शोभाराम उवाच -
मुनिराज ! त्वया सम्यक्कथितं तेन नो महान् । संशयो बहुकालीनो नष्टस्त्रियुगशब्दजः ।। १
अतःपरं त्वामपरं पृच्छाम्यनघ ! संशयम् । प्रष्टव्यः संशयो यस्मात्संशयात्मा विनश्यति ।। २
अवतारा भगवतो दशैवेत्यखिला जनाः । वदन्त्यत्रापि विद्वांसो न मूर्खा एव केवलम् ।। ३
गुरुस्ते सहजानन्दस्वामी यः साम्प्रतं भुवि । अवतारस्त्वया विष्णोः प्रोक्तः किंनामको ह्यसौ ।। ४
एतावदेव मे पृच्छा भवति प्रभुवल्लभ ! । तदुत्तरं यथावत्त्वं वक्तुमर्हसि साम्प्रतम् ।। ५
इति पृष्टः शास्त्रविदा हरिभक्तः स उत्स्मयन् । शान्तवादरयं प्रोचे तं पुनः शास्त्रसम्मतम् ।। ६
मुक्तानन्द उवाच-
अवतारा दशैवेति नियमो नास्ति मानद ! । यतः सर्वनियन्तासौ स्वतन्त्रोऽस्ति जगत्प्रभुः ।। ७
बहुवाक्यविरोधोऽस्ति दशेति वदतां मते । कस्मिंश्चिदपि सद्ग्रन्थे सङ्खया नास्त्यजजन्मनाम् ।। ८
अवताराः कति हरेरिति जन्मेजयो नृपः । पप्रच्छ हरिवंशे तं वैशंपायन ऊचिवान् ।। ९
आहुर्वेदविदो विप्रा यं यज्ञो शाश्वतं विभुम् । तस्य विष्णोः सुरेशस्य श्रीवत्साङ्कस्य धीमतः ।। १०
प्रादुर्भावसहस्राणि अतीतानि न संशयः । भूयश्चैव भविष्यन्तीत्येवमाह प्रजापतिः ।। ११
हितार्थं सुरमर्त्यानां लोकानां प्रभवाय च । बहुशः सर्वभूतात्मा प्रादुर्भवति कार्यतः ।। १२
यदा यदा हि धर्मस्य ग्लानिर्भवति भारत ! । धर्मसंस्थापनार्थाय तदा सम्भवति प्रभुः ।। १३
श्रीमद्बागवते पूर्वे कतिचित्तु समीरिताः । ततः प्रोक्ता असङ्खयाता आविर्भावा हरेः किल ।। १४
अवतारा ह्यसङ्खयाता हरेः सत्त्वनिधेर्द्विजाः ! । यथाऽविदासिनः कुल्याः सरसः स्युः सहस्रशः ।। १५
इत्युक्त प्रथमे स्कन्धे द्वितीये ब्रह्माणापि च । उक्त्वाऽवतारान् बहुशस्ततः प्रोक्तमिदं वचः ।। १६
नान्तं विदाम्यहममी मुनयोऽग्रजास्ते मायाबलस्य पुरुषस्य कुतोऽपरे ये ।
गायन् गुणान् दशशतानन आदिदेवः शेषोऽधुनापि समवस्यति नास्य पारम् ।। १७
दशमे स्तुवता कृष्णमुक्तं वै ब्रह्मणा पुनः । हेतुमुक्त्वाऽवताराणां तस्यासन्निग्रहादिकम् ।। १८
को वेत्ति भूमन् ! भगवन् ! परात्मन् ! योगेश्वरोतीर्मवतस्त्रिलोकयाम् ।
क्काहो कथं वा कति वा कदेति विस्तारयन् क्रीडसि योगमायाम् ।। १९
स्वयं कृष्णेन चाप्युक्तं मुचुकुन्दं नृपं प्रति । आनन्त्यं स्वावताराणां तच्छ्लोकत्रयमुच्यते ।। २०
जन्मकर्माभिधानानि सन्ति मेऽङ्ग ! सहस्रशः ।न शक्यन्तेऽनुसङ्खयातुमनन्तत्वान्मयापि हि ।। २१
क्कचिद्रजांसि विममे पार्थिवान्युरुजन्मभिः । गुणकर्माभिधानानि न मे जन्मानि कर्हिचित् ।। २२
कालत्रयोपपन्नानि जन्मकर्माणि मेऽनघ ! । अनुक्रमन्तो नैवान्तं गच्छन्ति परमर्षयः ।। २३
गीतायामपि स प्राह भगवानर्जुनं प्रति । बहूनि मे व्यतीतानि जन्मानि तव चार्जुन ! ।। २४
न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः । न चैव न भविष्यामः सर्वे वयमतः परम् ।। २५
इत्यादिभिर्हि वचनैः प्रबलैः शताशोभनघ ! । सङ्खया हर्यवताराणां साक्रोशं हि निषिध्यते ।। २६
दशसङ्खाभ्रमं त्यक्त्वा ततः स्वस्थेन चेतसा । कृतावतारो भगवान् श्रयणीयो मुमुक्षुणा ।। २७
हरिं विना च प्रत्यक्षमनेकभवसम्भवः । नैव नश्येन्महामोहः सेवनीयस्ततो हि सः ।। २८
ब्रह्मज्ञानं न मुक्तयर्थं प्रत्यक्षं स्याद्विना हरिम् । अत एव सुबोधिन्यां प्रोक्तं श्रीवल्लभेन च ।। २९
भक्तानामेव निस्तारः कृतः कृष्णेन संसृतेः । अतो निरोधो भक्तानां प्रपञ्चस्येति निश्चयः ।। ३०
यावद्बहिःस्थितो वह्निः प्रकटोऽन्तर्विशेन्नहि । तावदन्तः स्थितोऽप्येष न दारुदहनक्षमः ।। ३१
एवं सर्वगतो विष्णुः प्रकटश्चेन्न तद्विशेत् । तावन्न लीयते सर्वमिति कृष्णसमुद्यमः ।। ३२
इत्युक्तस्तेन शास्त्री स सद्योऽभून्नष्टसंशयः । त्रयोऽन्येऽपि च निश्चिक्युर्हरिरत्र भवेदिति ।। ३३
तदा चिन्मयरावस्तु कलावपि हरिर्भुवि । भवेदिति तु वेत्ति स्म प्रमाणप्रबलत्वतः ।। ३४
किन्तु विष्णवतारत्वे तद्गुरोः प्राप्तसंशयः । प्रपच्छ तं मुनिवरं बुद्धिमन्तं स बुद्धिमान् ।। ३५
नारायणस्यावताराः स्युः कलावपि भूतले । इति त्वया यदुक्तं तत्सत्यं मन्यामहे मुने ! ।। ३६
नराकृतिः स भगवानसाधारणलक्षणैः । कैर्विज्ञोयो भुवि चरंस्तन्नो ब्रूहि महामते ! ।। ३७
येन न हताश्चासुरा अपि । तादृशोऽपीश्वरो यः स्यात्स ज्ञोयश्च कथं वद ।। ३८
मुक्तानन्द उवाच -
नराकृतिरपि स्वामी चरित्रैः सोऽतिमानुषैः । तद्बक्तलक्षणैश्चापि ज्ञातुं शक्यो मुमुक्षुभिः ।। ३९
लक्षणानि हरेस्तस्य धर्मे प्राह पुरावनिः । तानि वोऽहं प्रवक्ष्यामि यान्यसाधारणानि हि ।। ४०
सत्यं शौचं दया क्षान्तिस्त्यागः सन्तोष आर्जवम् । शमो दमस्तपः साम्यं तितिक्षोपरतिः श्रुतम् ।। ४१
ज्ञानं विरक्तिरैश्वर्ये शौर्यं तेजो बलं स्मृतिः । स्वातन्त्र्यं कौशलं कान्तिधैर्यं मार्दवमेव च ।। ४२
प्रागल्भ्यं प्रश्रयः शीलं सह ओजो बलं भगः । गाम्भीर्यं स्थैर्यमास्तिक्यं कीर्तिर्मानोऽनहङ्कृतिः ४३
ब्रह्मण्यत्वशरण्यत्वादयोऽन्येऽपि गुणाः प्रभौ । नित्याः सन्तीति जानीत प्रार्थ्या अन्यैरनेकशः ।। ४४
कृपया यस्य सहसा प्राकृतोऽपि जनो भुवि । जाग्रत्स्वप्नसुषुप्तिभ्यः स्थानं परमवाप्नुयात् ।। ४५
वशीकर्तुमशक्यं यद्ब्रह्मादिभिरतन्द्रितैः । तन्मनो यो वशे कुर्यात्स्वाश्रितानां च स प्रभुः ।। ४६
अष्टाङ्गयोगाभ्यसनं विनापि कृपयैव च । यस्य नणां भवेत्सद्यः स्वस्वरूपेऽचला स्थितिः ।। ४७
दर्शनं यस्य मूर्तीनां गोलोकादिषु धामसु । भवेच्च सोऽत्र विज्ञोयो भगवान्मानुषाकृतिः ।। ४८
यस्य भक्ता जितक्रोधा जितकामाश्च निःस्पृहाः । जितस्वादाश्च निर्लोभा निर्मानाः स्युः स वै हरिः ४९
एतत्सेपतः प्रोक्तमसाधारणलक्षणम् । समं सर्वावतारेषु मया नारायणस्य हि ।। ५०
अन्यद्यत्तस्य चरितं तत्तु कार्यवशान्ननु । भक्तानां गायनार्थं वा नत्वीशत्वस्य सूचकम् ।। ५१
गोवर्धनोद्धारणादि चरितं तस्य यत्प्रभोः । इन्द्रादिदर्पनुत्यै तन्न त्वीशत्वस्य सूचकम् ।। ५२
हिरण्याक्षादयो दैत्याः सकलैरपि पर्वतैः । दधुः समग्रां पृथिवीं तावता ते किमीश्वराः ।। ५३
तस्माल्लक्षणमीशस्य त्वज्ञानाज्जीवमोक्षणम् । सद्धर्मद्रोहिदैत्यानां वधश्चेत्येव निश्चितम् ।। ५४
असुरा द्विविधा ज्ञोयास्तत्रैके शस्त्रपाणयः । भीषणाकृतयोऽन्ये तु साधुवेषाश्च दुष्क्रियाः ।। ५५
वधोऽपि द्विविधस्तेषां शस्त्रेणाशस्त्रतस्तथा । शिरच्छेदः शस्त्रवधोऽपरत्तज्जीविकाहृतिः ।। ५६
देवानां जीविका दैवी सम्पत्प्रोक्ता मनीषिभिः । आसुरी त्वसुराणां ते गीतायां हरिणोदिते ।। ५७
अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः । दानं दमश्च यज्ञाश्च स्वाध्यायस्तप आर्जवम् ।। ५८
अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम् । दया भूतेष्वलोलुप्त्वं मार्दवं हीरचापलम् ।। ५९
तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता । भवन्ति सम्पदं दैवीमभिजातस्य भारत ! ।। ६०
दम्भो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव च । अज्ञानं चाभिजातस्य पार्थ ! सम्पदमासुरीम् ।। ६१
दैवी सम्पद्विमोक्षाय निबन्धायासुरी मता । मा शुचः सम्पदं दैवीमभिजातोऽसि पाण्डव ! ।। ६२
द्वौ भूतसर्गौ लोकेऽस्मिन्दैव आसुर एव च । दैवो विस्तरशः प्रोक्त आसुरं पार्थ ! मे शृणु ।। ६३
प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः । न शौचं नापि चाचारो न सत्यं तेषु विद्यते ।। ६४
असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् । अपरस्परसम्भूतं किमन्यत्कामहेतुकम् ।। ६५
एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः । प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः ।। ६६
काममाश्रित्य दुष्पूरं दम्भमानमदान्विताः । मोहाद्गृहीत्वाऽसद्ग्राहान्प्रवर्तन्तेऽशुचिव्रताः ।। ६७
चिन्तामपरिमेयां च प्रलयान्तामुपाश्रिताः । कामोपभोगपरमा एतावदितिनिश्चयाः ।। ६८
आशापाशशतैर्बद्धाः कामक्रोधपरायणाः । ईहन्ते कामभोगार्थमन्यायेनार्थसञ्चयान् ।। ६९
इदमद्य मया लब्धमिमं प्राप्स्ये मनोरथम् । इदमस्तीदमपि मे भविष्यति पुनर्धनम् ।। ७०
असौ मया हतः शत्रुर्हनिष्ये चापरानपि । ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान् सुखी ।। ७१
आढयोऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया । यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः ७२
अनेकचित्तविभ्रान्ता मोहजालसमावृताः । प्रसक्ताः कामभोगेषु पतन्ति नरकेऽशुचौ ।। ७३
आत्मसम्भाविताः स्तब्धा धनमानमदान्विताः । यजन्ते नामयज्ञौस्ते दम्भेनाविधिपूर्वकम् ।। ७४
अहङ्कारं बलं दर्पं कामं क्रोधं च संश्रिताः । मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः ।। ७५
इति दैवीमासुरीं च सम्पदं च तयोः फलम् । कृष्णः सविस्तरं प्राह विविच्यैवार्जुनं प्रति ।। ७६
यदा दैत्याः शस्त्रभृतो जायन्ते भुवि दुष्क्रियाः । तदाविर्भूय भगवान् शस्त्रपाणिर्निहन्ति तान् ।। ७७
यदा ते साधुवेषाः स्युर्दुराचारास्तदा प्रभुः । अशस्त्रो हन्ति तान् हत्वा कामक्रोधादिजीविकाम् ७८
तेषां सम्पदि नष्टायामासुर्यां हरिशक्तितः । नश्यत्येवाऽसुरत्वं हि देवत्वं समुदेति च ।। ७९
लोका अन्ये च साश्चर्यं तान्वदन्त्यखिला अपि । देवदत्ता इमे नूत्ना न तु ते प्राक्तना इति ।। ८०
येन केनाप्युपायेन सद्धर्मं भगवान्भुवि । स्थापयन्स्वाश्रितान्सद्यो मोचयत्येव बन्धनात् ।। ८१
तदाश्रयेण जीवानां महापातकिनामपि । कल्याणं स्यादतो भक्तयाऽश्रययणीयः स वै नृभिः । ८२
अस्मद्गुरुश्च सकलैरैश्वरैर्लक्षणैरिह । सम्पन्नोऽस्तीति तं वच्मि भगवन्तं न गौरवात् ।। ८३
सहस्रशो दुराचाराः पुमांसोऽपि तदाश्रयात् । मुक्तासुरक्रियाः सन्ति प्रसिद्धास्ते च भूतले ।। ८४
योगाभ्यासं विनैवात्र शतशश्च सहस्रशः । जनाः समाधिं यान्तीति प्रत्यक्षं दृश्यतेऽखिलैः ।। ८५
अन्तकाले च तद्बक्तान् नेतुं तत्पार्षदा अपि । आयान्तीतीक्ष्यते भक्तैरभक्तैश्च क्वचित्क्व चित् ।। ८६
ईश्वरोऽतः स एवेति सुज्ञौर्निश्चीयते जनैः । अत्र चेत्संशयः कश्चित्पृच्छतोत्तरदोऽस्म्यहम् ।। ८७
सुव्रत उवाच - इति तस्य मुनेर्निशम्य वाचं गलिताभ्यन्तरसर्वसंशयास्ते ।
स्वमतं परिहाय तं प्रणेमुः श्रुतपूर्वे विविदुर्हरिं च विष्णुम् ।। ८८ ।।
इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे चतुर्थप्रकरणे त्रियुगशब्दार्थनिर्णये भगवदवतारा-साधारणलक्षणनिरूपणनामा सप्तत्रिंशोऽध्यायः ।। ३७ ।।