सुव्रत उवाच -
लिखित्वा पत्रिकामित्थं तस्याश्च प्रतिमाष्टकम् । साधुभिः कारयित्वाऽसौ प्रैषयत्ककुभोऽष्ट सः ।। १
तत्र तत्र च तां प्राप्य भक्ताः प्रापुर्मुदं पराम् । कृत्वा तत्प्रतिमां सर्वे पृथक्पृथगधारयन् ।। २
तदुक्तरीत्या सर्वे च स्वाधिकारानुसारतः । अवर्तन्त च तं भेजुर्जानन्तः कृष्णमेव ते ।। ३
पत्रिकां प्रेषयित्वाथ भक्तैः कतिपयैर्वृतः । हरिः श्रीनगरं भूयो जगामाऽनन्दयन्निजान् ।। ४
अतर्कितागमात्तस्म नागरा हर्षविह्वलाः । प्रत्युद्गम्य नमस्कृत्य तमानिन्युः पुरं मुदा ।। ५
नरनारायणं दृा मन्दिरेऽस्यात्मनो हरिः । आवासमकरोद्राजन् ! पौराः पर्यचरंश्च तम् ।। ६
पौरान्भक्तान् स सुखयन्सद्वार्ताभिरनुक्षपम् । श्रीवासुदेवमाहात्म्यं मासं तत्राशृणोत्पुनः ।। ७
प्रशंसां तस्य बहुधा चकार जनसंसदि ।सर्वथाऽस्मन्मतस्येदं मूलमित्येवमीरयन् ।। ८
सम्भारेणातिमहता पुष्पदोलोत्सवं हरिः महान्तं तत्र विदधे यथा वृत्तालये पुरा ।। ९
तत्र देशान्तरेभ्यश्च भक्ता आयन्सहस्रशः । उत्तमाद्या दुर्गपुराद्धरेः सम्बन्धिनस्तथा ।। १०
सुखयंस्तान्निजान्भक्तान् पक्षमेकं पुनर्हरिः । तत्रोवास ततस्ते च भक्तया चक्रुस्तदर्चनम् ।। ११
वसनैर्विविधैर्नूत्नैरलङ्कारैश्च शोभनैः । चन्दनेन च पुष्पस्रक्शेखराद्यैर्धनेन च ।। १२
पूजाप्राप्तं च वस्त्रादि यत्तत्सर्वमपि प्रभुः । ततोऽयोध्यायप्रसादाय ददाति स्म जनाधिप ! ।। १३
चैत्रशुक्लद्वितीयायां तान्स्वदेशगमाय सः । आज्ञाप्य सह पाश्चात्यैः पश्चिमं देशमभ्यगात् ।। १४
अष्टम्यामाययौ स्वामी भाल्लदेशे वृतः स्वकैः । काम्यालयाभिधं ग्रामं सुखयन् पथि च स्वकान् ।। १५
तत्रत्यैः प्रार्थितो भक्तैः सत्सेवोत्सुकमानसैः । तेभ्यस्तुष्टो हरिस्तत्र न्यवसन्नृपते ! सुखम् ।। १६
ग्राम्या भक्ता यथार्हं च सर्वांस्तान्संन्यवासयन् । आतिथ्यं च हरेश्चक्रुः सानुगस्य यथोचितम् ।। १७
शशिवर्णो हठी वाहः क्षेमराजावरादयः । नराश्च जिजिवाद्यास्तं योषाः पर्यचरन्मुदा ।। १८
हरिस्तत्र द्वितीयेऽह्नि रामजन्ममहोत्सवम् । चकार तत्र तद्देशभक्ता आयुः सहस्रशः ।। १९
उपचारैर्बहुविधैः पुपूजुस्ते हरिं मुदा । स तत्र पौर्णमास्यन्तमुवासाभ्यर्थितो निजैः ।। २०
तं प्रार्थयत्प्रतिपदि व्रजन्तं पुञ्जजिन्नृपः । स्वामिन् ! धौरेयनगरे जातप्रायं हि मन्दिरम् ।। २१
तत्र कृष्णप्रतिष्ठां त्वमागत्य कुरु साम्प्रतम् । शेषं मन्दिरकार्यं तु करिष्यामो वयं ततः ।। २२
इत्युक्तो भगवांस्तेन तथेप्युक्त्वा च तत्पुरम् । ययौ सङ्गव एवासौ प्राप तच्च सहानुगैः ।। २३
पुञ्जजिद्वासयामास संस्कृते स्वगृहे तु तम् । यथार्हमन्यांश्चान्यत्र तदातिथ्यं ततोऽकरोत् ।। २४
विलोक्य मन्दिरं स्वामी जातकल्पं ततो द्विजान् । ज्योतिर्विदः समाहूय मुहूर्तं पृच्छति स्म च ।। २५
वैशाखे शुक्लपक्षे च जयायां भृगुवासरे । मुहूर्तोऽस्ति शुभो विष्णोः स्थापनस्येति तेऽब्रुवन् ।। २६
दूरे मुहूर्त इत्येव गन्तुकामं ततो हरिम् । प्रणम्य सम्प्रार्थ्य नृपो वासयामास तत्र तम् ।। २७
भक्तवश्यः स च सुखं तत्रोवास महीपते ! । स्वकीयान्सुखयन्भक्तान्सद्वार्ताभिर्दिने दिने ।। २८
भाल्लदेशस्थभक्तानामुत्सवोऽभून्महांस्ततः । आजग्मुः प्रतिजग्मुश्च तत्र ते यूथशोऽन्वहम् ।। २९
त्रयोदश्यां यथाशास्त्रं कृष्णं मदनमोहनम् । राधया सहितं तत्र हरिरस्थापयत्ततः ।। ३०
पूजोत्सवो महानासीद्वाद्यघोषोपलक्षितः । विप्रांश्च भोजयामास हरिस्तत्र सहस्रशः ।। ३१
तेभ्यश्च दक्षिणां प्रादाद्वासानसि च महामनाः । नरसिंहोत्सवं चक्रे द्वितीयेऽह्नि च तत्र सः ।। ३२
कृत्वा भुक्तिं पौर्णमास्यां सानुगो निरगात्ततः । अपरो प्रतिपदि दुर्गपत्तनमाप सः ।। ३३
आनन्द आसीच्च महांस्तदानीं तं पश्यतः पौरजनस्य भूप ! ।
हरिर्निजावासमुपेत्य तत्र सुखं न्यवात्सीत्सुखरूपमूर्तिः ।। ३४
इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे चतुर्थप्रकरणे धौरेयपुरे श्रीराधाकृष्णसाधनादिनिरूपणनामा पञ्चचत्वारिंशोऽध्यायः ।। ४५ ।।