सुव्रत उवाच -
ततो बद्धाञ्जलिपुटास्त ऊचुर्नृप ! तं मुनिम् । अस्माकं संशयाः सर्वे विनष्टा मुनिपुङ्गव ! ।। १
त्वादृशाः साधवोऽस्माभिर्यथाशास्त्रार्थबोधकाः । निजानुभवसिद्धाश्च नैव दृष्टा हि भूतले ।। २
सन्तः सन्त्यत्र ये ते तु दम्भवञ्चितमानवाः । स्त्रीद्रव्यरससंसक्ता विद्वांसोऽप्यबुधा इव ।। ३
स्वामिनारायणोऽस्माभिस्तत्सन्तश्च श्रुताः खलु । माहात्म्यं त्वीदृशं तस्य स्फुटं केनापि नोदितम् ४
गुणेषु दोषानारोप्य सन्तोऽत्रत्यास्तु मायिकम् । तमाहुर्न तु कोऽप्याह मायापाशविमोचकम् ।। ५
वयं महान्तो धूर्ताः स्मो विद्वांसमपि संसदि । क्षणात्परास्तं कुर्मोऽत्र प्रणमामो न कञ्चन ।। ६
गुरोः प्रसादादद्यैव त्वया मूकाः कृता वयम् । अतः स ईशो विज्ञातोऽन्यथास्मान् कः पराजयेत् ७
अद्यप्रभृति तस्य स्म इति जानीहि निश्चितम् । अतो मुमुक्षूनस्मांस्त्वं तत्पार्श्वं नेतुमर्हसि ।। ८
सुव्रत उवाच -
तेषामिति वचः श्रुत्वा प्रसन्नः स मुनिर्नृप ! । निश्चिकाय मुमुक्षूंस्तांस्त्यक्तदम्भानुवाच च ।। ९
समीचीना मतिर्वोऽस्ति यूयं खलु मुमुक्षवः । स्वामिवार्ता मनसि वः प्रविशेत्कथमन्यथा ।। १०
अत्रागत्य प्रतिदिनं श्रव्यास्तस्य गुणा द्विजाः ! । तेन दुःसङ्गजास्तर्का नयन्ति सकला अपि ।। ११
सत्सङ्गेनैव माहात्म्यमादौ बुद्ध्वा तु तस्य ये । कुर्वन्ति दर्शनं तेषां जायतेऽतिसुखाय तत् ।। १२
युष्माकं हृदये सम्यग्जाते तन्निश्चये वयम् । तदन्तिकं गमिष्यामः सहिता नात्र संशयः ।। १३
इत्याश्रुत्य मुनेर्वाक्यं प्रसन्नमनसो हि ते । तं प्रणम्य निजं स्थानं जग्मुः साश्चर्यचेतसः ।। १४
ये त्वन्य आगतास्तत्र ते दृा तत्पराजयम् । त्रस्ताश्च विस्मिताः किञ्चिन्नोक्त्वा तूष्णीं ययुर्गृहान् ।। १५
सैव वार्ता प्रतिगृहं बभूव नगरे ततः । ये ये मुमुक्षवस्ते ते तं मुनिं शरणं ययुः ।। १६
स मुनिर्वादिनो जित्वा नाप किञ्चन विस्मयम् । हरेः प्रतापं तं जानन् निजहृत्पद्मसंस्थितेः ।। १७
ये जनाः स्वान्तिकं प्रापुर्बोधयित्वा स तानपि । हरेरेवाश्रयं सम्यक्कारयामास भूमिप ! ।। १८
रामचन्द्रादयस्तेऽपि तदन्तिकमुपेत्य च । प्रत्यहं भगवद्वार्ता आदरेणैव शुश्रुवुः ।। १९
दिने दिने रतिस्तेषामवर्धत हरौ ततः । माहात्म्यश्रवणात्तस्य तद्दिदृक्षा महत्यभूत् ।। २०
तेषां भगवति श्रद्धां दृाथाह मुनिः स तान् । ध्यानं कुरुत तस्यात्र दास्यते दर्शनं हि सः ।। २१
सिताम्बरं घनश्यामं वर्णिवेषं मनोहरम् । तं ध्यायथेति तेनोक्तास्तेऽपि तत्र तथाऽचरन् ।। २२
स्वस्तिकासनमासीनास्तद्वाक्याप्तप्रतीतयः । ध्यायन्तस्ते हरिं साक्षाद्ददृशुः सद्य आत्मनि ।। २३
सितप्रकाशमध्यस्थं तं दृातिमनोहरम् । आनन्दं परमं प्रापुः समाधेरुत्थितास्ततः ।। २४
विनष्टसंशयव्रातास्तद्दर्शनमहामुदः । भक्तिं तस्य ततो नित्यं विदधुर्मुन्यनुज्ञाया ।। २५
स्वाश्रितांश्च स्वविश्वासांस्ततः प्रोचुर्जनांश्च ते । श्रेयइच्छा भवेद्येषां ते यान्तु शरणं मुनिम् ।। २६
तेषां तं निश्चयं दृा पौरा लोकाः सहस्रशः । हरेः समाश्रयं चक्रुस्तदीयाश्चाखिला जनाः ।। २७
नारुपन्तः सिंहजितं भूमिपालमशेषतः । वृत्तं तत्कथयामास स तच्छ्रुत्वाप विस्मयम् ।। २८
ततो वसन्तपञ्चम्यां सैन्येन महता वृतः । स तत्समीपमागत्य प्रणनाम महामतिः ।। २९
आदृतो मुनिना तेन पृष्टश्चानामयं नृपः । उपविष्टस्तत्समीपे प्रार्थयामास तं ततः ।। ३०
साधूनां भवतामेव प्रसादादस्ति मे सुखम् । अधुना तु विशेषेण सुखितोऽस्मि त्वदीक्षणात् ।। ३१
अत्र त्वया कृपां कृत्वा यथा दत्तं स्वदर्शनम् । तथा त्वद्गुरुणा देयमिति तं प्रार्थयेद्बवान् ।। ३२
दिदृक्षा महती चित्ते वर्तते तस्य मेऽनघ ! । अत एतत्त्वया कार्यमिति त्वां प्रार्थयाम्यहम् ।। ३३
मुक्तानन्द उवाच -
समीचीनं त्वया राजन्नेतह्यवसितं हृदि । स्वतन्त्रोऽस्ति स तु स्वामी प्रार्थयिष्ये तथाप्यहम् ।। ३४
त्वं हि सुज्ञोऽसि भूपाल ! सदसद्व्यक्तिवित्सुधीः । व्यावहारिककार्याणि तव सन्ति बहूनि च ३५
तत्राप्यानीयावकाशं कर्तव्यं हरिचिन्तनम् । तदेव परलोकेास्ति सुखदं नेतरत् खलु ।। ३६
निपुणमतिमतां गुणाश्च ये स्युः शमदमशीलदयादयो हि तेषाम् ।
फलमिदमुदितं नरेन्द्र ! शास्त्रे भगवत एव पदाम्बुजे रतिर्या ।। ३७
यदि हरिचरणाम्बुजे स्वचित्तं दृढतरसंस्थितिमाप्नुयान्न भक्तया ।
इतरगुणगणेन किं तदानीं भवजलधिभ्रमहेतुना फलं स्यात् ।। ३८
भवदवशिखिदग्धमानसानां निरवधि शैत्यसुखं विचिन्वतां वै ।
हरिचरणसरोजमेकमेव श्रुतिगदिताखिलसौख्यमूलमस्ति ।। ३९
पदकमलसमीक्षणेन साक्षात्प्रभवति सौख्यमिति ध्रुवं न चित्रम् ।
अपि भव परितापितोऽन्तरात्मा हरिगुणसंश्रवणेन शान्तिमेति ।। ४०
अघभरहरणेऽत्र भक्तिभाजां प्रभवति नाम हरेर्हि तन्न चित्रम् ।
अपि विवशजनैरुदीरितं यदृरितचयं विनिहन्ति सद्य एव ।। ४१
समवति परितोऽन्यदुर्निवार्यान्निजजनमान्तरबाह्यवैरिसङ्घात् ।
क्षणमपि च न विस्मरत्यमुं यज्जगति ततः प्रभुनामः तस्य सार्थम् ।। ४२
स्थिरचरतनुधारिणां स आत्मा वपुरसुधीन्द्रियपाशसंवृतानाम् ।
हृदयसरसिजेऽस्ति दिव्यमूर्तिर्भुवि सदनुग्रहतः स लभ्यते च ।। ४३
चरणकमलमेतदीयमेव प्लवमिह ये विबुधाः श्रयन्ति तूर्णम् ।
पृथुभवजलधिं त एव नूनं सपदि तरन्त्यपरांस्त्वदन्ति नक्राः ।। ४४
सुव्रत उवाच -
एवमुक्तः स मुनिना हृष्टो राजा घटीद्वयम् । तत्र स्थित्वा प्रणम्याथ तं ययौ निजकेतनम् ।। ४५
हरेः समाश्रयं नित्यं कारयन् बहुशो जनान् । सार्धमासत्रयं तत्र मुनिः सन्यवसन्नृप ! ।। ४६
ततो जिगमिषां चक्रे दर्शनार्थं हरेस्ततः । तावद्दूत उपेत्याह तस्य वृत्तालयागमम् ।। ४७
ततो नाथजिदाद्यैश्च रामचन्द्रादिभिः सह । वृत्तालयमुपेयायाऽमलक्येकादशीदने ।। ४८
ते हरेर्दर्शनं चक्रू रामचन्द्रादयस्तदा । समाधिदृष्टमेवैनं दृापुः परमां मुदम् ।। ४९
तत्रत्यमखिलं वृत्तं मुक्तानन्द उवाच तम् । तच्छ्रुत्वा स प्रसन्नस्तं प्रशशंस च सादरम् ।। ५०
इत्येतत्ते निगदितं यत्पृष्टं भवतानघ ! । मुक्तानन्दः कथं जिग्ये वटपत्तनवादिनः ।। ५१
इत्थं हरेर्भगवतो भवति प्रतापो देशान्तरेऽपि ननु येन समाधिसिद्धिः ।
सद्यो भवत्यकृतयौगिकसाधनानां नृणामपि प्रचुरयोगजुषां दुरापा ।। ५२ ।।
इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे चतुर्थप्रकरणे त्रियुगशब्दार्थनिर्णये वादिपराजयतत्कृतहरिसमाश्रयनिरूपणनामाष्टत्रिंशोऽध्यायः ।। ३८ ।।