्त्रस्य सतां सङ्गं भक्तिं च नवधा हरौ । कुर्यास्त्वं प्रत्यहं शिष्य ! कञ्चनापवदेर्न च ।। ५८
कुसङ्गिभ्यो न शृणुयाः कथावार्ता हरेरपि । न च कस्यापि देवस्य वाचाप्युच्छेदमाचरेः ।। ५९
अद्य भागवतान्धर्मान्सतस्त्वं सङ्गतो ह्यसि । सत्सङ्गीति च विख्यातो भविष्यसि धरातले ।। ६०
एवमेव करिष्येऽहमित्याज्ञां शिरसा गुरोः । गृहीत्वा पूजनं तस्य शिष्यः कुर्याद्गुरोर्मुदा ।। ६१
नवीनैर्वसनैर्गन्धपुष्पस्रक्शेखरादिभिः । स्वर्णरूप्यादिमुद्राभिः सदन्नैश्च स्वशक्तितः ।। ६२
अभ्यर्च्य तं यथाशक्ति सतो विप्रांश्च पूजयेत् । ततः साष्टाङ्गमानम्य गृहं गच्छेत्तदाज्ञाया ।। ६३
ततः स दीक्षितो नित्यमुत्साहेन भजेत्प्रभुम् । वर्णाश्रमोचितं धर्मं गुरूक्तं पालयन् पुमान् ।। ६४
केसराद्यैरूर्ध्वपुण्ड्रं कुर्याद्विष्णुप्रसादिभिः । श्रीखण्डेनाथवा गोपीचन्दनेन सचन्द्रकम् ।। ६५
राधारमाप्रसादेन चन्द्रकं कुंकुमेन वा । कुर्याद्गृहस्थो वर्णी च तथा साधुजनश्च यः ।। ६६
सन्न्यासिनो वनस्थाश्च साग्रिकाश्चोर्ध्वपुण्ड्रकम् । विचन्द्रकं मृदा कुर्युश्चन्दनेनापि वा शुभम् ।। ६७
तत्र ये गृहिणो भक्तास्तथा साधुजनाश्च ये । तैर्दृा मुकुरं कार्यमूर्ध्वपुण्ड्रचतुष्टयम् ।। ६८
सन्न्यासिनश्चतुर्धा स्युराद्यस्तत्र कुटीचकः । बहूदकस्तथा हंसस्तुर्यः परमहंसकः ।। ६९
कुटीचकादयस्तत्र कुर्युः पुण्ड्रत्रयं त्रयः । शीर्ष्णि भाले हृदि तथा भाल एकं तुरीयकः ।। ७०
वानप्रस्था वर्णिनश्च भाले कण्ठे तथा हृदि । बाह्वोश्चेति च पञ्चैव दध्युः पुण्ड्राणि नित्यदा ।। ७१
सच्छूद्राणां दीक्षितानां प्रोक्तं पुण्ड्रूचतुष्टयम् । असच्छूद्रादिकानां तु भाले चन्दनचन्द्रकः ।। ७२
चतुष्टये तु पुण्ड्राणां वासुदेवादयोऽभिधाः । पठनीया भगवतश्चतस्रो भक्तपूरुषैः ।। ७३
कृष्णकेशवमुख्यानि पञ्च नामानि पञ्चके । पुण्ड्राणां पठनीयानि गायत्री वैष्णवी च वा ।। ७४
पुण्ड्रत्रये तु प्रणवः पठनीयस्त्रिमात्रकः । एकस्मिन्निह पुण्ड्रे तु पाठयो नारायणो मतः ।। ७५
पुण्ड्रमूर्घ्वं समं सौम्यं कनिष्ठाङ्गुलिवत्स्मृतम् । ऋजु दण्डाकृति शुभं तर्जन्या कार्यमेव तत् ।। ७६
अंगुल्या तिलकं कर्तुं न भवेद्यस्य दक्षता । स शलाकादिना कुर्याद्यथा तत्स्यात्सुशोभनम् ।। ७७
वर्तुलं तिर्यगच्छिद्रं हस्वं दीर्घं ततं तनु । वक्रं विरूपं वक्राग्रं छिन्नमूलं पदच्युतम् ।। ७८
अशुभ्रं रुक्षमारक्तं जले दृा च यत्कृतम् । विगन्धमवसह्यं च पुण्ड्रमाहुरनर्थकम् ।। ७९
प्रासादिक्यौ भगवतस्तुलसीमालिके गले । धारयेत्प्रयतो भक्तस्तादृशीं जपमालिकाम् ।। ८०
तुलसीकाष्ठमालाया अलाभे तु स दीक्षितः । प्रासादिकीं हरेर्दध्याच्चन्दनादितरूद्बवाम् ।। ८१
प्रातःस्रात्वा नित्यकर्म कृत्वार्चेत्प्रतिमां हरेः । अष्टाक्षरं यथाशक्ति जपेन्नित्यं शुचिः स च ।। ८२
दृढासनो जपेत्तं च मौनी स्वस्थोऽत्वरन्नृजुः । वस्त्राच्छादितमालश्च वासुदेवं हृदि स्मरन् ।। ८३
कुर्वीत द्वारिकायात्रामवश्यं दीक्षितो ह्यसौ । अङ्कयेत्तत्र बाहू च श्रीपतेस्तप्तहेतिभिः ।। ८४
जन्माष्टम्याद्युत्सवेषु स स्वाचार्यस्य दर्शनम् । कर्तुं तदन्तिकं गच्छेत्तं दृा दण्डवन्नमेत् ।। ८५
प्रणमेद्दक्षिणे भागे किञ्चिद्दूरे तमादरात् । आज्ञां विना तदङ्गं तु सच्छिष्यो न स्पृशेत्क्व चित् ।। ८६
गुरुसेवापरो नित्यं तथ्यवादी गुरोः पुरः । काले काले यथायोग्यं तस्य कुर्याश्च दर्शनम् ।। ८७
गुरोः शय्यामासनं च नाधिरोहेच्च पादुकाम् । तत्पानपात्रेण जलं न पिबेच्च कदाचन ।। ८८
सद्गुरोराज्ञाया तस्य वसतोऽपि गृहाश्रमे । भक्तस्य संसृतेर्भितिः पुनर्नास्त्यन्यजीववत् ।। ८९
दानेऽस्या अपि दीक्षाया द्वेधा विधिरुदीरितः । अधिकारविभेदेन मन्त्रभेदाद्रमापतेः ।। ९०
तत्रोक्तोऽयं विधिः सर्वश्चातुवर्णर्ण्यस्य दीक्षणे । ज्ञोयस्तथैवाश्रमिणां चतुर्णामपि सम्मतः ।। ९१
वर्णाश्रमेतरे ये तु तेषां वच्म्यधुना विधिम् । तिष्ठेयुस्ते गुरोर्गेहाद्बहिः प्राञ्जलयो जनाः ।। ९२
तेभ्यो गुरुः स चान्येन त्र्यक्षरं तूपदेशयेत् । मद्यमांसत्यागमुख्यान्नियमांश्च यथोचितम् ।। ९३
ततस्तैः पालनीयास्ते धर्मा नित्यमतन्द्रितैः । साधूनां दर्शनं कार्यं न तु स्पर्शोऽननुज्ञाया ।। ९४
स्वग्रामे राधिकाकृष्णप्रतिमा त्वौद्धवालये । यत्र स्याद्दर्शनं तस्यास्तैः कार्यं प्रतिवासरम् ।। ९५
बाह्या पूजा न तैः कार्या नित्यं कार्यैव मानसी । बहिस्तु दर्शनेनैव पूजाफलमवाप्नुयुः ।। ९६
नाममन्त्रस्य तु जपो नियमेनैव नित्यदा । कर्तव्यश्चन्द्रको भाले चन्दनेन मृदापि वा ।। ९७
स्वग्रामे प्रतिमा न स्यात्प्रभोर्यदि तदान्तिके । पुष्पस्रग्वस्त्रखण्डादि रक्ष्यं प्रासादिकं हरेः ।। ९८
दर्शनं स्पर्शनं तस्य कर्तव्यं प्रतिवासरम् । भगवत्प्रतिमायास्तु स्पर्शः कार्यो न कर्हिचित् ।। ९९
इति द्वितीयो दीक्षायाः सामान्याया विधिर्मया । निरूपितस्तथा कार्यो गुरुशिष्यैरिहौद्धवैः ।। १००
सामान्यदीक्षाविधिरित्थमुक्तो द्वेधा मया शास्त्रदृशा युवाभ्याम् ।
विशेषदीक्षाविधिमप्यशेषं हिताय लोकस्य वदामि पुत्रौ ! ।। १०१ ।।
इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे चतुर्थप्रकरणे दीक्षाविधौ सामान्यदीक्षाविधिनिरूपणनामा षट्चत्वारिंशोऽध्यायः ।। ४६ ।।